हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
शिव भुजंग स्तोत्रम्
गलद्दानगण्डं
मिलद्भृङ्गषण्डं
चलच्चारुशुण्डं
जगत्त्राणशौण्डम्
।
कनद्दन्तकाण्डं
विपद्भङ्गचण्डं
शिवप्रेमपिण्डं
भजे
वक्रतुण्डम्
॥
1
॥
अनाद्यन्तमाद्यं
परं
तत्त्वमर्थं
चिदाकारमेकं
तुरीयं
त्वमेयम्
।
हरिब्रह्ममृग्यं
परब्रह्मरूपं
मनोवागतीतं
महःशैवमीडे
॥
2
॥
स्वशक्त्यादिशक्त्यन्तसिंहासनस्थं
मनोहारिसर्वाङ्गरत्नोरुभूषम्
।
जटाहीन्दुगङ्गास्थिशम्याकमौलिं
पराशक्तिमित्रं
नुमः
पञ्चवक्त्रम्
॥
3
॥
शिवेशानतत्पूरुषाघोरवामा-
-दिभिः
पञ्चभिर्हृन्मुखैः
षड्भिरङ्गैः
।
अनौपम्य
षट्त्रिंशतं
तत्त्वविद्या-
-मतीतं
परं
त्वां
कथं
वेत्ति
को
वा
॥
4
॥
प्रवालप्रवाहप्रभाशोणमर्धं
मरुत्वन्मणिश्रीमहःश्याममर्धम्
।
गुणस्यूतमेतद्वपुः
शैवमन्तः
स्मरामि
स्मरापत्तिसम्पत्तिहेतुम्
॥
5
॥
स्वसेवासमायातदेवासुरेन्द्रा-
-नमन्मौलिमन्दारमालाभिषक्तम्
।
नमस्यामि
शम्भो
पदाम्भोरुहं
ते
भवाम्भोधिपोतं
भवानीविभाव्यम्
॥
6
॥
जगन्नाथ
मन्नाथ
गौरीसनाथ
प्रपन्नानुकम्पिन्विपन्नार्तिहारिन्
।
महःस्तोममूर्ते
समस्तैकबन्धो
नमस्ते
नमस्ते
पुनस्ते
नमोऽस्तु
॥
7
॥
विरूपाक्ष
विश्वेश
विश्वादिदेव
त्रयीमूल
शम्भो
शिव
त्र्यम्बक
त्वम्
।
प्रसीद
स्मर
त्राहि
पश्यावमुक्त्यै
क्षमां
प्राप्नुहि
त्र्यक्ष
मां
रक्ष
मोदात्
॥
8
॥
महादेव
देवेश
देवादिदेव
स्मरारे
पुरारे
यमारे
हरेति
।
ब्रुवाणः
स्मरिष्यामि
भक्त्या
भवन्तं
ततो
मे
दयाशील
देव
प्रसीद
॥
9
॥
त्वदन्यः
शरण्यः
प्रपन्नस्य
नेति
प्रसीद
स्मरन्नेव
हन्यास्तु
दैन्यम्
।
न
चेत्ते
भवेद्भक्तवात्सल्यहानि-
-स्ततो
मे
दयालो
सदा
सन्निधेहि
॥
10
॥
अयं
दानकालस्त्वहं
दानपात्रं
भवानेव
दाता
त्वदन्यं
न
याचे
।
भवद्भक्तिमेव
स्थिरां
देहि
मह्यं
कृपाशील
शम्भो
कृतार्थोऽस्मि
तस्मात्
॥
11
॥
पशुं
वेत्सि
चेन्मां
तमेवाधिरूढः
कलङ्कीति
वा
मूर्ध्नि
धत्से
तमेव
।
द्विजिह्वः
पुनः
सोऽपि
ते
कण्ठभूषा
त्वदङ्गीकृताः
शर्व
सर्वेऽपि
धन्याः
॥
12
॥
न
शक्नोमि
कर्तुं
परद्रोहलेशं
कथं
प्रीयसे
त्वं
न
जाने
गिरीश
।
तथाहि
प्रसन्नोऽसि
कस्यापि
कान्ता-
-सुतद्रोहिणो
वा
पितृद्रोहिणो
वा
॥
13
॥
स्तुतिं
ध्यानमर्चां
यथावद्विधातुं
भजन्नप्यजानन्महेशावलम्बे
।
त्रसन्तं
सुतं
त्रातुमग्रे
मृकण्डो-
-र्यमप्राणनिर्वापणं
त्वत्पदाब्जम्
॥
14
॥
शिरोदृष्टिहृद्रोगशूलप्रमेह-
-ज्वरार्शोजरायक्ष्महिक्काविषार्तान्
।
त्वमाद्यो
भिषग्भेषजं
भस्म
शम्भो
त्वमुल्लाघयास्मान्वपुर्लाघवाय
॥
15
॥
दरिद्रोऽस्म्यभद्रोऽस्मि
भग्नोऽस्मि
दूये
विषण्णोऽस्मि
सन्नोऽस्मि
खिन्नोऽस्मि
चाहम्
।
भवान्प्राणिनामन्तरात्मासि
शम्भो
ममाधिं
न
वेत्सि
प्रभो
रक्ष
मां
त्वम्
॥
16
॥
त्वदक्ष्णोः
कटाक्षः
पतेत्त्र्यक्ष
यत्र
क्षणं
क्ष्मा
च
लक्ष्मीः
स्वयं
तं
वृणाते
।
किरीटस्फुरच्चामरच्छत्रमाला-
-कलाचीगजक्षौमभूषाविशेषैः
॥
17
॥
भवान्यै
भवायापि
मात्रे
च
पित्रे
मृडान्यै
मृडायाप्यघघ्न्यै
मखघ्ने
।
शिवाङ्ग्यै
शिवाङ्गाय
कुर्मः
शिवायै
शिवायाम्बिकायै
नमस्त्र्यम्बकाय
॥
18
॥
भवद्गौरवं
मल्लघुत्वं
विदित्वा
प्रभो
रक्ष
कारुण्यदृष्ट्यानुगं
माम्
।
शिवात्मानुभावस्तुतावक्षमोऽहं
स्वशक्त्या
कृतं
मेऽपराधं
क्षमस्व
॥
19
॥
यदा
कर्णरन्ध्रं
व्रजेत्कालवाह-
-द्विषत्कण्ठघण्टाघणात्कारनादः
।
वृषाधीशमारुह्य
देवौपवाह्यं
तदा
वत्स
मा
भीरिति
प्रीणय
त्वम्
॥
20
॥
यदा
दारुणाभाषणा
भीषणा
मे
भविष्यन्त्युपान्ते
कृतान्तस्य
दूताः
।
तदा
मन्मनस्त्वत्पदाम्भोरुहस्थं
कथं
निश्चलं
स्यान्नमस्तेऽस्तु
शम्भो
॥
21
॥
यदा
दुर्निवारव्यथोऽहं
शयानो
लुठन्निःश्वसन्निःसृताव्यक्तवाणिः
।
तदा
जह्नुकन्याजलालङ्कृतं
ते
जटामण्डलं
मन्मनोमन्दिरं
स्यात्
॥
22
॥
यदा
पुत्रमित्रादयो
मत्सकाशे
रुदन्त्यस्य
हा
कीदृशीयं
दशेति
।
तदा
देवदेवेश
गौरीश
शम्भो
नमस्ते
शिवायेत्यजस्रं
ब्रवाणि
॥
23
॥
यदा
पश्यतां
मामसौ
वेत्ति
नास्मा-
-नयं
श्वास
एवेति
वाचो
भवेयुः
।
तदा
भूतिभूषं
भुजङ्गावनद्धं
पुरारे
भवन्तं
स्फुटं
भावयेयम्
॥
24
॥
यदा
यातनादेहसन्देहवाही
भवेदात्मदेहे
न
मोहो
महान्मे
।
तदा
काशशीतांशुसङ्काशमीश
स्मरारे
वपुस्ते
नमस्ते
स्मरामि
॥
25
॥
यदापारमच्छायमस्थानमद्भि-
-र्जनैर्वा
विहीनं
गमिष्यामि
मार्गम्
।
तदा
तं
निरुन्धन्कृतान्तस्य
मार्गं
महादेव
मह्यं
मनोज्ञं
प्रयच्छ
॥
26
॥
यदा
रौरवादि
स्मरन्नेव
भीत्या
व्रजाम्यत्र
मोहं
महादेव
घोरम्
।
तदा
मामहो
नाथ
कस्तारयिष्य-
-त्यनाथं
पराधीनमर्धेन्दुमौले
॥
27
॥
यदा
श्वेतपत्रायतालङ्घ्यशक्तेः
कृतान्ताद्भयं
भक्तवात्सल्यभावात्
।
तदा
पाहि
मां
पार्वतीवल्लभान्यं
न
पश्यामि
पातारमेतादृशं
मे
॥
28
॥
इदानीमिदानीं
मृतिर्मे
भवित्री-
-त्यहो
सन्ततं
चिन्तया
पीडितोऽस्मि
।
कथं
नाम
मा
भून्मृतौ
भीतिरेषा
नमस्ते
गतीनां
गते
नीलकण्ठ
॥
29
॥
अमर्यादमेवाहमाबालवृद्धं
हरन्तं
कृतान्तं
समीक्ष्यास्मि
भीतः
।
मृतौ
तावकाङ्घ्र्यब्जदिव्यप्रसादा-
-द्भवानीपते
निर्भयोऽहं
भवानि
॥
30
॥
जराजन्मगर्भाधिवासादिदुःखा-
-न्यसह्यानि
जह्यां
जगन्नाथ
देव
।
भवन्तं
विना
मे
गतिर्नैव
शम्भो
दयालो
न
जागर्ति
किं
वा
दया
ते
॥
31
॥
शिवायेति
शब्दो
नमःपूर्व
एष
स्मरन्मुक्तिकृन्मृत्युहा
तत्त्ववाची
।
महेशान
मा
गान्मनस्तो
वचस्तः
सदा
मह्यमेतत्प्रदानं
प्रयच्छ
॥
32
॥
त्वमप्यम्ब
मां
पश्य
शीतांशुमौलि-
-प्रिये
भेषजं
त्वं
भवव्याधिशान्तौ
।
बहुक्लेशभाजं
पदाम्भोजपोते
भवाब्धौ
निमग्नं
नयस्वाद्य
पारम्
॥
33
॥
अनुद्यल्ललाटाक्षिवह्निप्ररोहै-
-रवामस्फुरच्चारुवामोरुशोभैः
।
अनङ्गभ्रमद्भोगिभूषाविशेषै-
-रचन्द्रार्धचूडैरलं
दैवतैर्नः
॥
34
॥
अकण्ठेकलङ्कादनङ्गेभुजङ्गा-
-दपाणौकपालादफालेनलाक्षात्
।
अमौलौशशाङ्कादवामेकलत्रा-
-दहं
देवमन्यं
न
मन्ये
न
मन्ये
॥
35
॥
महादेव
शम्भो
गिरीश
त्रिशूलिं-
-स्त्वयीदं
समस्तं
विभातीति
यस्मात्
।
शिवादन्यथा
दैवतं
नाभिजाने
शिवोऽहं
शिवोऽहं
शिवोऽहं
शिवोऽहम्
॥
36
॥
यतोऽजायतेदं
प्रपञ्चं
विचित्रं
स्थितिं
याति
यस्मिन्यदेकान्तमन्ते
।
स
कर्मादिहीनः
स्वयञ्ज्योतिरात्मा
शिवोऽहं
शिवोऽहं
शिवोऽहं
शिवोऽहम्
॥
37
॥
किरीटे
निशेशो
ललाटे
हुताशो
भुजे
भोगिराजो
गले
कालिमा
च
।
तनौ
कामिनी
यस्य
तत्तुल्यदेवं
न
जाने
न
जाने
न
जाने
न
जाने
॥
38
॥
अनेन
स्तवेनादरादम्बिकेशं
परां
भक्तिमासाद्य
यं
ये
नमन्ति
।
मृतौ
निर्भयास्ते
जनास्तं
भजन्ते
हृदम्भोजमध्ये
सदासीनमीशम्
॥
39
॥
भुजङ्गप्रियाकल्प
शम्भो
मयैवं
भुजङ्गप्रयातेन
वृत्तेन
क्लुप्तम्
।
नरः
स्तोत्रमेतत्पठित्वोरुभक्त्या
सुपुत्रायुरारोग्यमैश्वर्यमेति
॥
40
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits