हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
तोटकाष्टकम्
विदिताखिल
शास्त्र
सुधा
जलधे
महितोपनिषत्-कथितार्थ
निधे
।
हृदये
कलये
विमलं
चरणं
भव
शङ्कर
देशिक
मे
शरणम्
॥
1
॥
करुणा
वरुणालय
पालय
मां
भवसागर
दुःख
विदून
हृदम्
।
रचयाखिल
दर्शन
तत्त्वविदं
भव
शङ्कर
देशिक
मे
शरणम्
॥
2
॥
भवता
जनता
सुहिता
भविता
निजबोध
विचारण
चारुमते
।
कलयेश्वर
जीव
विवेक
विदं
भव
शङ्कर
देशिक
मे
शरणम्
॥
3
॥
भव
ऎव
भवानिति
मॆ
नितरां
समजायत
चेतसि
कौतुकिता
।
मम
वारय
मोह
महाजलधिं
भव
शङ्कर
देशिक
मे
शरणम्
॥
4
॥
सुकृतेऽधिकृते
बहुधा
भवतो
भविता
समदर्शन
लालसता
।
अति
दीनमिमं
परिपालय
मां
भव
शङ्कर
देशिक
मे
शरणम्
॥
5
॥
जगतीमवितुं
कलिताकृतयो
विचरन्ति
महामाह
सच्छलतः
।
अहिमांशुरिवात्र
विभासि
गुरो
भव
शङ्कर
देशिक
मे
शरणम्
॥
6
॥
गुरुपुङ्गव
पुङ्गवकेतन
ते
समतामयतां
न
हि
कोऽपि
सुधीः
।
शरणागत
वत्सल
तत्त्वनिधे
भव
शङ्कर
देशिक
मे
शरणम्
॥
7
॥
विदिता
न
मया
विशदैक
कला
न
च
किञ्चन
काञ्चनमस्ति
गुरो
।
दृतमेव
विधेहि
कृपां
सहजां
भव
शङ्कर
देशिक
मे
शरणम्
॥
8
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits