हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
शारदा भुजङ्ग प्रयात अष्टकं
सुवक्षोजकुम्भां
सुधापूर्णकुम्भां
प्रसादावलम्बां
प्रपुण्यावलम्बाम्
।
सदास्येन्दुबिम्बां
सदानोष्ठबिम्बां
भजे
शारदाम्बामजस्रं
मदम्बाम्
॥
1
॥
कटाक्षे
दयार्द्रां
करे
ज्ञानमुद्रां
कलाभिर्विनिद्रां
कलापैः
सुभद्राम्
।
पुरस्त्रीं
विनिद्रां
पुरस्तुङ्गभद्रां
भजे
शारदाम्बामजस्रं
मदम्बाम्
॥
2
॥
ललामाङ्कफालां
लसद्गानलोलां
स्वभक्तैकपालां
यशःश्रीकपोलाम्
।
करे
त्वक्षमालां
कनत्पत्रलोलां
भजे
शारदाम्बामजस्रं
मदम्बाम्
॥
3
॥
सुसीमन्तवेणीं
दृशा
निर्जितैणीं
रमत्कीरवाणीं
नमद्वज्रपाणीम्
।
सुधामन्थरास्यां
मुदा
चिन्त्यवेणीं
भजे
शारदाम्बामजस्रं
मदम्बाम्
॥
4
॥
सुशान्तां
सुदेहां
दृगन्ते
कचान्तां
लसत्सल्लताङ्गीमनन्तामचिन्त्याम्
।
स्मरेत्तापसैः
सर्गपूर्वस्थितां
तां
भजे
शारदाम्बामजस्रं
मदम्बाम्
॥
5
॥
कुरङ्गे
तुरङ्गे
मृगेन्द्रे
खगेन्द्रे
मराले
मदेभे
महोक्षेऽधिरूढाम्
।
महत्यां
नवम्यां
सदा
सामरूपां
भजे
शारदाम्बामजस्रं
मदम्बाम्
॥
6
॥
ज्वलत्कान्तिवह्निं
जगन्मोहनाङ्गीं
भजे
मानसाम्भोज
सुभ्रान्तभृङ्गीम्
।
निजस्तोत्रसङ्गीतनृत्यप्रभाङ्गीं
भजे
शारदाम्बामजस्रं
मदम्बाम्
॥
7
॥
भवाम्भोजनेत्राजसम्पूज्यमानां
लसन्मन्दहासप्रभावक्त्रचिह्नाम्
।
चलच्चञ्चलाचारुताटङ्ककर्णां
भजे
शारदाम्बामजस्रं
मदम्बाम्
॥
8
॥ ॥
इति
श्रीमच्छङ्कराचार्यविरचिता
श्री
शारदा
भुजङ्ग
प्रयाताष्टकम्
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits