कवचं श्री राघवेन्द्रस्य यतीन्द्रस्य महात्मनः ।
वक्ष्यामि गुरुवर्यस्य वाञ्छितार्थप्रदायकम् ॥ 1 ॥
ऋषिरस्याप्पणाचार्यः छन्दोऽनुष्टुप् प्रकीर्तितम् ।
देवता श्रीराघवेन्द्र गुरुरिष्टार्थसिद्धये ॥ 2 ॥
अष्टोत्तरशतं जप्यं भक्तियुक्तेन चेतसा ।
उद्यत्प्रद्योतनद्योत धर्मकूर्मासने स्थितम् ॥ 3 ॥
खद्योखद्योतनद्योत धर्मकूर्मासने स्थितम् ।
धृतकाषायवसनं तुलसीहारवक्षसम् ॥ 4 ॥
दोर्दण्डविलसद्दण्ड कमण्डलविराजितम् ।
अभयज्ञानमुद्राऽक्षमालालोलकराम्बुजम् ॥ 5 ॥
योगीन्द्रवन्द्यपादाब्जं राघवेन्द्र गुरुं भजे ।
शिरो रक्षतु मे नित्यं राघवेन्द्रोऽखिलेष्टदः ॥ 6 ॥
पापाद्रिपाटने वज्रः केशान् रक्षतु मे सदा ।
क्षमासुरगणाधीशो मुखं रक्षतु मे गुरुः ॥ 7 ॥
हरिसेवालब्धसर्वसम्पत्फालं ममावतु ।
देवस्वभावोऽवतु मे दृशौ तत्त्वप्रदर्शकः ॥ 8 ॥
इष्टप्रदाने कल्पद्रुः श्रोत्रे श्रुत्यर्थबोधकः ।
भव्यस्वरूपो मे नासां जिह्वां मेऽवतु भव्यकृत् ॥ 9 ॥
आस्यं रक्षतु मे दुःखतूलसङ्घाग्निचर्यकः ।
सुखधैर्यादिसुगुणो भ्रुवौ मम सदाऽवतु ॥ 10 ॥
ओष्ठौ रक्षतु मे सर्वग्रहनिग्रहशक्तिमान् ।
उपप्लवोदधेस्सेतुर्दन्तान् रक्षतु मे सदा ॥ 11 ॥
निरस्तदोषो मे पातु कपोलौ सर्वपालकः ।
निरवद्यमहावेषः कण्ठं मेऽवतु सर्वदा ॥ 12 ॥
कर्णमूले तु प्रत्यर्थिमूकत्वाकरवाङ्मम ।
परवादिजये पातु हस्तौ सत्तत्त्ववादकृत् ॥ 13 ॥
करौ रक्षतु मे विद्वत्परिज्ञेयविशेषवान् ।
वाग्वैखरीभव्यशेषजयी वक्षस्थलं मम ॥ 14 ॥
सतीसन्तानसम्पत्तिभक्तिज्ञानादिवृद्धिकृत् ।
स्तनौ रक्षतु मे नित्यं शरीरावद्यहानिकृत् ॥ 15 ॥
पुण्यवर्धनपादाब्जाभिषेकजलसञ्चयः ।
नाभिं रक्षतु मे पार्श्वौ द्युनदीतुल्यसद्गुणः ॥ 16 ॥
पृष्ठं रक्षतु मे नित्यं तापत्रयविनाशकृत् ।
कटिं मे रक्षतु सदा वन्द्या सत्पुत्रदायकः ॥ 17 ॥
जघनं मेऽवतु सदा व्यङ्गस्वङ्गसमृद्धिकृत् ।
गुह्यं रक्षतु मे पापग्रहारिष्टविनाशकृत् ॥ 18 ॥
भक्ताघविध्वंसकरनिजमूर्तिप्रदर्शकः ।
मूर्तिमान्पातु मे रोमं राघवेन्द्रो जगद्गुरुः ॥ 19 ॥
सर्वतन्त्रस्वतन्त्रोऽसौ जानुनी मे सदाऽवतु ।
जङ्घे रक्षतु मे नित्यं श्रीमध्वमतवर्धनः ॥ 20 ॥
विजयीन्द्रकराब्जोत्थसुधीन्द्रवरपुत्रकः ।
गुल्फौ श्रीराघवेन्द्रो मे यतिराट् सर्वदाऽवतु ॥ । 21 ॥
पादौ रक्षतु मे सर्वभयहारी कृपानिधिः ।
ज्ञानभक्तिसुपुत्रायुर्यशः श्रीपुण्यवर्धनः ॥ 22 ॥
करपादाङ्गुलीः सर्वा ममावतु जगद्गुरुः ।
प्रतिवादिजयस्वान्तभेदचिह्नादरो गुरुः ॥ 23 ॥
नखानवतु मे सर्वान् सर्वशास्त्रविशारदः ।
अपरोक्षीकृतश्रीशः प्राच्यां दिशि सदाऽवतु ॥ 24 ॥
स दक्षिणे चाऽवतु मां समुपेक्षितभावजः ।
अपेक्षितप्रदाता च प्रतीच्यामवतु प्रभुः ॥ 25 ॥
दयादाक्षिण्यवैराग्यवाक्पाटवमुखाङ्कितः ।
सदोदीच्यामवतु मां शापानुग्रहशक्तिमान् ॥ 26 ॥
निखिलेन्द्रियदोषघ्नो महानुग्रहकृद्गुरुः ।
अधश्चोर्ध्वं चाऽवतु मामष्टाक्षरमनूदितम् ॥ 27 ॥
आत्मात्मीयाघराशिघ्नो मां रक्षतु विदिक्षु च ।
चतुर्णां च पुमर्थानां दाता प्रातः सदाऽवतु ॥ 28 ॥
सङ्ग्रामेऽवतु मां नित्यं तत्त्ववित्सर्वसौख्यकृत् ।
मध्याह्नेऽगम्यमहिमा मां रक्षतु महायशाः ॥ 29 ॥
मृतपोतप्राणदाता सायाह्ने मां सदाऽवतु ।
वेदिस्थपुरुषोज्जीवी निशीथे पातु मां गुरुः ॥ 30 ॥
वह्निस्थमालिकोद्धर्ता वह्नितापात्सदाऽवतु ।
समग्रटीकाव्याख्याता गुरुर्मे विषयेऽवतु ॥ 31 ॥
कान्तारेऽवतु मां नित्यं भाट्ट सङ्ग्रहकृद्गुरुः ।
सुधापरिमलोद्धर्ता स्वच्छन्दस्तु सदाऽवतु ॥ 32 ॥
राजचोरविषव्याधियादोवन्यमृगादिभिः ।
अपस्मारापहर्ता नः शास्त्रवित्सर्वदाऽवतु ॥ 33 ॥
गतौ सर्वत्र मां पातूपनिषदर्थकृद्गुरुः ।
ऋग्व्याख्यानकृदाचार्यः स्थितौ रक्षतु मां सदा ॥ 34 ॥
मन्त्रालयनिवासी मां जाग्रत्काले सदाऽवतु ।
न्यायमुक्तावलीकर्ता स्वप्ने रक्षतु मां सदा ॥ 35 ॥
मां पातु चन्द्रिकाव्याख्याकर्ता सुप्तौ हि तत्त्वकृत् ।
सुतन्त्रदीपिकाकर्ता मुक्तौ रक्षतु मां गुरुः ॥ 36 ॥
गीतार्थसङ्ग्रहकरः सदा रक्षतु मां गुरुः ।
श्रीमध्वमतदुग्धाब्धिचन्द्रोऽवतु सदाऽनघः ॥ 37 ॥
इति श्रीराघवेन्द्रस्य कवचं पापनाशनम् ।
सर्वव्याधिहरं सद्यः पावनं पुण्यवर्धनम् ॥ 38 ॥
य इदं पठते नित्यं नियमेन समाहितः ।
अदृष्टिः पूर्णदृष्टिः स्यादेडमूकोऽपि वाक्पतिः ॥ 39 ॥
पूर्णायुः पूर्णसम्पत्तिभक्तिज्ञानाभिवृद्धिकृत् ।
पीत्वा वारि नरो येन कवचेनाभिमन्त्रितम् ॥ 40 ॥
जहाति कुक्षिगान् रोगान् गुरुवर्यप्रसादतः ।
प्रदक्षिणनमस्कारान् गुरोर्वृन्दावनस्य यः ॥ 41 ॥
करोति परया भक्त्या तदेतत्कवचं पठन् ।
पङ्गुः कूणिश्च पौगण्डः पूर्णाङ्गो जायते ध्रुवम् ॥ 42 ॥
शेषाश्च कुष्ठपूर्वाश्च नश्यन्त्यामयराशयः ।
अष्टाक्षरेण मन्त्रेण स्तोत्रेण कवचेन च ॥ 43 ॥
वृन्दावने सन्निहितमभिषिच्य यथाविधि ।
यन्त्रे मन्त्राक्षराण्यष्टौ विलिख्यात्र प्रतिष्ठितम् ॥ 44 ॥
षोडशैरुपचारैश्च सम्पूज्य त्रिजगद्गुरुम् ।
अष्टोत्तरशताख्याभिरर्चयेत्कुसुमादिभिः ॥ 45 ॥
फलैश्च विविधैरेव गुरोरर्चां प्रकुर्वतः ।
नामश्रवणमात्रेण गुरुवर्यप्रसादतः ॥ 46 ॥
भूतप्रेतपिशाचाद्याः विद्रवन्ति दिशो दश ।
पठेदेतत्त्रिकं नित्यं गुरोर्वृन्दावनान्तिके ॥ 47 ॥
दीपं सम्योज्य विद्यावान् सभासु विजयी भवेत् ।
राजचोरमहाव्याघ्रसर्पनक्रादिपीडनात् ॥ 48 ॥
कवचस्य प्रभावेण भयं तस्य न जायते ।
सोमसूर्योपरागादिकाले वृन्दावनान्तिके ॥ 49 ॥
कवचादित्रिकं पुण्यमप्पणाचार्यदर्शितम् ।
जपेद्यः स धनं पुत्रान् भार्यां च सुमनोरमाम् ॥ 50 ॥
ज्ञानं भक्तिं च वैराग्यं भुक्तिं मुक्तिं च शाश्वतीम् ।
सम्प्राप्य मोदते नित्यं गुरुवर्यप्रसादतः ॥ 51 ॥
इति श्रीमदप्पणाचार्यविरचितं श्रीराघवेन्द्रकवचं सम्पूर्णम् ।