हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
सरस्वती स्तवम्
याज्ञवल्क्य
उवाच
कृपां
कुरु
जगन्मातर्-मामेवं
हततेजसम्
।
गुरुशापात्
स्मृतिभ्रष्टं
विद्याहीनं
च
दुःखितम्
॥
1
॥
ज्ञानं
देहि
स्मृतिं
विद्यां
शक्तिं
शिष्य
प्रबोधिनीम्
।
ग्रन्थकर्तृत्व
शक्तिं
च
सुशिष्यं
सुप्रतिष्ठितम्
॥
2
॥
प्रतिभां
सत्सभायां
च
विचारक्षमतां
शुभाम्
।
लुप्तं
सर्वं
दैव
योगा-न्नवीभूतं
पुनः
कुरु
॥
3
॥
यथाङ्कुरं
भस्मनि
च
करोति
देवता
पुनः
।
ब्रह्मस्वरूपा
परमा
ज्योतीरूपा
सनातनी
॥
4
॥
सर्वविद्याधिदेवी
या
तस्यै
वाण्यै
नमो
नमः
।
विसर्ग
बिन्दुमात्रासु
यदधिष्ठानमेवच
॥
5
॥
तदधिष्ठात्री
या
देवी
तस्यै
वाण्यै
नमो
नमः
।
व्याख्यास्वरूपा
सा
देवी
व्याख्याधिष्ठातृरूपिणी
॥
6
॥
यया
विना
प्रसङ्ख्यावान्
सङ्ख्यां
कर्तुं
न
शक्यते
।
कालसङ्ख्या
स्वरूपा
या
तस्यै
देव्यै
नमो
नमः
॥
7
॥
भ्रम
सिद्धान्तरूपा
या
तस्यै
देव्यै
नमो
नमः
।
स्मृतिशक्ति
ज्ञानशक्ति
बुद्धिशक्ति
स्वरूपिणी
॥
8
॥
प्रतिभाकल्पनाशक्तिर्-या
च
तस्यै
नमोनमः
।
सनत्कुमारो
ब्रह्माणं
ज्ञानं
पप्रच्छ
यत्र
वै
॥
9
॥
बभूव
मूकवत्सोस्पि
सिद्धान्तं
कर्तु
मक्षमः
।
तदाष्जगाम
भगवा-नात्मा
श्रीकृष्ण
ईश्वरः
॥
10
॥
उवाच
स
च
तां
स्तौहि
वाणी
मिष्टां
प्रजापते
।
स
च
तुष्टाव
तां
ब्रह्मा
चाज्ञया
परमात्मनः
॥
11
॥
चकार
तत्प्रसादेन
तदा
सिद्धान्त
मुत्तमम्
।
यदाप्यनन्तं
पप्रच्छ
ज्ञानमेकं
वसुन्धरा
॥
12
॥
बभूव
मूकवत्सोस्पि
सिद्धान्तं
कर्तु
मक्षमः
।
तदा
तां
च
स
तुष्टाव
सन्त्रस्तः
कश्यपाज्ञया
॥
13
॥
तत
श्चकार
सिद्धान्तं
निर्मलं
भ्रम
भञ्जनम्
।
व्यासः
पुराणसूत्रं
च
पप्रच्छ
वाल्मीकिं
यदा
॥
14
॥
मौनीभूत
श्च
सस्मार
तामेव
जगदम्बिकाम्
।
तदा
चकार
सिद्धान्तं
तद्वरेण
मुनीश्वरः
॥
15
॥
सम्प्राप्य
निर्मलं
ज्ञानं
भ्रमान्ध्य
ध्वंसदीपकम्
।
पुराणसूत्रं
श्रुत्वा
च
व्यासः
कृष्णकलोद्भवः
॥
16
॥
तां
शिवां
वेद
दध्यौ
च
शतवर्षं
च
पुष्करे
।
तदा
त्वत्तो
वरं
प्राप्य
सत्कवीन्द्रो
बभूव
ह
॥
17
॥
तदा
वेदविभागं
च
पुराणं
च
चकार
सः
।
यदा
महेन्द्रः
पप्रच्छ
तत्त्वज्ञानं
सदाशिवम्
॥
18
॥
क्षणं
तामेव
सञ्चिन्त्य
तस्मै
ज्ञानं
ददौ
विभुः
।
पप्रच्छ
शब्दशास्त्रं
च
महेन्द्र
श्च
बृहस्पतिम्
॥
19
॥
दिव्य
वर्ष
सहस्रं
च
स
त्वां
दध्यौ
च
पुष्करे
।
तदा
त्वत्तो
वरं
प्राप्य
दिव्यवर्षसहस्रकम्
॥
20
॥
उवाच
शब्द
शास्त्रं
च
तदर्थं
च
सुरेश्वरम्
।
अध्यापिताश्च
ये
शिष्या
यैरधीतं
मुनीश्वरैः
॥
21
॥
ते
च
तां
परिसञ्चित्य
प्रवर्तन्ते
सुरेश्वरीम्
।
त्वं
संस्तुता
पूजिता
च
मुनीन्द्रै
र्मनु
मानवैः
॥
22
॥
दैत्येन्द्रै
श्च
सुरैश्चापि
ब्रह्म
विष्णुशिवादिभिः
।
जडीभूत
स्सहस्रास्यः
पञ्चवक्त्र
श्चतुर्मुखः
॥
23
॥
यां
स्तोतुं
कि
महं
स्तौमि
तामेकास्येन
मानवः
।
इत्युक्त्वा
याज्ञवल्क्य
श्च
भक्तिनम्रात्म
कन्धरः
॥
24
॥
प्रणनाम
निराहारो
रुरोद
च
मुहुर्मुहुः
।
ज्योतीरूपा
महामाया
तेन
दृष्टा7प्युवाच
तम्
॥
25
॥
सुकवीन्द्रो
भवेत्युक्त्वा
वैकुण्ठं
च
जगाम
ह
।
याज्ञवल्क्य
कृतं
वाणी
स्तोत्रमेतत्तु
यः
पठेत्
॥
26
॥
स
कवीन्द्रो
महावाग्मी
बृहस्पतिसमो
भवेत्
।
महा
मूर्खश्च
दुर्बुद्धिर्-वर्षमेकं
यदा
पठेत्
।
स
पण्डितश्च
मेधावी
सुकवीन्द्रो
भवेद्ध्रुवम्
॥
27
॥
इति
श्री
देवी
भागवते
महापुराणे
नवमस्कन्धे
सरस्वतीस्तवं
नाम
पञ्चमोध्यायः
।
सरस्वती
कटाक्ष
सिद्धिरस्तु
।
इदं
मयाकृतं
पारायणं
श्रीसद्गुरु
चरणारविन्दार्पणमस्तु
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits