हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
रुचि कृतम् पितृ स्तोत्रम् – 2
रुचिरुवाच
।
अर्चितानाममूर्तानां
पितॄणां
दीप्ततेजसाम्
।
नमस्यामि
सदा
तेषां
ध्यानिनां
दिव्यचक्षुषाम्
॥
1
॥
इन्द्रादीनां
च
नेतारो
दक्षमारीचयोस्तथा
।
सप्तर्षीणां
तथान्येषां
तान्नमस्यामि
कामदान्
॥
2
॥
मन्वादीनां
च
नेतारः
सूर्याचन्द्रमसोस्तथा
।
तान्नमस्याम्यहं
सर्वान्
पितॄनप्युदधावपि
॥
3
॥
नक्षत्राणां
ग्रहाणां
च
वाय्वग्न्योर्नभसस्तथा
।
द्यावापृथिव्योश्च
तथा
नमस्यामि
कृताञ्जलिः
॥
4
॥
देवर्षीणां
जनितॄंश्च
सर्वलोक
नमस्कृतान्
।
अक्षय्यस्य
सदा
दातॄन्
नमस्येहं
कृताञ्जलिः
॥
5
॥
प्रजापतेः
कश्यपाय
सोमाय
वरुणाय
च
।
योगेश्वरेभ्यश्च
सदा
नमस्यामि
कृताञ्जलिः
॥
6
॥
नमो
गणेभ्यः
सप्तभ्यस्तथा
लोकेषु
सप्तसु
।
स्वयम्भुवे
नमस्यामि
ब्रह्मणे
योगचक्षुषे
॥
7
॥
सोमाधारान्
पितृगणान्
योगमूर्तिधरांस्तथा
।
नमस्यामि
तथा
सोमं
पितरं
जगतामहम्
॥
8
॥
अग्निरूपांस्तथैवान्यान्
नमस्यामि
पितॄनहम्
।
अग्निसोममयं
विश्वं
यत
एतदशेषतः
॥
9
॥
ये
च
तेजसि
ये
चैते
सोमसूर्याग्निमूर्तयः
।
जगत्स्वरूपिणश्चैव
तथा
ब्रह्मस्वरूपिणः
॥
10
॥
तेभ्योऽखिलेभ्यो
योगिभ्यः
पितृभ्यो
यतमानसः
।
नमो
नमो
नमस्तेऽस्तु
प्रसीदन्तु
स्वधाभुजः
॥
11
॥
इति
श्री
गरुडपुराणे
ऊननवतितमोऽध्याये
रुचिकृत
द्वितीय
पितृ
स्तोत्रम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits