हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
सौंदर्य लहरी
प्रथम
भागः
-
आनंद
लहरि
भुमौस्खलित
पादानां
भूमिरेवा
वलंबनम्
।
त्वयी
जाता
पराधानां
त्वमेव
शरणं
शिवे
॥
शिवः
शक्त्या
युक्तो
यदि
भवति
शक्तः
प्रभवितुं
न
चेदेवं
देवो
न
खलु
कुशलः
स्पंदितुमपि
।
अतस्त्वामाराध्यां
हरिहरविरिंचादिभिरपि
प्रणंतुं
स्तोतुं
वा
कथमकृतपुण्यः
प्रभवति
॥
1
॥
तनीयांसं
पांसुं
तव
चरणपंकेरुहभवं
विरिंचिस्संचिन्वन्
विरचयति
लोकानविकलम्
।
वहत्येनं
शौरिः
कथमपि
सहस्रेण
शिरसां
हरस्संक्षुद्यैनं
भजति
भसितोद्धूलनविधिम्
॥
2
॥
अविद्यानामंत-स्तिमिर-मिहिरद्वीपनगरी
जडानां
चैतन्य-स्तबक-मकरंद-स्रुतिझरी
।
दरिद्राणां
चिंतामणिगुणनिका
जन्मजलधौ
निमग्नानां
दंष्ट्रा
मुररिपु-वराहस्य
भवति
॥
3
॥
त्वदन्यः
पाणिभ्यामभयवरदो
दैवतगणः
त्वमेका
नैवासि
प्रकटितवराभीत्यभिनया
।
भयात्
त्रातुं
दातुं
फलमपि
च
वांछासमधिकं
शरण्ये
लोकानां
तव
हि
चरणावेव
निपुणौ
॥
4
॥
हरिस्त्वामाराध्य
प्रणतजनसौभाग्यजननीं
पुरा
नारी
भूत्वा
पुररिपुमपि
क्षोभमनयत्
।
स्मरोऽपि
त्वां
नत्वा
रतिनयनलेह्येन
वपुषा
मुनीनामप्यंतः
प्रभवति
हि
मोहाय
महताम्
॥
5
॥
धनुः
पौष्पं
मौर्वी
मधुकरमयी
पंच
विशिखाः
वसंतः
सामंतो
मलयमरुदायोधनरथः
।
तथाप्येकः
सर्वं
हिमगिरिसुते
कामपि
कृपाम्
अपांगात्ते
लब्ध्वा
जगदिद-मनंगो
विजयते
॥
6
॥
क्वणत्कांचीदामा
करिकलभकुंभस्तननता
परिक्षीणा
मध्ये
परिणतशरच्चंद्रवदना
।
धनुर्बाणान्
पाशं
सृणिमपि
दधाना
करतलैः
पुरस्तादास्तां
नः
पुरमथितुराहोपुरुषिका
॥
7
॥
सुधासिंधोर्मध्ये
सुरविटपिवाटीपरिवृते
मणिद्वीपे
नीपोपवनवति
चिंतामणिगृहे
।
शिवाकारे
मंचे
परमशिवपर्यंकनिलयां
भजंति
त्वां
धन्याः
कतिचन
चिदानंदलहरीम्
॥
8
॥
महीं
मूलाधारे
कमपि
मणिपूरे
हुतवहं
स्थितं
स्वाधिष्ठाने
हृदि
मरुतमाकाशमुपरि
।
मनोऽपि
भ्रूमध्ये
सकलमपि
भित्वा
कुलपथं
सहस्रारे
पद्मे
सह
रहसि
पत्या
विहरसे
॥
9
॥
सुधाधारासारैश्चरणयुगलांतर्विगलितैः
प्रपंचं
सिंचंती
पुनरपि
रसाम्नायमहसः
।
अवाप्य
स्वां
भूमिं
भुजगनिभमध्युष्टवलयं
स्वमात्मानं
कृत्वा
स्वपिषि
कुलकुंडे
कुहरिणि
॥
10
॥
चतुर्भिः
श्रीकंठैः
शिवयुवतिभिः
पंचभिरपि
प्रभिन्नाभिः
शंभोर्नवभिरपि
मूलप्रकृतिभिः
।
चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय-
त्रिरेखाभिः
सार्धं
तव
शरणकोणाः
परिणताः
॥
11
॥
त्वदीयं
सौंदर्यं
तुहिनगिरिकन्ये
तुलयितुं
कवींद्राः
कल्पंते
कथमपि
विरिंचिप्रभृतयः
।
यदालोकौत्सुक्यादमरललना
यांति
मनसा
तपोभिर्दुष्प्रापामपि
गिरिशसायुज्यपदवीम्
॥
12
॥
नरं
वर्षीयांसं
नयनविरसं
नर्मसु
जडं
तवापांगालोके
पतितमनुधावंति
शतशः
।
गलद्वेणीबंधाः
कुचकलशविस्रस्तसिचया
हठात्
त्रुट्यत्कांच्यो
विगलितदुकूला
युवतयः
॥
13
॥
क्षितौ
षट्पंचाशद्
द्विसमधिकपंचाशदुदके
हुताशे
द्वाषष्टिश्चतुरधिकपंचाशदनिले
।
दिवि
द्विष्षट्त्रिंशन्मनसि
च
चतुष्षष्टिरिति
ये
मयूखास्तेषामप्युपरि
तव
पादांबुजयुगम्
॥
14
॥
शरज्ज्योत्स्नाशुद्धां
शशियुतजटाजूटमकुटां
वरत्रासत्राणस्फटिकघटिकापुस्तककराम्
।
सकृन्न
त्वा
नत्वा
कथमिव
सतां
संन्निदधते
मधुक्षीरद्राक्षामधुरिमधुरीणाः
भणितयः
॥
15
॥
[फणितयः]
कवींद्राणां
चेतःकमलवनबालातपरुचिं
भजंते
ये
संतः
कतिचिदरुणामेव
भवतीम्
।
विरिंचिप्रेयस्यास्तरुणतरशऋंगारलहरी-
गभीराभिर्वाग्भिर्विदधति
सतां
रंजनममी
॥
16
॥
सवित्रीभिर्वाचां
शशिमणिशिलाभंगरुचिभिः
वशिन्याद्याभिस्त्वां
सह
जननि
संचिंतयति
यः
।
स
कर्ता
काव्यानां
भवति
महतां
भंगिरुचिभिः
वचोभिर्वाग्देवीवदनकमलामोदमधुरैः
॥
17
॥
तनुच्छायाभिस्ते
तरुणतरणिश्रीसरणिभिः
दिवं
सर्वामुर्वीमरुणिमनि
मग्नां
स्मरति
यः
।
भवंत्यस्य
त्रस्यद्वनहरिणशालीननयनाः
सहोर्वश्या
वश्याः
कति
कति
न
गीर्वाणगणिकाः
॥
18
॥
मुखं
बिंदुं
कृत्वा
कुचयुगमधस्तस्य
तदधो
हरार्धं
ध्यायेद्यो
हरमहिषि
ते
मन्मथकलाम्
।
स
सद्यः
संक्षोभं
नयति
वनिता
इत्यतिलघु
त्रिलोकीमप्याशु
भ्रमयति
रवींदुस्तनयुगाम्
॥
19
॥
किरंतीमंगेभ्यः
किरणनिकुरंबामृतरसं
हृदि
त्वामाधत्ते
हिमकरशिलामूर्तिमिव
यः
।
स
सर्पाणां
दर्पं
शमयति
शकुंताधिप
इव
ज्वरप्लुष्टान्
दृष्ट्या
सुखयति
सुधाधारसिरया
॥
20
॥
तटिल्लेखातन्वीं
तपनशशिवैश्वानरमयीं
निषण्णां
षण्णामप्युपरि
कमलानां
तव
कलाम्
।
महापद्माटव्यां
मृदितमलमायेन
मनसा
महांतः
पश्यंतो
दधति
परमाह्लादलहरीम्
॥
21
॥
भवानि
त्वं
दासे
मयि
वितर
दृष्टिं
सकरुणा-
मिति
स्तोतुं
वांछन्
कथयति
भवानि
त्वमिति
यः
।
तदैव
त्वं
तस्मै
दिशसि
निजसायुज्यपदवीं
मुकुंदब्रह्मेंद्रस्फुटमकुटनीराजितपदाम्
॥
22
॥
त्वया
हृत्वा
वामं
वपुरपरि-तृप्तेन
मनसा
शरीरार्धं
शंभोरपरमपि
शंके
हृतमभूत्
।
यदेतत्त्वद्रूपं
सकलमरुणाभं
त्रिनयनं
कुचाभ्यामानम्रं
कुटिलशशिचूडालमकुटम्
॥
23
॥
जगत्सूते
धाता
हरिरवति
रुद्रः
क्षपयते
तिरस्कुर्वन्नेतत्स्वमपि
वपुरीशस्तिरयति
।
सदापूर्वः
सर्वं
तदिदमनुगृह्णाति
च
शिव-
स्तवाज्ञामालंब्य
क्षणचलितयोर्भ्रूलतिकयोः
॥
24
॥
त्रयाणां
देवानां
त्रिगुणजनितानां
तव
शिवे
भवेत्
पूजा
पूजा
तव
चरणयोर्या
विरचिता
।
तथा
हि
त्वत्पादोद्वहनमणिपीठस्य
निकटे
स्थिता
ह्येते
शश्वन्मुकुलितकरोत्तंसमकुटाः
॥
25
॥
विरिंचिः
पंचत्वं
व्रजति
हरिराप्नोति
विरतिं
विनाशं
कीनाशो
भजति
धनदो
याति
निधनम्
।
वितंद्री
माहेंद्री
विततिरपि
संमीलितदृशा
महासंहारेऽस्मिन्
विहरति
सति
त्वत्पतिरसौ
॥
26
॥
जपो
जल्पः
शिल्पं
सकलमपि
मुद्राविरचना
गतिः
प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः
।
प्रणामस्संवेशस्सुखमखिलमात्मार्पणदृशा
सपर्यापर्यायस्तव
भवतु
यन्मे
विलसितम्
॥
27
॥
सुधामप्यास्वाद्य
प्रतिभयजरामृत्युहरिणीं
विपद्यंते
विश्वे
विधिशतमखाद्या
दिविषदः
।
करालं
यत्क्ष्वेलं
कबलितवतः
कालकलना
न
शंभोस्तन्मूलं
तव
जननि
ताटंकमहिमा
॥
28
॥
किरीटं
वैरिंचं
परिहर
पुरः
कैटभभिदः
कठोरे
कोटीरे
स्खलसि
जहि
जंभारिमुकुटम्
।
प्रणम्रेष्वेतेषु
प्रसभमुपयातस्य
भवनं
भवस्याभ्युत्थाने
तव
परिजनोक्तिर्विजयते
॥
29
॥
स्वदेहोद्भूताभिर्घृणिभिरणिमाद्याभिरभितो
निषेव्ये
नित्ये
त्वामहमिति
सदा
भावयति
यः
।
किमाश्चर्यं
तस्य
त्रिनयनसमृद्धिं
तृणयतो
महासंवर्ताग्निर्विरचयति
निराजनविधिम्
॥
30
॥
चतुष्षष्ट्या
तंत्रैः
सकलमतिसंधाय
भुवनं
स्थितस्तत्तत्सिद्धिप्रसवपरतंत्रैः
पशुपतिः
।
पुनस्त्वन्निर्बंधादखिलपुरुषार्थैकघटना-
स्वतंत्रं
ते
तंत्रं
क्षितितलमवातीतरदिदम्
॥
31
॥
शिवः
शक्तिः
कामः
क्षितिरथ
रविः
शीतकिरणः
स्मरो
हंसः
शक्रस्तदनु
च
परामारहरयः
।
अमी
हृल्लेखाभिस्तिसृभिरवसानेषु
घटिता
भजंते
वर्णास्ते
तव
जननि
नामावयवताम्
॥
32
॥
स्मरं
योनिं
लक्ष्मीं
त्रितयमिदमादौ
तव
मनो-
र्निधायैके
नित्ये
निरवधिमहाभोगरसिकाः
।
भजंति
त्वां
चिंतामणिगुननिबद्धाक्षवलयाः
शिवाग्नौ
जुह्वंतः
सुरभिघृतधाराहुतिशतैः
॥
33
॥
शरीरं
त्वं
शंभोः
शशिमिहिरवक्षोरुहयुगं
तवात्मानं
मन्ये
भगवति
नवात्मानमनघम्
।
अतश्शेषश्शेषीत्ययमुभयसाधारणतया
स्थितः
संबंधो
वां
समरसपरानंदपरयोः
॥
34
॥
मनस्त्वं
व्योम
त्वं
मरुदसि
मरुत्सारथिरसि
त्वमापस्त्वं
भूमिस्त्वयि
परिणतायां
न
हि
परम्
।
त्वमेव
स्वात्मानं
परिणमयितुं
विश्ववपुषा
चिदानंदाकारं
शिवयुवति
भावेन
बिभृषे
॥
35
॥
तवाज्ञाचक्रस्थं
तपनशशिकोटिद्युतिधरं
परं
शंभुं
वंदे
परिमिलितपार्श्वं
परचिता
।
यमाराध्यन्
भक्त्या
रविशशिशुचीनामविषये
निरालोकेऽलोके
निवसति
हि
भालोकभुवने
॥
36
॥
विशुद्धौ
ते
शुद्धस्फटिकविशदं
व्योमजनकं
शिवं
सेवे
देवीमपि
शिवसमानव्यवसिताम्
।
ययोः
कांत्या
यांत्याः
शशिकिरणसारूप्यसरणे-
विधूतांतर्ध्वांता
विलसति
चकोरीव
जगती
॥
37
॥
समुन्मीलत्
संवित्
कमलमकरंदैकरसिकं
भजे
हंसद्वंद्वं
किमपि
महतां
मानसचरम्
।
यदालापादष्टादशगुणितविद्यापरिणति-
र्यदादत्ते
दोषाद्
गुणमखिलमद्भ्यः
पय
इव
॥
38
॥
तव
स्वाधिष्ठाने
हुतवहमधिष्ठाय
निरतं
तमीडे
संवर्तं
जननि
महतीं
तां
च
समयाम्
।
यदालोके
लोकान्
दहति
महति
क्रोधकलिते
दयार्द्रा
या
दृष्टिः
शिशिरमुपचारं
रचयति
॥
39
॥
तटित्त्वंतं
शक्त्या
तिमिरपरिपंथिफुरणया
स्फुरन्नानारत्नाभरणपरिणद्धेंद्रधनुषम्
।
तव
श्यामं
मेघं
कमपि
मणिपूरैकशरणं
निषेवे
वर्षंतं
हरमिहिरतप्तं
त्रिभुवनम्
॥
40
॥
तवाधारे
मूले
सह
समयया
लास्यपरया
नवात्मानं
मन्ये
नवरसमहातांडवनटम्
।
उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य
दयया
सनाथाभ्यां
जज्ञे
जनकजननीमज्जगदिदम्
॥
41
॥
द्वितीय
भागः
-
सौंदर्य
लहरी
गतैर्माणिक्यत्वं
गगनमणिभिः
सांद्रघटितं
किरीटं
ते
हैमं
हिमगिरिसुते
कीर्तयति
यः
।
स
नीडेयच्छायाच्छुरणशबलं
चंद्रशकलं
धनुः
शौनासीरं
किमिति
न
निबध्नाति
धिषणाम्
॥
42
॥
धुनोतु
ध्वांतं
नस्तुलितदलितेंदीवरवनं
घनस्निग्धश्लक्ष्णं
चिकुरनिकुरुंबं
तव
शिवे
।
यदीयं
सौरभ्यं
सहजमुपलब्धुं
सुमनसो
वसंत्यस्मिन्
मन्ये
वलमथनवाटीविटपिनाम्
॥
43
॥
तनोतु
क्षेमं
नस्तव
वदनसौंदर्यलहरी-
परीवाहस्रोतःसरणिरिव
सीमंतसरणिः
।
वहंती
सिंदूरं
प्रबलकबरीभारतिमिर-
द्विषां
बृंदैर्बंदीकृतमिव
नवीनार्ककिरणम्
॥
44
॥
अरालैः
स्वाभाव्यादलिकलभसश्रीभिरलकैः
परीतं
ते
वक्त्रं
परिहसति
पंकेरुहरुचिम्
।
दरस्मेरे
यस्मिन्
दशनरुचिकिंजल्करुचिरे
सुगंधौ
माद्यंति
स्मरदहनचक्षुर्मधुलिहः
॥
45
॥
ललाटं
लावण्यद्युतिविमलमाभाति
तव
य-
द्द्वितीयं
तन्मन्ये
मकुटघटितं
चंद्रशकलम्
।
विपर्यासन्यासादुभयमपि
संभूय
च
मिथः
सुधालेपस्यूतिः
परिणमति
राकाहिमकरः
॥
46
॥
भ्रुवौ
भुग्ने
किंचिद्भुवनभयभंगव्यसनिनि
त्वदीये
नेत्राभ्यां
मधुकररुचिभ्यां
धृतगुणम्
।
धनुर्मन्ये
सव्येतरकरगृहीतं
रतिपतेः
प्रकोष्ठे
मुष्टौ
च
स्थगयति
निगूढांतरमुमे
॥
47
॥
अहः
सूते
सव्यं
तव
नयनमर्कात्मकतया
त्रियामां
वामं
ते
सृजति
रजनीनायकतया
।
तृतीया
ते
दृष्टिर्दरदलितहेमांबुजरुचिः
समाधत्ते
संध्यां
दिवसनिशयोरंतरचरीम्
॥
48
॥
विशाला
कल्याणी
स्फुटरुचिरयोध्या
कुवलयैः
कृपाधाराधारा
किमपि
मधुराभोगवतिका
।
अवंती
दृष्टिस्ते
बहुनगरविस्तारविजया
ध्रुवं
तत्तन्नामव्यवहरणयोग्या
विजयते
॥
49
॥
कवीनां
संदर्भस्तबकमकरंदैकरसिकं
कटाक्षव्याक्षेपभ्रमरकलभौ
कर्णयुगलम्
।
अमुंचंतौ
दृष्ट्वा
तव
नवरसास्वादतरला-
वसूयासंसर्गादलिकनयनं
किंचिदरुणम्
॥
50
॥
शिवे
शऋंगारार्द्रा
तदितरजने
कुत्सनपरा
सरोषा
गंगायां
गिरिशचरिते
विस्मयवती
।
हराहिभ्यो
भीता
सरसिरुहसौभाग्यजननी
(जयिनी)
सखीषु
स्मेरा
ते
मयि
जननी
दृष्टिः
सकरुणा
॥
51
॥
गते
कर्णाभ्यर्णं
गरुत
इव
पक्ष्माणि
दधती
पुरां
भेत्तुश्चित्तप्रशमरसविद्रावणफले
।
इमे
नेत्रे
गोत्राधरपतिकुलोत्तंसकलिके
तवाकर्णाकृष्टस्मरशरविलासं
कलयतः
॥
52
॥
विभक्तत्रैवर्ण्यं
व्यतिकरितलीलांजनतया
विभाति
त्वन्नेत्रत्रितयमिदमीशानदयिते
।
पुनः
स्रष्टुं
देवान्
द्रुहिणहरिरुद्रानुपरतान्
रजः
सत्त्वं
बिभ्रत्तम
इति
गुणानां
त्रयमिव
॥
53
॥
पवित्रीकर्तुं
नः
पशुपतिपराधीनहृदये
दयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः
।
नदः
शोणो
गंगा
तपनतनयेति
ध्रुवममुं
त्रयाणां
तीर्थानामुपनयसि
संभेदमनघम्
॥
54
॥
निमेषोन्मेषाभ्यां
प्रलयमुदयं
याति
जगती
तवेत्याहुः
संतो
धरणिधरराजन्यतनये
।
त्वदुन्मेषाज्जातं
जगदिदमशेषं
प्रलयतः
परित्रातुं
शंके
परिहृतनिमेषास्तव
दृशः
॥
55
॥
तवापर्णे
कर्णेजपनयनपैशुन्यचकिता
निलीयंते
तोये
नियतमनिमेषाः
शफरिकाः
।
इयं
च
श्रीर्बद्धच्छदपुटकवाटं
कुवलयम्
जहाति
प्रत्यूषे
निशि
च
विघटय्य
प्रविशति
॥
56
॥
दृशा
द्राघीयस्या
दरदलितनीलोत्पलरुचा
दवीयांसं
दीनं
स्नपय
कृपया
मामपि
शिवे
।
अनेनायं
धन्यो
भवति
न
च
ते
हानिरियता
वने
वा
हर्म्ये
वा
समकरनिपातो
हिमकरः
॥
57
॥
अरालं
ते
पालीयुगलमगराजन्यतनये
न
केषामाधत्ते
कुसुमशरकोदंडकुतुकम्
।
तिरश्चीनो
यत्र
श्रवणपथमुल्लंघ्य
विलस-
न्नपांगव्यासंगो
दिशति
शरसंधानधिषणाम्
॥
58
॥
स्फुरद्गंडाभोगप्रतिफलितताटंकयुगलं
चतुश्चक्रं
मन्ये
तव
मुखमिदं
मन्मथरथम्
।
यमारुह्य
द्रुह्यत्यवनिरथमर्केंदुचरणं
महावीरो
मारः
प्रमथपतये
सज्जितवते
॥
59
॥
सरस्वत्याः
सूक्तीरमृतलहरीकौशलहरीः
पिबंत्याः
शर्वाणि
श्रवणचुलुकाभ्यामविरलम्
।
चमत्कारश्लाघाचलितशिरसः
कुंडलगणो
झणत्कारैस्तारैः
प्रतिवचनमाचष्ट
इव
ते
॥
60
॥
असौ
नासावंशस्तुहिनगिरिवंशध्वजपटि
त्वदीयो
नेदीयः
फलतु
फलमस्माकमुचितम्
।
वहन्नंतर्मुक्ताः
शिशिरतरनिश्वासगलितं
समृद्ध्या
यत्तासां
बहिरपि
च
मुक्तामणिधरः
॥
61
॥
प्रकृत्या
रक्तायास्तव
सुदति
दंतच्छदरुचेः
प्रवक्ष्ये
सादृश्यं
जनयतु
फलं
विद्रुमलता
।
न
बिंबं
तद्बिंबप्रतिफलनरागादरुणितं
तुलामध्यारोढुं
कथमिव
विलज्जेत
कलया
॥
62
॥
स्मितज्योत्स्नाजालं
तव
वदनचंद्रस्य
पिबतां
चकोराणामासीदतिरसतया
चंचुजडिमा
।
अतस्ते
शीतांशोरमृतलहरीमम्लरुचयः
पिबंति
स्वच्छंदं
निशि
निशि
भृशं
कांजिकधिया
॥
63
॥
अविश्रांतं
पत्युर्गुणगणकथाम्रेडनजपा
जपापुष्पच्छाया
तव
जननि
जिह्वा
जयति
सा
।
यदग्रासीनायाः
स्फटिकदृषदच्छच्छविमयी
सरस्वत्या
मूर्तिः
परिणमति
माणिक्यवपुषा
॥
64
॥
रणे
जित्वा
दैत्यानपहृतशिरस्त्रैः
कवचिभिर्-
निवृत्तैश्चंडांशत्रिपुरहरनिर्माल्यविमुखैः
।
विशाखेंद्रोपेंद्रैः
शशिविशदकर्पूरशकला
विलीयंते
मातस्तव
वदनतांबूलकबलाः
॥
65
॥
विपंच्या
गायंती
विविधमपदानं
पशुपतेः
त्वयारब्धे
वक्तुं
चलितशिरसा
साधुवचने
।
तदीयैर्माधुर्यैरपलपिततंत्रीकलरवां
निजां
वीणां
वाणी
निचुलयति
चोलेन
निभृतम्
॥
66
॥
कराग्रेण
स्पृष्टं
तुहिनगिरिणा
वत्सलतया
गिरीशेनोदस्तं
मुहुरधरपानाकुलतया
।
करग्राह्यं
शंभोर्मुखमुकुरवृंतं
गिरिसुते
कथंकारं
ब्रूमस्तव
चिबुकमौपम्यरहितम्
॥
67
॥
भुजाश्लेषान्
नित्यं
पुरदमयितुः
कंटकवती
तव
ग्रीवा
धत्ते
मुखकमलनालश्रियमियम्
।
स्वतः
श्वेता
कालागुरुबहुलजंबालमलिना
मृणालीलालित्यं
वहति
यदधो
हारलतिका
॥
68
॥
गले
रेखास्तिस्रो
गतिगमकगीतैकनिपुणे
विवाहव्यानद्धप्रगुणगुणसंख्याप्रतिभुवः
।
विराजंते
नानाविधमधुररागाकरभुवां
त्रयाणां
ग्रामाणां
स्थितिनियमसीमान
इव
ते
॥
69
॥
मृणालीमृद्वीनां
तव
भुजलतानां
चतसृणां
चतुर्भिः
सौंदर्यं
सरसिजभवः
स्तौति
वदनैः
।
नखेभ्यः
संत्रस्यन्
प्रथममथनादंधकरिपो-
श्चतुर्णां
शीर्षाणां
सममभयहस्तार्पणधिया
॥
70
॥
नखानामुद्द्योतैर्नवनलिनरागं
विहसतां
कराणां
ते
कांतिं
कथय
कथयामः
कथमुमे
।
कयाचिद्वा
साम्यं
भजतु
कलया
हंत
कमलं
यदि
क्रीडल्लक्ष्मीचरणतललाक्षारसछणम्
॥
71
॥
समं
देवि
स्कंदद्विपवदनपीतं
स्तनयुगं
तवेदं
नः
खेदं
हरतु
सततं
प्रस्नुतमुखम्
।
यदालोक्याशंकाकुलितहृदयो
हासजनकः
स्वकुंभौ
हेरंबः
परिमृशति
हस्तेन
झडिति
॥
72
॥
अमू
ते
वक्षोजावमृतरसमाणिक्यकुतुपौ
न
संदेहस्पंदो
नगपतिपताके
मनसि
नः
।
पिबंतौ
तौ
यस्मादविदितवधूसंगरसिकौ
कुमारावद्यापि
द्विरदवदनक्रौंचदलनौ
॥
73
॥
वहत्यंब
स्तंबेरमदनुजकुंभप्रकृतिभिः
समारब्धां
मुक्तामणिभिरमलां
हारलतिकाम्
।
कुचाभोगो
बिंबाधररुचिभिरंतः
शबलितां
प्रतापव्यामिश्रां
पुरदमयितुः
कीर्तिमिव
ते
॥
74
॥
तव
स्तन्यं
मन्ये
धरणिधरकन्ये
हृदयतः
पयःपारावारः
परिवहति
सारस्वतमिव
।
दयावत्या
दत्तं
द्रविडशिशुरास्वाद्य
तव
यत्
कवीनां
प्रौढानामजनि
कमनीयः
कवयिता
॥
75
॥
हरक्रोधज्वालावलिभिरवलीढेन
वपुषा
गभीरे
ते
नाभीसरसि
कृतसंगो
मनसिजः
।
समुत्तस्थौ
तस्मादचलतनये
धूमलतिका
जनस्तां
जानीते
तव
जननि
रोमावलिरिति
॥
76
॥
यदेतत्
कालिंदीतनुतरतरंगाकृति
शिवे
कृशे
मध्ये
किंचिज्जननि
तव
यद्भाति
सुधियाम्
।
विमर्दादन्योऽन्यं
कुचकलशयोरंतरगतं
तनूभूतं
व्योम
प्रविशदिव
नाभिं
कुहरिणीम्
॥
77
॥
स्थिरो
गंगावर्तः
स्तनमुकुलरोमावलिलता-
कलावालं
कुंडं
कुसुमशरतेजोहुतभुजः
।
रतेर्लीलागारं
किमपि
तव
नाभिर्गिरिसुते
बिलद्वारं
सिद्धेर्गिरिशनयनानां
विजयते
॥
78
॥
निसर्गक्षीणस्य
स्तनतटभरेण
क्लमजुषो
नमन्मूर्तेर्नारीतिलक
शनकैस्त्रुट्यत
इव
।
चिरं
ते
मध्यस्य
त्रुटिततटिनीतीरतरुणा
समावस्थास्थेम्नो
भवतु
कुशलं
शैलतनये
॥
79
॥
कुचौ
सद्यःस्विद्यत्तटघटितकूर्पासभिदुरौ
कषंतौ
दोर्मूले
कनककलशाभौ
कलयता
।
तव
त्रातुं
भंगादलमिति
वलग्नं
तनुभुवा
त्रिधा
नद्धं
देवि
त्रिवलि
लवलीवल्लिभिरिव
॥
80
॥
गुरुत्वं
विस्तारं
क्षितिधरपतिः
पार्वति
निजा-
न्नितंबादाच्छिद्य
त्वयि
हरणरूपेण
निदधे
।
अतस्ते
विस्तीर्णो
गुरुरयमशेषां
वसुमतीं
नितंबप्राग्भारः
स्थगयति
लघुत्वं
नयति
च
॥
81
॥
करींद्राणां
शुंडान्
कनककदलीकांडपटली-
मुभाभ्यामूरुभ्यामुभयमपि
निर्जित्य
भवती
।
सुवृत्ताभ्यां
पत्युः
प्रणतिकठिनाभ्यां
गिरिसुते
विधिज्ञ्ये
जानुभ्यां
विबुधकरिकुंभद्वयमसि
॥
82
॥
पराजेतुं
रुद्रं
द्विगुणशरगर्भौ
गिरिसुते
निषंगौ
जंघे
ते
विषमविशिखो
बाढमकृत
।
यदग्रे
दृश्यंते
दशशरफलाः
पादयुगली-
नखाग्रच्छद्मानः
सुरमकुटशाणैकनिशिताः
॥
83
॥
श्रुतीनां
मूर्धानो
दधति
तव
यौ
शेखरतया
ममाप्येतौ
मातः
शिरसि
दयया
धेहि
चरणौ
।
ययोः
पाद्यं
पाथः
पशुपतिजटाजूटतटिनी
ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः
॥
84
॥
नमोवाकं
ब्रूमो
नयनरमणीयाय
पदयो-
स्तवास्मै
द्वंद्वाय
स्फुटरुचिरसालक्तकवते
।
असूयत्यत्यंतं
यदभिहननाय
स्पृहयते
पशूनामीशानः
प्रमदवनकंकेलितरवे
॥
85
॥
मृषा
कृत्वा
गोत्रस्खलनमथ
वैलक्ष्यनमितं
ललाटे
भर्तारं
चरणकमले
ताडयति
ते
।
चिरादंतःशल्यं
दहनकृतमुन्मूलितवता
तुलाकोटिक्वाणैः
किलिकिलितमीशानरिपुणा
॥
86
॥
हिमानीहंतव्यं
हिमगिरिनिवासैकचतुरौ
निशायां
निद्राणं
निशि
चरमभागे
च
विशदौ
।
वरं
लक्ष्मीपात्रं
श्रियमतिसृजंतौ
समयिनां
सरोजं
त्वत्पादौ
जननि
जयतश्चित्रमिह
किम्
॥
87
॥
पदं
ते
कीर्तीनां
प्रपदमपदं
देवि
विपदां
कथं
नीतं
सद्भिः
कठिनकमठीकर्परतुलाम्
।
कथं
वा
बाहुभ्यामुपयमनकाले
पुरभिदा
यदादाय
न्यस्तं
दृषदि
दयमानेन
मनसा
॥
88
॥
नखैर्नाकस्त्रीणां
करकमलसंकोचशशिभि-
स्तरूणां
दिव्यानां
हसत
इव
ते
चंडि
चरणौ
।
फलानि
स्वःस्थेभ्यः
किसलयकराग्रेण
ददतां
दरिद्रेभ्यो
भद्रां
श्रियमनिशमह्नाय
ददतौ
॥
89
॥
ददाने
दीनेभ्यः
श्रियमनिशमाशानुसदृशी-
ममंदं
सौंदर्यप्रकरमकरंदं
विकिरति
।
तवास्मिन्
मंदारस्तबकसुभगे
यातु
चरणे
निमज्जन्मज्जीवः
करणचरणः
षट्चरणताम्
॥
90
॥
पदन्यासक्रीडापरिचयमिवारब्धुमनसः
स्खलंतस्ते
खेलं
भवनकलहंसा
न
जहति
।
अतस्तेषां
शिक्षां
सुभगमणिमंजीररणित-
च्छलादाचक्षाणं
चरणकमलं
चारुचरिते
॥
91
॥
गतास्ते
मंचत्वं
द्रुहिणहरिरुद्रेश्वरभृतः
शिवः
स्वच्छच्छायाघटितकपटप्रच्छदपटः
।
त्वदीयानां
भासां
प्रतिफलनरागारुणतया
शरीरी
शऋंगारो
रस
इव
दृशां
दोग्धि
कुतुकम्
॥
92
॥
अराला
केशेषु
प्रकृतिसरला
मंदहसिते
शिरीषाभा
चित्ते
दृषदुपलशोभा
कुचतटे
।
भृशं
तन्वी
मध्ये
पृथुरुरसिजारोहविषये
जगत्त्रातुं
शंभोर्जयति
करुणा
काचिदरुणा
॥
93
॥
कलंकः
कस्तूरी
रजनिकरबिंबं
जलमयं
कलाभिः
कर्पूरैर्मरकतकरंडं
निबिडितम्
।
अतस्त्वद्भोगेन
प्रतिदिनमिदं
रिक्तकुहरं
विधिर्भूयो
भूयो
निबिडयति
नूनं
तव
कृते
॥
94
॥
पुरारातेरंतःपुरमसि
ततस्त्वच्चरणयोः
सपर्यामर्यादा
तरलकरणानामसुलभा
।
तथा
ह्येते
नीताः
शतमखमुखाः
सिद्धिमतुलां
तव
द्वारोपांतस्थितिभिरणिमाद्याभिरमराः
॥
95
॥
कलत्रं
वैधात्रं
कतिकति
भजंते
न
कवयः
श्रियो
देव्याः
को
वा
न
भवति
पतिः
कैरपि
धनैः
।
महादेवं
हित्वा
तव
सति
सतीनामचरमे
कुचाभ्यामासंगः
कुरवकतरोरप्यसुलभः
॥
96
॥
गिरामाहुर्देवीं
द्रुहिणगृहिणीमागमविदो
हरेः
पत्नीं
पद्मां
हरसहचरीमद्रितनयाम्
।
तुरीया
कापि
त्वं
दुरधिगमनिःसीममहिमा
महामाया
विश्वं
भ्रमयसि
परब्रह्ममहिषि
॥
97
॥
कदा
काले
मातः
कथय
कलितालक्तकरसं
पिबेयं
विद्यार्थी
तव
चरणनिर्णेजनजलम्
।
प्रकृत्या
मूकानामपि
च
कविताकारणतया
कदा
धत्ते
वाणीमुखकमलतांबूलरसताम्
॥
98
॥
सरस्वत्या
लक्ष्म्या
विधिहरिसपत्नो
विहरते
रतेः
पातिव्रत्यं
शिथिलयति
रम्येण
वपुषा
।
चिरं
जीवन्नेव
क्षपितपशुपाशव्यतिकरः
परानंदाभिख्यं
रसयति
रसं
त्वद्भजनवान्
॥
99
॥
प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः
सुधासूतेश्चंद्रोपलजललवैरर्घ्यरचना
।
स्वकीयैरंभोभिः
सलिलनिधिसौहित्यकरणं
त्वदीयाभिर्वाग्भिस्तव
जननि
वाचां
स्तुतिरियम्
॥
100
॥
सौंदर्यलहरि
मुख्यस्तोत्रं
संवार्तदायकम्
।
भगवद्पाद
सन्क्लुप्तं
पठेन्
मुक्तौ
भवेन्नरः
॥ ॥
इति
श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविंदभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः
कृतौ
सौंदर्यलहरी
संपूर्णा
॥ ॥
ओं
तत्सत्
॥
(अनुबंधः)
समानीतः
पद्भ्यां
मणिमुकुरतामंबरमणि-
र्भयादास्यादंतःस्तिमितकिरणश्रेणिमसृणः
।
(पाठभेदः
-
भयादास्य
स्निग्धस्त्मित,
भयादास्यस्यांतःस्त्मित)
दधाति
त्वद्वक्त्रंप्रतिफलनमश्रांतविकचं
निरातंकं
चंद्रान्निजहृदयपंकेरुहमिव
॥
101
॥
समुद्भूतस्थूलस्तनभरमुरश्चारु
हसितं
कटाक्षे
कंदर्पः
कतिचन
कदंबद्युति
वपुः
।
हरस्य
त्वद्भ्रांतिं
मनसि
जनयंति
स्म
विमलाः
पाठभेदः
-
जनयामास
मदनो,
जनयंतः
समतुलां,
जनयंता
सुवदने
भवत्या
ये
भक्ताः
परिणतिरमीषामियमुमे
॥
102
॥
निधे
नित्यस्मेरे
निरवधिगुणे
नीतिनिपुणे
निराघातज्ञाने
नियमपरचित्तैकनिलये
।
नियत्या
निर्मुक्ते
निखिलनिगमांतस्तुतिपदे
निरातंके
नित्ये
निगमय
ममापि
स्तुतिमिमाम्
॥
103
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits