हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
शिवाष्टकम्
प्रभुं
प्राणनाथं
विभुं
विश्वनाथं
जगन्नाथ
नाथं
सदानंद
भाजाम्
।
भवद्भव्य
भूतेश्वरं
भूतनाथं,
शिवं
शंकरं
शंभु
मीशानमीडे
॥
1
॥
गले
रुंडमालं
तनौ
सर्पजालं
महाकाल
कालं
गणेशादि
पालम्
।
जटाजूट
गंगोत्तरंगैर्विशालं,
शिवं
शंकरं
शंभु
मीशानमीडे
॥
2
॥
मुदामाकरं
मंडनं
मंडयंतं
महा
मंडलं
भस्म
भूषाधरं
तम्
।
अनादिं
ह्यपारं
महा
मोहमारं,
शिवं
शंकरं
शंभु
मीशानमीडे
॥
3
॥
वटाधो
निवासं
महाट्टाट्टहासं
महापाप
नाशं
सदा
सुप्रकाशम्
।
गिरीशं
गणेशं
सुरेशं
महेशं,
शिवं
शंकरं
शंभु
मीशानमीडे
॥
4
॥
गिरींद्रात्मजा
संगृहीतार्धदेहं
गिरौ
संस्थितं
सर्वदापन्न
गेहम्
।
परब्रह्म
ब्रह्मादिभिर्-वंद्यमानं,
शिवं
शंकरं
शंभु
मीशानमीडे
॥
5
॥
कपालं
त्रिशूलं
कराभ्यां
दधानं
पदांभोज
नम्राय
कामं
ददानम्
।
बलीवर्धमानं
सुराणां
प्रधानं,
शिवं
शंकरं
शंभु
मीशानमीडे
॥
6
॥
शरच्चंद्र
गात्रं
गणानंदपात्रं
त्रिनेत्रं
पवित्रं
धनेशस्य
मित्रम्
।
अपर्णा
कलत्रं
सदा
सच्चरित्रं,
शिवं
शंकरं
शंभु
मीशानमीडे
॥
7
॥
हरं
सर्पहारं
चिता
भूविहारं
भवं
वेदसारं
सदा
निर्विकारं
।
श्मशाने
वसंतं
मनोजं
दहंतं,
शिवं
शंकरं
शंभु
मीशानमीडे
॥
8
॥
स्वयं
यः
प्रभाते
नरश्शूल
पाणे
पठेत्
स्तोत्ररत्नं
त्विहप्राप्यरत्नम्
।
सुपुत्रं
सुधान्यं
सुमित्रं
कलत्रं
विचित्रैस्समाराध्य
मोक्षं
प्रयाति
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits