Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

सरस्वती कवचम्

भृगुरुवाच । ब्रह्मन्ब्रह्मविदांश्रेष्ठ ब्रह्मज्ञानविशारद । सर्वज्ञ सर्वजनक सर्वपूजकपूजित ॥ 60 सरस्वत्याश्च कवचं ब्रूहि विश्वजयं प्रभो । अयातयाममन्त्राणां समूहो यत्र संयुतः ॥ 61 ॥ ब्रह्मोवाच । शृणु वत्स प्रवक्ष्यामि कवचं सर्वकामदम् । श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम् ॥ 62 ॥ उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वने । रासेश्वरेण विभुना रासे वै रासमण्डले ॥ 63 ॥ अतीव गोपनीयञ्च कल्पवृक्षसमं परम् । अश्रुताद्भुतमन्त्राणां समूहैश्च समन्वितम् ॥ 64 ॥ यद्धृत्वा पठनाद्ब्रह्मन्बुद्धिमांश्च बृहस्पतिः । यद्धृत्वा भगवाञ्छुक्रः सर्वदैत्येषु पूजितः ॥ 65 ॥ पठनाद्धारणाद्वाग्मी कवीन्द्रो वाल्मिकी मुनिः । स्वायम्भुवो मनुश्चैव यद्धृत्वा सर्वपूजिताः ॥ 66 ॥ कणादो गौतमः कण्वः पाणिनिः शाकटायनः । ग्रन्थं चकार यद्धृत्वा दक्षः कात्यायनः स्वयम् ॥ 67 ॥ धृत्वा वेदविभागञ्च पुराणान्यखिलानि च । चकार लीलामात्रेण कृष्णद्वैपायनः स्वयम् ॥ 68 ॥ शातातपश्च संवर्तो वसिष्ठश्च पराशरः । यद्धृत्वा पठनाद्ग्रन्थं याज्ञवल्क्यश्चकार सः ॥ 69 ॥ ऋष्यशृङ्गो भरद्वाजश्चास्तीको देवलस्तथा । जैगीषव्योऽथ जाबालिर्यद्धृत्वा सर्वपूजितः ॥ 70 ॥ कवचस्यास्य विप्रेन्द्र ऋषिरेष प्रजापतिः । स्वयं बृहस्पतिश्छन्दो देवो रासेश्वरः प्रभुः ॥ 71 ॥ सर्वतत्त्वपरिज्ञाने सर्वार्थेऽपि च साधने । कवितासु च सर्वासु विनियोगः प्रकीर्तितः ॥ 72 ॥ ( कवचं ) ओं ह्रीं सरस्वत्यै स्वाहा शिरो मे पातु सर्वतः । श्रीं वाग्देवतायै स्वाहा भालं मे सर्वदाऽवतु ॥ 73 ॥ ओं ह्रीं सरस्वत्यै स्वाहेति श्रोत्रे पातु निरन्तरम् । ओं श्रीं ह्रीं भगवत्यै सरस्वत्यै स्वाहा नेत्रयुग्मं सदाऽवतु ॥ 74 ॥ ऐं ह्रीं वाग्वादिन्यै स्वाहा नासां मे सर्वदाऽवतु । ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा चोंष्ठ सदाऽवतु ॥ 75 ॥ ओं श्रीं ह्रीं ब्राह्म्यै स्वाहेति दन्तपङ्क्तिं सदाऽवतु । ऐमित्येकाक्षरो मन्त्रो मम कण्ठं सदाऽवतु ॥ 76 ॥ ओं श्रीं ह्रीं पातु मे ग्रीवां स्कन्धं मे श्रीं सदाऽवतु । ओं ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा वक्षः सदाऽवतु ॥ 77 ॥ ओं ह्रीं विद्यास्वरूपायै स्वाहा मे पातु नाभिकाम् । ओं ह्रीं क्लीं वाण्यै स्वाहेति मम पृष्ठं सदाऽवतु ॥ 78 ॥ ओं सर्ववर्णात्मिकायै पादयुग्मं सदाऽवतु । ओं रागाधिष्ठातृदेव्यै सर्वाङ्गं मे सदाऽवतु ॥ 79 ॥ ओं सर्वकण्ठवासिन्यै स्वाहा प्रच्यां सदाऽवतु । ओं ह्रीं जिह्वाग्रवासिन्यै स्वाहाऽग्निदिशि रक्षतु ॥ 80 ॥ ओं ऐं ह्रीं श्रीं सरस्वत्यै बुधजनन्यै स्वाहा । सततं मन्त्रराजोऽयं दक्षिणे मां सदाऽवतु ॥ 81 ॥ ओं ह्रीं श्रीं त्र्यक्षरो मन्त्रो नैरृत्यां मे सदाऽवतु । कविजिह्वाग्रवासिन्यै स्वाहा मां वारुणेऽवतु ॥ 82 ॥ ओं सदम्बिकायै स्वाहा वायव्ये मां सदाऽवतु । ओं गद्यपद्यवासिन्यै स्वाहा मामुत्तरेऽवतु ॥ 83 ॥ ओं सर्वशास्त्रवासिन्यै स्वाहैशान्यां सदाऽवतु । ओं ह्रीं सर्वपूजितायै स्वाहा चोर्ध्वं सदाऽवतु ॥ 84 ॥ ऐं ह्रीं पुस्तकवासिन्यै स्वाहाऽधो मां सदावतु । ओं ग्रन्थबीजरूपायै स्वाहा मां सर्वतोऽवतु ॥ 85 ॥ इति ते कथितं विप्र सर्वमन्त्रौघविग्रहम् । इदं विश्वजयं नाम कवचं ब्रह्मारूपकम् ॥ 86 ॥ पुरा श्रुतं धर्मवक्त्रात्पर्वते गन्धमादने । तव स्नेहान्मयाऽऽख्यातं प्रवक्तव्यं न कस्यचित् ॥ 87 ॥ गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः । प्रणम्य दण्डवद्भूमौ कवचं धारयेत्सुधीः ॥ 88 ॥ पञ्चलक्षजपेनैव सिद्धं तु कवचं भवेत् । यदि स्यात्सिद्धकवचो बृहस्पति समो भवेत् ॥ 89 ॥ महावाग्मी कवीन्द्रश्च त्रैलोक्यविजयी भवेत् । शक्नोति सर्वं जेतुं स कवचस्य प्रभावतः ॥ 90 ॥ इदं ते काण्वशाखोक्तं कथितं कवचं मुने । स्तोत्रं पूजाविधानं च ध्यानं वै वन्दनं तथा ॥ 91 ॥ इति श्री ब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे सरस्वतीकवचं नाम चतुर्थोऽध्यायः ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits