Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

राघवेन्द्र अष्टकम्

जय तुङ्गातटवसते वर मन्त्रालयमूर्ते कुरु करुणां मयि भीते परिमलततकीर्ते तव पादार्चनसक्ते तव नामामृतमत्ते दिशदिव्यां दृशमूर्ते तव सन्तत भक्ते कृतगीतासुविवृत्ते कविजनसंस्तुतवृत्ते कुरु वसतिं मम चित्ते परिवृत भक्तार्ते योगीन्द्रार्चितपादे योगिजनार्पितमोदे तिम्मण्णान्वयचन्द्रे रमतां मम हृदयम् तप्तसुकाञ्चनसदृशे दण्डकमण्डलहस्ते जपमालावरभूषे रमतां मम हृदयम् श्रीरामार्पितचित्ते काषायाम्बरयुक्ते श्रीतुलसीमणिमाले रमतां मम हृदयम् मध्वमुनीडिततत्त्वं व्याख्यान्तं परिवारे ईडेहं सततं मे सङ्कटपरिहारम् वैणिकवंशोत्तंसं वरविद्वन्मणिमान्यम् वरदाने कल्पतरुं वन्दे गुरुराजम् सुशमीन्द्रार्यकुमारै-र्विद्येन्द्रैर्गुरुभक्त्या रचिता श्रीगुरुगाथा सज्जनमोदकरी इति श्री सुविद्येन्द्रतीर्थ विरचित श्री राघवेन्द्र अष्टकम्

Recite with devotion and pure heart

Regular practice brings spiritual benefits