हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
श्री वैद्यनाथाष्टकम्
श्रीरामसौमित्रिजटायुवेद
षडाननादित्य
कुजार्चिताय
।
श्रीनीलकण्ठाय
दयामयाय
श्रीवैद्यनाथाय
नमः
शिवाय
॥
1
॥
गङ्गाप्रवाहेन्दु
जटाधराय
त्रिलोचनाय
स्मर
कालहन्त्रे
।
समस्त
देवैरभिपूजिताय
श्रीवैद्यनाथाय
नमः
शिवाय
॥
2
॥
भक्तप्रियाय
त्रिपुरान्तकाय
पिनाकिने
दुष्टहराय
नित्यम्
।
प्रत्यक्षलीलाय
मनुष्यलोके
श्रीवैद्यनाथाय
नमः
शिवाय
॥
3
॥
प्रभूतवातादि
समस्तरोग-
-प्रणाशकर्त्रे
मुनिवन्दिताय
।
प्रभाकरेन्द्वग्निविलोचनाय
श्रीवैद्यनाथाय
नमः
शिवाय
॥
4
॥
वाक्ष्रोत्रनेत्राङ्घ्रि
विहीनजन्तोः
वाक्ष्रोत्रनेत्राङ्घ्रि
सुखप्रदाय
।
कुष्ठादिसर्वोन्नतरोगहन्त्रे
श्रीवैद्यनाथाय
नमः
शिवाय
॥
5
॥
वेदान्तवेद्याय
जगन्मयाय
योगीश्वरध्येयपदाम्बुजाय
।
त्रिमूर्तिरूपाय
सहस्रनाम्ने
श्रीवैद्यनाथाय
नमः
शिवाय
॥
6
॥
स्वतीर्थमृद्भस्मभृताङ्गभाजां
पिशाचदुःखार्तिभयापहाय
।
आत्मस्वरूपाय
शरीरभाजां
श्रीवैद्यनाथाय
नमः
शिवाय
॥
7
॥
श्रीनीलकण्ठाय
वृषध्वजाय
स्रक्गन्धभस्माद्यभिशोभिताय
।
सुपुत्रदारादि
सुभाग्यदाय
श्रीवैद्यनाथाय
नमः
शिवाय
॥
8
॥
बालाम्बिकेश
वैद्येश
भवरोगहरेति
च
।
जपेन्नामत्रयं
नित्यं
महारोगनिवारणम्
॥
9
॥
इति
श्री
वैद्यनाथाष्टकम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits