हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
अर्ध नारीश्वर अष्टकम्
चांपेयगौरार्धशरीरकायै
कर्पूरगौरार्धशरीरकाय
।
धम्मिल्लकायै
च
जटाधराय
नमः
शिवायै
च
नमः
शिवाय
॥
1
॥
कस्तूरिकाकुंकुमचर्चितायै
चितारजःपुंज
विचर्चिताय
।
कृतस्मरायै
विकृतस्मराय
नमः
शिवायै
च
नमः
शिवाय
॥
2
॥
झणत्क्वणत्कंकणनूपुरायै
पादाब्जराजत्फणिनूपुराय
।
हेमांगदायै
भुजगांगदाय
नमः
शिवायै
च
नमः
शिवाय
॥
3
॥
विशालनीलोत्पललोचनायै
विकासिपंकेरुहलोचनाय
।
समेक्षणायै
विषमेक्षणाय
नमः
शिवायै
च
नमः
शिवाय
॥
4
॥
मंदारमालाकलितालकायै
कपालमालांकितकंधराय
।
दिव्यांबरायै
च
दिगंबराय
नमः
शिवायै
च
नमः
शिवाय
॥
5
॥
अंभोधरश्यामलकुंतलायै
तटित्प्रभाताम्रजटाधराय
।
निरीश्वरायै
निखिलेश्वराय
नमः
शिवायै
च
नमः
शिवाय
॥
6
॥
प्रपंचसृष्ट्युन्मुखलास्यकायै
समस्तसंहारकतांडवाय
।
जगज्जनन्यै
जगदेकपित्रे
नमः
शिवायै
च
नमः
शिवाय
॥
7
॥
प्रदीप्तरत्नोज्ज्वलकुंडलायै
स्फुरन्महापन्नगभूषणाय
।
शिवान्वितायै
च
शिवान्विताय
नमः
शिवायै
च
नमः
शिवाय
॥
8
॥
एतत्पठेदष्टकमिष्टदं
यो
भक्त्या
स
मान्यो
भुवि
दीर्घजीवी
।
प्राप्नोति
सौभाग्यमनंतकालं
भूयात्सदा
तस्य
समस्तसिद्धिः
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits