हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
द्वादश ज्योतिर्लिंग स्तोत्रम्
लघु
स्तोत्रम्
सौराष्ट्रे
सोमनाधञ्च
श्रीशैले
मल्लिकार्जुनम्
।
उज्जयिन्यां
महाकालं
ओङ्कारेत्वमामलेश्वरम्
॥
पर्ल्यां
वैद्यनाधञ्च
ढाकिन्यां
भीम
शङ्करम्
।
सेतुबन्धेतु
रामेशं
नागेशं
दारुकावने
॥
वारणाश्यान्तु
विश्वेशं
त्रयम्बकं
गौतमीतटे
।
हिमालयेतु
केदारं
घृष्णेशन्तु
विशालके
॥
एतानि
ज्योतिर्लिङ्गानि
सायं
प्रातः
पठेन्नरः
।
सप्त
जन्म
कृतं
पापं
स्मरणेन
विनश्यति
॥
सम्पूर्ण
स्तोत्रम्
सौराष्ट्रदेशे
विशदेऽतिरम्ये
ज्योतिर्मयं
चन्द्रकलावतंसम्
।
भक्तप्रदानाय
कृपावतीर्णं
तं
सोमनाथं
शरणं
प्रपद्ये
॥
1
॥
श्रीशैलशृङ्गे
विविधप्रसङ्गे
शेषाद्रिशृङ्गेऽपि
सदा
वसन्तम्
।
तमर्जुनं
मल्लिकपूर्वमेनं
नमामि
संसारसमुद्रसेतुम्
॥
2
॥
अवन्तिकायां
विहितावतारं
मुक्तिप्रदानाय
च
सज्जनानाम्
।
अकालमृत्योः
परिरक्षणार्थं
वन्दे
महाकालमहासुरेशम्
॥
3
॥
कावेरिकानर्मदयोः
पवित्रे
समागमे
सज्जनतारणाय
।
सदैव
मान्धातृपुरे
वसन्तं
ओङ्कारमीशं
शिवमेकमीडे
॥
4
॥
पूर्वोत्तरे
प्रज्वलिकानिधाने
सदा
वसं
तं
गिरिजासमेतम्
।
सुरासुराराधितपादपद्मं
श्रीवैद्यनाथं
तमहं
नमामि
॥
5
॥
यं
डाकिनिशाकिनिकासमाजे
निषेव्यमाणं
पिशिताशनैश्च
।
सदैव
भीमादिपदप्रसिद्धं
तं
शङ्करं
भक्तहितं
नमामि
॥
6
॥
श्रीताम्रपर्णीजलराशियोगे
निबध्य
सेतुं
विशिखैरसङ्ख्यैः
।
श्रीरामचन्द्रेण
समर्पितं
तं
रामेश्वराख्यं
नियतं
नमामि
॥
7
॥
याम्ये
सदङ्गे
नगरेऽतिरम्ये
विभूषिताङ्गं
विविधैश्च
भोगैः
।
सद्भक्तिमुक्तिप्रदमीशमेकं
श्रीनागनाथं
शरणं
प्रपद्ये
॥
8
॥
सानन्दमानन्दवने
वसन्तं
आनन्दकन्दं
हतपापबृन्दम्
।
वाराणसीनाथमनाथनाथं
श्रीविश्वनाथं
शरणं
प्रपद्ये
॥
9
॥
सह्याद्रिशीर्षे
विमले
वसन्तं
गोदावरितीरपवित्रदेशे
।
यद्दर्शनात्
पातकं
पाशु
नाशं
प्रयाति
तं
त्र्यम्बकमीशमीडे
॥
10
॥
महाद्रिपार्श्वे
च
तटे
रमन्तं
सम्पूज्यमानं
सततं
मुनीन्द्रैः
।
सुरासुरैर्यक्ष
महोरगाढ्यैः
केदारमीशं
शिवमेकमीडे
॥
11
॥
इलापुरे
रम्यविशालकेऽस्मिन्
समुल्लसन्तं
च
जगद्वरेण्यम्
।
वन्दे
महोदारतरस्वभावं
घृष्णेश्वराख्यं
शरणं
प्रपद्ये
॥
12
॥
ज्योतिर्मयद्वादशलिङ्गकानां
शिवात्मनां
प्रोक्तमिदं
क्रमेण
।
स्तोत्रं
पठित्वा
मनुजोऽतिभक्त्या
फलं
तदालोक्य
निजं
भजेच्च
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits