हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
शिव सहस्रनाम स्तोत्रम्
पूर्वपीठिका
।
वासुदेव
उवाच
–
ततः
स
प्रयतो
भूत्वा
मम
तात
युधिष्ठिर
।
प्रांजलिः
प्राह
विप्रर्षिर्नामसंग्रहमादितः
॥
1
॥
उपमन्युरुवाच
–
ब्रह्मप्रोक्तैरृषिप्रोक्तैर्वेदवेदांगसंभवैः
।
सर्वलोकेषु
विख्यातं
स्तुत्यं
स्तोष्यामि
नामभिः
॥
2
॥
महद्भिर्विहितैः
सत्यैः
सिद्धैः
सर्वार्थसाधकैः
।
ऋषिणा
तंडिना
भक्त्या
कृतैर्वेदकृतात्मना
॥
3
॥
यथोक्तैः
साधुभिः
ख्यातैर्मुनिभिस्तत्त्वदर्शिभिः
।
प्रवरं
प्रथमं
स्वर्ग्यं
सर्वभूतहितं
शुभम्
॥
4
॥
श्रुतैः
सर्वत्र
जगति
ब्रह्मलोकावतारितैः
।
सत्यैस्तत्परमं
ब्रह्म
ब्रह्मप्रोक्तं
सनातनम्
॥
5
॥
वक्ष्ये
यदुकुलश्रेष्ठ
शृणुष्वावहितो
मम
।
वरयैनं
भवं
देवं
भक्तस्त्वं
परमेश्वरम्
॥
6
॥
तेन
ते
श्रावयिष्यामि
यत्तद्ब्रह्म
सनातनम्
।
न
शक्यं
विस्तरात्कृत्स्नं
वक्तुं
सर्वस्य
केनचित्
॥
7
॥
युक्तेनापि
विभूतीनामपि
वर्षशतैरपि
।
यस्यादिर्मध्यमंतं
च
सुरैरपि
न
गम्यते
॥
8
॥
कस्तस्य
शक्नुयाद्वक्तुं
गुणान्
कार्त्स्न्येन
माधव
।
किं
तु
देवस्य
महतः
संक्षिप्तार्थपदाक्षरम्
॥
9
॥
शक्तितश्चरितं
वक्ष्ये
प्रसादात्तस्य
धीमतः
।
अप्राप्य
तु
ततोऽनुज्ञां
न
शक्यः
स्तोतुमीश्वरः
॥
10
॥
यदा
तेनाभ्यनुज्ञातः
स्तुतो
वै
स
तदा
मया
।
अनादिनिधनस्याहं
जगद्योनेर्महात्मनः
॥
11
॥
नाम्नां
किंचित्समुद्देशं
वक्ष्याम्यव्यक्तयोनिनः
।
वरदस्य
वरेण्यस्य
विश्वरूपस्य
धीमतः
॥
12
॥
शृणु
नाम्नां
च
यं
कृष्ण
यदुक्तं
पद्मयोनिना
।
दशनामसहस्राणि
यान्याह
प्रपितामहः
॥
13
॥
तानि
निर्मथ्य
मनसा
दध्नो
घृतमिवोद्धृतम्
।
गिरेः
सारं
यथा
हेम
पुष्पसारं
यथा
मधु
॥
14
॥
घृतात्सारं
यथा
मंडस्तथैतत्सारमुद्धृतम्
।
सर्वपापापहमिदं
चतुर्वेदसमन्वितम्
॥
15
॥
प्रयत्नेनाधिगंतव्यं
धार्यं
च
प्रयतात्मना
।
मांगल्यं
पौष्टिकं
चैव
रक्षोघ्नं
पावनं
महत्
॥
16
॥
इदं
भक्ताय
दातव्यं
श्रद्दधानास्तिकाय
च
।
नाश्रद्दधानरूपाय
नास्तिकायाजितात्मने
॥
17
॥
यश्चाभ्यसूयते
देवं
कारणात्मानमीश्वरम्
।
स
कृष्ण
नरकं
याति
सह
पूर्वैः
सहात्मजैः
॥
18
॥
इदं
ध्यानमिदं
योगमिदं
ध्येयमनुत्तमम्
।
इदं
जप्यमिदं
ज्ञानं
रहस्यमिदमुत्तमम्
॥
19
॥
यं
ज्ञात्वा
अंतकालेपि
गच्छेत
परमां
गतिम्
।
पवित्रं
मंगलं
मेध्यं
कल्याणमिदमुत्तमम्
॥
20
॥
इदं
ब्रह्मा
पुरा
कृत्वा
सर्वलोकपितामहः
।
सर्व
स्तवानां
राजत्वे
दिव्यानां
समकल्पयत्
॥
21
॥
तदा
प्रभृति
चैवायमीश्वरस्य
महात्मनः
।
स्तवराज
इति
ख्यातो
जगत्यमरपूजितः
॥
22
॥
ब्रह्मलोकादयं
स्वर्गे
स्तवराजोऽवतारितः
।
यतस्तंडिः
पुरा
प्राप
तेन
तंडिकृतोऽभवत्
॥
23
॥
स्वर्गाच्चैवात्र
भूर्लोकं
तंडिना
ह्यवतारितः
।
सर्वमंगलमांगल्यं
सर्वपापप्रणाशनम्
॥
24
॥
निगदिष्ये
महाबाहो
स्तवानामुत्तमं
स्तवम्
।
ब्रह्मणामपि
यद्ब्रह्म
पराणामपि
यत्परम्
॥
25
॥
तेजसामपि
यत्तेजस्तपसामपि
यत्तपः
।
शांतानामपि
यः
शांतो
द्युतीनामपि
या
द्युतिः
॥
26
॥
दांतानामपि
यो
दांतो
धीमतामपि
या
च
धीः
।
देवानामपि
यो
देव
ऋषीणामपि
यस्त्वृषिः
॥
27
॥
यज्ञानामपि
यो
यज्ञः
शिवानामपि
यः
शिवः
।
रुद्राणामपि
यो
रुद्रः
प्रभा
प्रभवतामपि
॥
28
॥
योगिनामपि
यो
योगी
कारणानां
च
कारणम्
।
यतो
लोकाः
संभवंति
न
भवंति
यतः
पुनः
॥
29
॥
सर्वभूतात्मभूतस्य
हरस्यामिततेजसः
।
अष्टोत्तरसहस्रं
तु
नाम्नां
शर्वस्य
मे
शृणु
।
यच्छ्रुत्वा
मनुजव्याघ्र
सर्वान्कामानवाप्स्यसि
॥
30
॥
ध्यानम्
–
शांतं
पद्मासनस्थं
शशिधरमुकुटं
पंचवक्त्रं
त्रिनेत्रं
शूलं
वज्रं
च
खड्गं
परशुमभयदं
दक्षभागे
वहंतम्
।
नागं
पाशं
च
घंटां
प्रलयहुतवहं
सांकुशं
वामभागे
नानालंकारयुक्तं
स्फटिकमणिनिभं
पार्वतीशं
नमामि
॥
स्तोत्रम्
–
ओं
स्थिरः
स्थाणुः
प्रभुर्भीमः
प्रवरो
वरदो
वरः
।
सर्वात्मा
सर्वविख्यातः
सर्वः
सर्वकरो
भवः
॥
1
॥
जटी
चर्मी
शिखंडी
च
सर्वांगः
सर्वभावनः
।
हरश्च
हरिणाक्षश्च
सर्वभूतहरः
प्रभुः
॥
2
॥
प्रवृत्तिश्च
निवृत्तिश्च
नियतः
शाश्वतो
ध्रुवः
।
श्मशानवासी
भगवान्
खचरो
गोचरोऽर्दनः
॥
3
॥
अभिवाद्यो
महाकर्मा
तपस्वी
भूतभावनः
।
उन्मत्तवेषप्रच्छन्नः
सर्वलोकप्रजापतिः
॥
4
॥
महारूपो
महाकायो
वृषरूपो
महायशाः
।
महात्मा
सर्वभूतात्मा
विश्वरूपो
महाहनुः
॥
5
॥
लोकपालोऽंतर्हितात्मा
प्रसादो
हयगर्दभिः
।
पवित्रं
च
महांश्चैव
नियमो
नियमाश्रितः
॥
6
॥
सर्वकर्मा
स्वयंभूत
आदिरादिकरो
निधिः
।
सहस्राक्षो
विशालाक्षः
सोमो
नक्षत्रसाधकः
॥
7
॥
चंद्रः
सूर्यः
शनिः
केतुर्ग्रहो
ग्रहपतिर्वरः
।
अत्रिरत्र्या
नमस्कर्ता
मृगबाणार्पणोऽनघः
॥
8
॥
महातपा
घोरतपा
अदीनो
दीनसाधकः
।
संवत्सरकरो
मंत्रः
प्रमाणं
परमं
तपः
॥
9
॥
योगी
योज्यो
महाबीजो
महारेता
महाबलः
।
सुवर्णरेताः
सर्वज्ञः
सुबीजो
बीजवाहनः
॥
10
॥
दशबाहुस्त्वनिमिषो
नीलकंठ
उमापतिः
।
विश्वरूपः
स्वयं
श्रेष्ठो
बलवीरो
बलो
गणः
॥
11
॥
गणकर्ता
गणपतिर्दिग्वासाः
काम
एव
च
।
मंत्रवित्परमो
मंत्रः
सर्वभावकरो
हरः
॥
12
॥
कमंडलुधरो
धन्वी
बाणहस्तः
कपालवान्
।
अशनी
शतघ्नी
खड्गी
पट्टिशी
चायुधी
महान्
॥
13
॥
स्रुवहस्तः
सुरूपश्च
तेजस्तेजस्करो
निधिः
।
उष्णीषी
च
सुवक्त्रश्च
उदग्रो
विनतस्तथा
॥
14
॥
दीर्घश्च
हरिकेशश्च
सुतीर्थः
कृष्ण
एव
च
।
सृगालरूपः
सिद्धार्थो
मुंडः
सर्वशुभंकरः
॥
15
॥
अजश्च
बहुरूपश्च
गंधधारी
कपर्द्यपि
।
ऊर्ध्वरेता
ऊर्ध्वलिंग
ऊर्ध्वशायी
नभःस्थलः
॥
16
॥
त्रिजटी
चीरवासाश्च
रुद्रः
सेनापतिर्विभुः
।
अहश्चरो
नक्तंचरस्तिग्ममन्युः
सुवर्चसः
॥
17
॥
गजहा
दैत्यहा
कालो
लोकधाता
गुणाकरः
।
सिंहशार्दूलरूपश्च
आर्द्रचर्मांबरावृतः
॥
18
॥
कालयोगी
महानादः
सर्वकामश्चतुष्पथः
।
निशाचरः
प्रेतचारी
भूतचारी
महेश्वरः
॥
19
॥
बहुभूतो
बहुधरः
स्वर्भानुरमितो
गतिः
।
नृत्यप्रियो
नित्यनर्तो
नर्तकः
सर्वलालसः
॥
20
॥
घोरो
महातपाः
पाशो
नित्यो
गिरिरुहो
नभः
।
सहस्रहस्तो
विजयो
व्यवसायो
ह्यतंद्रितः
॥
21
॥
अधर्षणो
धर्षणात्मा
यज्ञहा
कामनाशकः
।
दक्षयागापहारी
च
सुसहो
मध्यमस्तथा
॥
22
॥
तेजोपहारी
बलहा
मुदितोऽर्थोऽजितोऽवरः
।
गंभीरघोषो
गंभीरो
गंभीरबलवाहनः
॥
23
॥
न्यग्रोधरूपो
न्यग्रोधो
वृक्षकर्णस्थितिर्विभुः
।
सुतीक्ष्णदशनश्चैव
महाकायो
महाननः
॥
24
॥
विष्वक्सेनो
हरिर्यज्ञः
संयुगापीडवाहनः
।
तीक्ष्णतापश्च
हर्यश्वः
सहायः
कर्मकालवित्
॥
25
॥
विष्णुप्रसादितो
यज्ञः
समुद्रो
बडबामुखः
।
हुताशनसहायश्च
प्रशांतात्मा
हुताशनः
॥
26
॥
उग्रतेजा
महातेजा
जन्यो
विजयकालवित्
।
ज्योतिषामयनं
सिद्धिः
सर्वविग्रह
एव
च
॥
27
॥
शिखी
मुंडी
जटी
ज्वाली
मूर्तिजो
मूर्धगो
बली
।
वेणवी
पणवी
ताली
खली
कालकटंकटः
॥
28
॥
नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोऽगमः
।
प्रजापतिर्विश्वबाहुर्विभागः
सर्वगोऽमुखः
॥
29
॥
विमोचनः
सुसरणो
हिरण्यकवचोद्भवः
।
मेढ्रजो
बलचारी
च
महीचारी
स्रुतस्तथा
॥
30
॥
सर्वतूर्यनिनादी
च
सर्वातोद्यपरिग्रहः
।
व्यालरूपो
गुहावासी
गुहो
माली
तरंगवित्
॥
31
॥
त्रिदशस्त्रिकालधृक्कर्मसर्वबंधविमोचनः
।
बंधनस्त्वसुरेंद्राणां
युधिशत्रुविनाशनः
॥
32
॥
सांख्यप्रसादो
दुर्वासाः
सर्वसाधुनिषेवितः
।
प्रस्कंदनो
विभागज्ञो
अतुल्यो
यज्ञभागवित्
॥
33
॥
सर्ववासः
सर्वचारी
दुर्वासा
वासवोऽमरः
।
हैमो
हेमकरोऽयज्ञः
सर्वधारी
धरोत्तमः
॥
34
॥
लोहिताक्षो
महाक्षश्च
विजयाक्षो
विशारदः
।
संग्रहो
निग्रहः
कर्ता
सर्पचीरनिवासनः
॥
35
॥
मुख्योऽमुख्यश्च
देहश्च
काहलिः
सर्वकामदः
।
सर्वकालप्रसादश्च
सुबलो
बलरूपधृत्
॥
36
॥
सर्वकामवरश्चैव
सर्वदः
सर्वतोमुखः
।
आकाशनिर्विरूपश्च
निपाती
ह्यवशः
खगः
॥
37
॥
रौद्ररूपोऽंशुरादित्यो
बहुरश्मिः
सुवर्चसी
।
वसुवेगो
महावेगो
मनोवेगो
निशाचरः
॥
38
॥
सर्ववासी
श्रियावासी
उपदेशकरोऽकरः
।
मुनिरात्मनिरालोकः
संभग्नश्च
सहस्रदः
॥
39
॥
पक्षी
च
पक्षरूपश्च
अतिदीप्तो
विशां
पतिः
।
उन्मादो
मदनः
कामो
ह्यश्वत्थोऽर्थकरो
यशः
॥
40
॥
वामदेवश्च
वामश्च
प्राग्दक्षिणश्च
वामनः
।
सिद्धयोगी
महर्षिश्च
सिद्धार्थः
सिद्धसाधकः
॥
41
॥
भिक्षुश्च
भिक्षुरूपश्च
विपणो
मृदुरव्ययः
।
महासेनो
विशाखश्च
षष्टिभागो
गवां
पतिः
॥
42
॥
वज्रहस्तश्च
विष्कंभी
चमूस्तंभन
एव
च
।
वृत्तावृत्तकरस्तालो
मधुर्मधुकलोचनः
॥
43
॥
वाचस्पत्यो
वाजसनो
नित्यमाश्रमपूजितः
।
ब्रह्मचारी
लोकचारी
सर्वचारी
विचारवित्
॥
44
॥
ईशान
ईश्वरः
कालो
निशाचारी
पिनाकभृत्
।
निमित्तस्थो
निमित्तं
च
नंदिर्नंदिकरो
हरिः
॥
45
॥
नंदीश्वरश्च
नंदी
च
नंदनो
नंदिवर्धनः
।
भगहारी
निहंता
च
कालो
ब्रह्मा
पितामहः
॥
46
॥
चतुर्मुखो
महालिंगश्चारुलिंगस्तथैव
च
।
लिंगाध्यक्षः
सुराध्यक्षो
योगाध्यक्षो
युगावहः
॥
47
॥
बीजाध्यक्षो
बीजकर्ता
अध्यात्मानुगतो
बलः
।
इतिहासः
सकल्पश्च
गौतमोऽथ
निशाकरः
॥
48
॥
दंभो
ह्यदंभो
वैदंभो
वश्यो
वशकरः
कलिः
।
लोककर्ता
पशुपतिर्महाकर्ता
ह्यनौषधः
॥
49
॥
अक्षरं
परमं
ब्रह्म
बलवच्छक्र
एव
च
।
नीतिर्ह्यनीतिः
शुद्धात्मा
शुद्धो
मान्यो
गतागतः
॥
50
॥
बहुप्रसादः
सुस्वप्नो
दर्पणोऽथ
त्वमित्रजित्
।
वेदकारो
मंत्रकारो
विद्वान्
समरमर्दनः
॥
51
॥
महामेघनिवासी
च
महाघोरो
वशीकरः
।
अग्निज्वालो
महाज्वालो
अतिधूम्रो
हुतो
हविः
॥
52
॥
वृषणः
शंकरो
नित्यवर्चस्वी
धूमकेतनः
।
नीलस्तथांगलुब्धश्च
शोभनो
निरवग्रहः
॥
53
॥
स्वस्तिदः
स्वस्तिभावश्च
भागी
भागकरो
लघुः
।
उत्संगश्च
महांगश्च
महागर्भपरायणः
॥
54
॥
कृष्णवर्णः
सुवर्णश्च
इंद्रियं
सर्वदेहिनाम्
।
महापादो
महाहस्तो
महाकायो
महायशाः
॥
55
॥
महामूर्धा
महामात्रो
महानेत्रो
निशालयः
।
महांतको
महाकर्णो
महोष्ठश्च
महाहनुः
॥
56
॥
महानासो
महाकंबुर्महाग्रीवः
श्मशानभाक्
।
महावक्षा
महोरस्को
ह्यंतरात्मा
मृगालयः
॥
57
॥
लंबनो
लंबितोष्ठश्च
महामायः
पयोनिधिः
।
महादंतो
महादंष्ट्रो
महाजिह्वो
महामुखः
॥
58
॥
महानखो
महारोमा
महाकेशो
महाजटः
।
प्रसन्नश्च
प्रसादश्च
प्रत्ययो
गिरिसाधनः
॥
59
॥
स्नेहनोऽस्नेहनश्चैव
अजितश्च
महामुनिः
।
वृक्षाकारो
वृक्षकेतुरनलो
वायुवाहनः
॥
60
॥
गंडली
मेरुधामा
च
देवाधिपतिरेव
च
।
अथर्वशीर्षः
सामास्य
ऋक्सहस्रामितेक्षणः
॥
61
॥
यजुः
पादभुजो
गुह्यः
प्रकाशो
जंगमस्तथा
।
अमोघार्थः
प्रसादश्च
अभिगम्यः
सुदर्शनः
॥
62
॥
उपकारः
प्रियः
सर्वः
कनकः
कांचनच्छविः
।
नाभिर्नंदिकरो
भावः
पुष्करस्थपतिः
स्थिरः
॥
63
॥
द्वादशस्त्रासनश्चाद्यो
यज्ञो
यज्ञसमाहितः
।
नक्तं
कलिश्च
कालश्च
मकरः
कालपूजितः
॥
64
॥
सगणो
गणकारश्च
भूतवाहनसारथिः
।
भस्मशयो
भस्मगोप्ता
भस्मभूतस्तरुर्गणः
॥
65
॥
लोकपालस्तथाऽलोको
महात्मा
सर्वपूजितः
।
शुक्लस्त्रिशुक्लः
संपन्नः
शुचिर्भूतनिषेवितः
॥
66
॥
आश्रमस्थः
क्रियावस्थो
विश्वकर्ममतिर्वरः
।
विशालशाखस्ताम्रोष्ठो
ह्यंबुजालः
सुनिश्चलः
॥
67
॥
कपिलः
कपिशः
शुक्ल
आयुश्चैव
परोऽपरः
।
गंधर्वो
ह्यदितिस्तार्क्ष्यः
सुविज्ञेयः
सुशारदः
॥
68
॥
परश्वधायुधो
देवो
ह्यनुकारी
सुबांधवः
।
तुंबवीणो
महाक्रोध
ऊर्ध्वरेता
जलेशयः
॥
69
॥
उग्रो
वंशकरो
वंशो
वंशनादो
ह्यनिंदितः
।
सर्वांगरूपो
मायावी
सुहृदो
ह्यनिलोऽनलः
॥
70
॥
बंधनो
बंधकर्ता
च
सुबंधनविमोचनः
।
स
यज्ञारिः
स
कामारिर्महादंष्ट्रो
महायुधः
॥
71
॥
बहुधा
निंदितः
शर्वः
शंकरः
शंकरोऽधनः
।
अमरेशो
महादेवो
विश्वदेवः
सुरारिहा
॥
72
॥
अहिर्बुध्न्योऽनिलाभश्च
चेकितानो
हविस्तथा
।
अजैकपाच्च
कापाली
त्रिशंकुरजितः
शिवः
॥
73
॥
धन्वंतरिर्धूमकेतुः
स्कंदो
वैश्रवणस्तथा
।
धाता
शक्रश्च
विष्णुश्च
मित्रस्त्वष्टा
ध्रुवो
धरः
॥
74
॥
प्रभावः
सर्वगो
वायुरर्यमा
सविता
रविः
।
उषंगुश्च
विधाता
च
मांधाता
भूतभावनः
॥
75
॥
विभुर्वर्णविभावी
च
सर्वकामगुणावहः
।
पद्मनाभो
महागर्भश्चंद्रवक्त्रोऽनिलोऽनलः
॥
76
॥
बलवांश्चोपशांतश्च
पुराणः
पुण्यचंचुरी
।
कुरुकर्ता
कुरुवासी
कुरुभूतो
गुणौषधः
॥
77
॥
सर्वाशयो
दर्भचारी
सर्वेषां
प्राणिनां
पतिः
।
देवदेवः
सुखासक्तः
सदसत्सर्वरत्नवित्
॥
78
॥
कैलासगिरिवासी
च
हिमवद्गिरिसंश्रयः
।
कूलहारी
कूलकर्ता
बहुविद्यो
बहुप्रदः
॥
79
॥
वणिजो
वर्धकी
वृक्षो
वकुलश्चंदनश्छदः
।
सारग्रीवो
महाजत्रुरलोलश्च
महौषधः
॥
80
॥
सिद्धार्थकारी
सिद्धार्थश्छंदोव्याकरणोत्तरः
।
सिंहनादः
सिंहदंष्ट्रः
सिंहगः
सिंहवाहनः
॥
81
॥
प्रभावात्मा
जगत्कालस्थालो
लोकहितस्तरुः
।
सारंगो
नवचक्रांगः
केतुमाली
सभावनः
॥
82
॥
भूतालयो
भूतपतिरहोरात्रमनिंदितः
॥
83
॥
वाहिता
सर्वभूतानां
निलयश्च
विभुर्भवः
।
अमोघः
संयतो
ह्यश्वो
भोजनः
प्राणधारणः
॥
84
॥
धृतिमान्
मतिमान्
दक्षः
सत्कृतश्च
युगाधिपः
।
गोपालिर्गोपतिर्ग्रामो
गोचर्मवसनो
हरिः
॥
85
॥
हिरण्यबाहुश्च
तथा
गुहापालः
प्रवेशिनाम्
।
प्रकृष्टारिर्महाहर्षो
जितकामो
जितेंद्रियः
॥
86
॥
गांधारश्च
सुवासश्च
तपःसक्तो
रतिर्नरः
।
महागीतो
महानृत्यो
ह्यप्सरोगणसेवितः
॥
87
॥
महाकेतुर्महाधातुर्नैकसानुचरश्चलः
।
आवेदनीय
आदेशः
सर्वगंधसुखावहः
॥
88
॥
तोरणस्तारणो
वातः
परिधी
पतिखेचरः
।
संयोगो
वर्धनो
वृद्धो
अतिवृद्धो
गुणाधिकः
॥
89
॥
नित्य
आत्मसहायश्च
देवासुरपतिः
पतिः
।
युक्तश्च
युक्तबाहुश्च
देवो
दिविसुपर्वणः
॥
90
॥
आषाढश्च
सुषाढश्च
ध्रुवोऽथ
हरिणो
हरः
।
वपुरावर्तमानेभ्यो
वसुश्रेष्ठो
महापथः
॥
91
॥
शिरोहारी
विमर्शश्च
सर्वलक्षणलक्षितः
।
अक्षश्च
रथयोगी
च
सर्वयोगी
महाबलः
॥
92
॥
समाम्नायोऽसमाम्नायस्तीर्थदेवो
महारथः
।
निर्जीवो
जीवनो
मंत्रः
शुभाक्षो
बहुकर्कशः
॥
93
॥
रत्नप्रभूतो
रक्तांगो
महार्णवनिपानवित्
।
मूलं
विशालो
ह्यमृतो
व्यक्ताव्यक्तस्तपोनिधिः
॥
94
॥
आरोहणोऽधिरोहश्च
शीलधारी
महायशाः
।
सेनाकल्पो
महाकल्पो
योगो
युगकरो
हरिः
॥
95
॥
युगरूपो
महारूपो
महानागहनो
वधः
।
न्यायनिर्वपणः
पादः
पंडितो
ह्यचलोपमः
॥
96
॥
बहुमालो
महामालः
शशी
हरसुलोचनः
।
विस्तारो
लवणः
कूपस्त्रियुगः
सफलोदयः
॥
97
॥
त्रिलोचनो
विषण्णांगो
मणिविद्धो
जटाधरः
।
बिंदुर्विसर्गः
सुमुखः
शरः
सर्वायुधः
सहः
॥
98
॥
निवेदनः
सुखाजातः
सुगंधारो
महाधनुः
।
गंधपाली
च
भगवानुत्थानः
सर्वकर्मणाम्
॥
99
॥
मंथानो
बहुलो
वायुः
सकलः
सर्वलोचनः
।
तलस्तालः
करस्थाली
ऊर्ध्वसंहननो
महान्
॥
100
॥
छत्रं
सुच्छत्रो
विख्यातो
लोकः
सर्वाश्रयः
क्रमः
।
मुंडो
विरूपो
विकृतो
दंडी
कुंडी
विकुर्वणः
॥
101
॥
हर्यक्षः
ककुभो
वज्री
शतजिह्वः
सहस्रपात्
।
सहस्रमूर्धा
देवेंद्रः
सर्वदेवमयो
गुरुः
॥
102
॥
सहस्रबाहुः
सर्वांगः
शरण्यः
सर्वलोककृत्
।
पवित्रं
त्रिककुन्मंत्रः
कनिष्ठः
कृष्णपिंगलः
॥
103
॥
ब्रह्मदंडविनिर्माता
शतघ्नीपाशशक्तिमान्
।
पद्मगर्भो
महागर्भो
ब्रह्मगर्भो
जलोद्भवः
॥
104
॥
गभस्तिर्ब्रह्मकृद्ब्रह्मी
ब्रह्मविद्ब्राह्मणो
गतिः
।
अनंतरूपो
नैकात्मा
तिग्मतेजाः
स्वयंभुवः
॥
105
॥
ऊर्ध्वगात्मा
पशुपतिर्वातरंहा
मनोजवः
।
चंदनी
पद्मनालाग्रः
सुरभ्युत्तरणो
नरः
॥
106
॥
कर्णिकारमहास्रग्वी
नीलमौलिः
पिनाकधृत्
।
उमापतिरुमाकांतो
जाह्नवीधृदुमाधवः
॥
107
॥
वरो
वराहो
वरदो
वरेण्यः
सुमहास्वनः
।
महाप्रसादो
दमनः
शत्रुहा
श्वेतपिंगलः
॥
108
॥
पीतात्मा
परमात्मा
च
प्रयतात्मा
प्रधानधृत्
।
सर्वपार्श्वमुखस्त्र्यक्षो
धर्मसाधारणो
वरः
॥
109
॥
चराचरात्मा
सूक्ष्मात्मा
अमृतो
गोवृषेश्वरः
।
साध्यर्षिर्वसुरादित्यो
विवस्वान्सवितामृतः
॥
110
॥
व्यासः
सर्गः
सुसंक्षेपो
विस्तरः
पर्ययो
नरः
।
ऋतुः
संवत्सरो
मासः
पक्षः
संख्यासमापनः
॥
111
॥
कला
काष्ठा
लवा
मात्रा
मुहूर्ताहः
क्षपाः
क्षणाः
।
विश्वक्षेत्रं
प्रजाबीजं
लिंगमाद्यस्तु
निर्गमः
॥
112
॥
सदसद्व्यक्तमव्यक्तं
पिता
माता
पितामहः
।
स्वर्गद्वारं
प्रजाद्वारं
मोक्षद्वारं
त्रिविष्टपम्
॥
113
॥
निर्वाणं
ह्लादनश्चैव
ब्रह्मलोकः
परा
गतिः
।
देवासुरविनिर्माता
देवासुरपरायणः
॥
114
॥
देवासुरगुरुर्देवो
देवासुरनमस्कृतः
।
देवासुरमहामात्रो
देवासुरगणाश्रयः
॥
115
॥
देवासुरगणाध्यक्षो
देवासुरगणाग्रणीः
।
देवातिदेवो
देवर्षिर्देवासुरवरप्रदः
॥
116
॥
देवासुरेश्वरो
विश्वो
देवासुरमहेश्वरः
।
सर्वदेवमयोऽचिंत्यो
देवतात्माऽऽत्मसंभवः
॥
117
॥
उद्भित्त्रिविक्रमो
वैद्यो
विरजो
नीरजोऽमरः
।
ईड्यो
हस्तीश्वरो
व्याघ्रो
देवसिंहो
नरर्षभः
॥
118
॥
विबुधोऽग्रवरः
सूक्ष्मः
सर्वदेवस्तपोमयः
।
सुयुक्तः
शोभनो
वज्री
प्रासानां
प्रभवोऽव्ययः
॥
119
॥
गुहः
कांतो
निजः
सर्गः
पवित्रं
सर्वपावनः
।
शृंगी
शृंगप्रियो
बभ्रू
राजराजो
निरामयः
॥
120
॥
अभिरामः
सुरगणो
विरामः
सर्वसाधनः
।
ललाटाक्षो
विश्वदेवो
हरिणो
ब्रह्मवर्चसः
॥
121
॥
स्थावराणां
पतिश्चैव
नियमेंद्रियवर्धनः
।
सिद्धार्थः
सिद्धभूतार्थोऽचिंत्यः
सत्यव्रतः
शुचिः
॥
122
॥
व्रताधिपः
परं
ब्रह्म
भक्तानां
परमा
गतिः
।
विमुक्तो
मुक्ततेजाश्च
श्रीमान्
श्रीवर्धनो
जगत्
॥
123
॥
उत्तरपीठिका
(फलशृति)
।
यथा
प्रधानं
भगवानिति
भक्त्या
स्तुतो
मया
।
यं
न
ब्रह्मादयो
देवा
विदुस्तत्त्वेन
नर्षयः
॥
1
॥
स्तोतव्यमर्च्यं
वंद्यं
च
कः
स्तोष्यति
जगत्पतिम्
।
भक्त्या
त्वेवं
पुरस्कृत्य
मया
यज्ञपतिर्विभुः
॥
2
॥
ततोऽभ्यनुज्ञां
संप्राप्य
स्तुतो
मतिमतां
वरः
।
शिवमेभिः
स्तुवन्
देवं
नामभिः
पुष्टिवर्धनैः
॥
3
॥
नित्ययुक्तः
शुचिर्भक्तः
प्राप्नोत्यात्मानमात्मना
।
एतद्धि
परमं
ब्रह्म
परं
ब्रह्माधिगच्छति
॥
4
॥
ऋषयश्चैव
देवाश्च
स्तुवंत्येतेन
तत्परम्
।
स्तूयमानो
महादेवस्तुष्यते
नियतात्मभिः
॥
5
॥
भक्तानुकंपी
भगवानात्मसंस्थाकरो
विभुः
।
तथैव
च
मनुष्येषु
ये
मनुष्याः
प्रधानतः
॥
6
॥
आस्तिकाः
श्रद्दधानाश्च
बहुभिर्जन्मभिः
स्तवैः
।
भक्त्या
ह्यनन्यमीशानं
परं
देवं
सनातनम्
॥
7
॥
कर्मणा
मनसा
वाचा
भावेनामिततेजसः
।
शयाना
जाग्रमाणाश्च
व्रजन्नुपविशंस्तथा
॥
8
॥
उन्मिषन्निमिषंश्चैव
चिंतयंतः
पुनः
पुनः
।
शृण्वंतः
श्रावयंतश्च
कथयंतश्च
ते
भवम्
॥
9
॥
स्तुवंतः
स्तूयमानाश्च
तुष्यंति
च
रमंति
च
।
जन्मकोटिसहस्रेषु
नानासंसारयोनिषु
॥
10
॥
जंतोर्विगतपापस्य
भवे
भक्तिः
प्रजायते
।
उत्पन्ना
च
भवे
भक्तिरनन्या
सर्वभावतः
॥
11
॥
भाविनः
कारणे
चास्य
सर्वयुक्तस्य
सर्वथा
।
एतद्देवेषु
दुष्प्रापं
मनुष्येषु
न
लभ्यते
॥
12
॥
निर्विघ्ना
निश्चला
रुद्रे
भक्तिरव्यभिचारिणी
।
तस्यैव
च
प्रसादेन
भक्तिरुत्पद्यते
नृणाम्
॥
13
॥
येन
यांति
परां
सिद्धिं
तद्भावगतचेतसः
।
ये
सर्वभावानुगताः
प्रपद्यंते
महेश्वरम्
॥
14
॥
प्रपन्नवत्सलो
देवः
संसारात्तान्समुद्धरेत्
।
एवमन्ये
विकुर्वंति
देवाः
संसारमोचनम्
॥
15
॥
मनुष्याणामृते
देवं
नान्या
शक्तिस्तपोबलम्
।
इति
तेनेंद्रकल्पेन
भगवान्
सदसत्पतिः
॥
16
॥
कृत्तिवासाः
स्तुतः
कृष्ण
तंडिना
शुभबुद्धिना
।
स्तवमेतं
भगवतो
ब्रह्मा
स्वयमधारयत्
॥
17
॥
गीयते
च
स
बुद्ध्येत
ब्रह्मा
शंकरसन्निधौ
।
इदं
पुण्यं
पवित्रं
च
सर्वदा
पापनाशनम्
॥
18
॥
योगदं
मोक्षदं
चैव
स्वर्गदं
तोषदं
तथा
।
एवमेतत्पठंते
य
एकभक्त्या
तु
शंकरम्
॥
19
॥
या
गतिः
सांख्ययोगानां
व्रजंत्येतां
गतिं
तदा
।
स्तवमेतं
प्रयत्नेन
सदा
रुद्रस्य
सन्निधौ
॥
20
॥
अब्दमेकं
चरेद्भक्तः
प्राप्नुयादीप्सितं
फलम्
।
एतद्रहस्यं
परमं
ब्रह्मणो
हृदि
संस्थितम्
॥
21
॥
ब्रह्मा
प्रोवाच
शक्राय
शक्रः
प्रोवाच
मृत्यवे
।
मृत्युः
प्रोवाच
रुद्रेभ्यो
रुद्रेभ्यस्तंडिमागमत्
॥
22
॥
महता
तपसा
प्राप्तस्तंडिना
ब्रह्मसद्मनि
।
तंडिः
प्रोवाच
शुक्राय
गौतमाय
च
भार्गवः
॥
23
॥
वैवस्वताय
मनवे
गौतमः
प्राह
माधव
।
नारायणाय
साध्याय
समाधिष्ठाय
धीमते
॥
24
॥
यमाय
प्राह
भगवान्
साध्यो
नारायणोऽच्युतः
।
नाचिकेताय
भगवानाह
वैवस्वतो
यमः
॥
25
॥
मार्कंडेयाय
वार्ष्णेय
नाचिकेतोऽभ्यभाषत
।
मार्कंडेयान्मया
प्राप्तो
नियमेन
जनार्दन
॥
26
॥
तवाप्यहममित्रघ्न
स्तवं
दद्यां
ह्यविश्रुतम्
।
स्वर्ग्यमारोग्यमायुष्यं
धन्यं
वेदेन
सम्मितम्
॥
27
॥
नास्य
विघ्नं
विकुर्वंति
दानवा
यक्षराक्षसाः
।
पिशाचा
यातुधाना
वा
गुह्यका
भुजगा
अपि
॥
28
॥
यः
पठेत
शुचिः
पार्थ
ब्रह्मचारी
जितेंद्रियः
।
अभग्नयोगो
वर्षं
तु
सोऽश्वमेधफलं
लभेत्
॥
29
॥
इति
श्रीमहाभारते
अनुशासनपर्वणि
महादेवसहस्रनाम
स्तोत्रं
नाम
सप्तदशोऽध्यायः
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits