Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

अरुणाचल अष्टकम्

दर्शनादभ्रसदसि जननात्कमलालये काश्यां तु मरणान्मुक्तिः स्मरणादरुणाचले 1 करुणापूरितापाङ्गं शरणागतवत्सलम् तरुणेन्दुजटामौलिं स्मरणादरुणाचलम् 2 समस्तजगदाधारं सच्चिदानन्दविग्रहम् सहस्ररथसोपेतं स्मरणादरुणाचलम् 3 काञ्चनप्रतिमाभासं वाञ्छितार्थफलप्रदम् मां रक्ष सुराध्यक्षं स्मरणादरुणाचलम् 4 बद्धचन्द्रजटाजूटमर्धनारीकलेबरम् वर्धमानदयाम्भोधिं स्मरणादरुणाचलम् 5 काञ्चनप्रतिमाभासं सूर्यकोटिसमप्रभम् बद्धव्याघ्रपुरीध्यानं स्मरणादरुणाचलम् 6 शिक्षयाखिलदेवारि भक्षितक्ष्वेलकन्धरम् रक्षयाखिलभक्तानां स्मरणादरुणाचलम् 7 अष्टभूतिसमायुक्तमिष्टकामफलप्रदम् शिष्टभक्तिसमायुक्तान् स्मरणादरुणाचलम् 8 विनायकसुराध्यक्षं विष्णुब्रह्मेन्द्रसेवितम् विमलारुणपादाब्जं स्मरणादरुणाचलम् 9 मन्दारमल्लिकाजातिकुन्दचम्पकपङ्कजैः इन्द्रादिपूजितां देवीं स्मरणादरुणाचलम् 10 सम्पत्करं पार्वतीशं सूर्यचन्द्राग्निलोचनम् मन्दस्मितमुखाम्भोजं स्मरणादरुणाचलम् 11 इति श्रीअरुणाचलाष्टकम्

Recite with devotion and pure heart

Regular practice brings spiritual benefits