हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
रुचि कृतम् पितृ स्तोत्रम् – 1
रुचिरुवाच
।
नमस्येऽहं
पितॄन्
भक्त्या
ये
वसन्त्यधिदेवताः
।
देवैरपि
हि
तर्प्यन्ते
ये
श्राद्धेषु
स्वधोत्तरैः
॥
1
॥
नमस्येऽहं
पितॄन्
स्वर्गे
ये
तर्प्यन्ते
महर्षिभिः
।
श्राद्धैर्मनोमयैर्भक्त्या
भुक्तिमुक्तिमभीप्सुभिः
॥
2
॥
नमस्येऽहं
पितॄन्
स्वर्गे
सिद्धाः
सन्तर्पयन्ति
यान्
।
श्राद्धेषु
दिव्यैः
सकलैरुपहारैरनुत्तमैः
॥
3
॥
नमस्येऽहं
पितॄन्
भक्त्या
येऽर्च्यन्ते
गुह्यकैर्दिवि
।
तन्मयत्वेन
वाञ्छद्भिरृद्धिर्यात्यन्तिकीं
पराम्
॥
4
॥
नमस्येऽहं
पितॄन्
मर्त्यैरर्च्यन्ते
भुवि
ये
सदा
।
श्राद्धेषु
श्रद्धयाभीष्टलोकपुष्टिप्रदायिनः
॥
5
॥
नमस्येऽहं
पितॄन्
विप्रैरर्च्यन्ते
भुवि
ये
सदा
।
वाञ्छिताभीष्टलाभाय
प्राजापत्यप्रदायिनः
॥
6
॥
नमस्येऽहं
पितॄन्
ये
वै
तर्प्यन्तेऽरण्यवासिभिः
।
वन्यैः
श्राद्धैर्यताहारैस्तपोनिर्धूतकल्मषैः
॥
7
॥
नमस्येऽहं
पितॄन्
विप्रैर्नैष्ठिकैर्धर्मचारिभिः
।
ये
सम्यतात्मभिर्नित्यं
सन्तर्प्यन्ते
समाधिभिः
॥
8
॥
नमस्येऽहं
पितॄन्
श्राद्धै
राजन्यास्तर्पयन्ति
यान्
।
कव्यैरशेषैर्विधिवल्लोकद्वयफलप्रदान्
॥
9
॥
नमस्येऽहं
पितॄन्
वैश्यैरर्च्यन्ते
भुवि
ये
सदा
।
स्वकर्माभिरतैर्नित्यं
पुष्पधूपान्नवारिभिः
॥
10
॥
नमस्येऽहं
पितॄन्
श्राद्धे
शूद्रैरपि
च
भक्तितः
।
सन्तर्प्यन्ते
जगत्कृत्स्नं
नाम्ना
ख्याताः
सुकालिनः
॥
11
॥
नमस्येऽहं
पितॄन्
श्राद्धे
पाताले
ये
महासुरैः
।
सन्तर्प्यन्ते
सुधाहारास्त्यक्तदम्भमदैः
सदा
॥
12
॥
नमस्येऽहं
पितॄन्
श्राद्धैरर्च्यन्ते
ये
रसातले
।
भोगैरशेषैर्विधिवन्नागैः
कामानभीप्सुभिः
॥
13
॥
नमस्येऽहं
पितॄन्
श्राद्धैः
सर्पैः
सन्तर्पितान्सदा
।
तत्रैव
विधिवन्मन्त्रभोगसम्पत्समन्वितैः
॥
14
॥
पितॄन्नमस्ये
निवसन्ति
साक्षा-
-द्ये
देवलोकेऽथ
महीतले
वा
।
तथाऽन्तरिक्षे
च
सुरारिपूज्या-
-स्ते
मे
प्रतीच्छन्तु
मनोपनीतम्
॥
15
॥
पितॄन्नमस्ये
परमार्थभूता
ये
वै
विमाने
निवसन्त्यमूर्ताः
।
यजन्ति
यानस्तमलैर्मनोभि-
-र्योगीश्वराः
क्लेशविमुक्तिहेतून्
॥
16
॥
पितॄन्नमस्ये
दिवि
ये
च
मूर्ताः
स्वधाभुजः
काम्यफलाभिसन्धौ
।
प्रदानशक्ताः
सकलेप्सितानां
विमुक्तिदा
येऽनभिसंहितेषु
॥
17
॥
तृप्यन्तु
तेऽस्मिन्पितरः
समस्ता
इच्छावतां
ये
प्रदिशन्ति
कामान्
।
सुरत्वमिन्द्रत्वमितोऽधिकं
वा
गजाश्वरत्नानि
महागृहाणि
॥
18
॥
सोमस्य
ये
रश्मिषु
येऽर्कबिम्बे
शुक्ले
विमाने
च
सदा
वसन्ति
।
तृप्यन्तु
तेऽस्मिन्पितरोऽन्नतोयै-
-र्गन्धादिना
पुष्टिमितो
व्रजन्तु
॥
19
॥
येषां
हुतेऽग्नौ
हविषा
च
तृप्ति-
-र्ये
भुञ्जते
विप्रशरीरसंस्थाः
।
ये
पिण्डदानेन
मुदं
प्रयान्ति
तृप्यन्तु
तेऽस्मिन्पितरोऽन्नतोयैः
॥
20
॥
ये
खड्गमांसेन
सुरैरभीष्टैः
कृष्णैस्तिलैर्दिव्य
मनोहरैश्च
।
कालेन
शाकेन
महर्षिवर्यैः
सम्प्रीणितास्ते
मुदमत्र
यान्तु
॥
21
॥
कव्यान्यशेषाणि
च
यान्यभीष्टा-
-न्यतीव
तेषां
मम
पूजितानाम्
।
तेषाञ्च
सान्निध्यमिहास्तु
पुष्प-
-गन्धाम्बुभोज्येषु
मया
कृतेषु
॥
22
॥
दिने
दिने
ये
प्रतिगृह्णतेऽर्चां
मासान्तपूज्या
भुवि
येऽष्टकासु
।
ये
वत्सरान्तेऽभ्युदये
च
पूज्याः
प्रयान्तु
ते
मे
पितरोऽत्र
तुष्टिम्
॥
23
॥
पूज्या
द्विजानां
कुमुदेन्दुभासो
ये
क्षत्रियाणां
ज्वलनार्कवर्णाः
।
तथा
विशां
ये
कनकावदाता
नीलीप्रभाः
शूद्रजनस्य
ये
च
॥
24
॥
तेऽस्मिन्समस्ता
मम
पुष्पगन्ध-
-धूपाम्बुभोज्यादिनिवेदनेन
।
तथाऽग्निहोमेन
च
यान्ति
तृप्तिं
सदा
पितृभ्यः
प्रणतोऽस्मि
तेभ्यः
॥
25
॥
ये
देवपूर्वाण्यभितृप्तिहेतो-
-रश्नन्ति
कव्यानि
शुभाहृतानि
।
तृप्ताश्च
ये
भूतिसृजो
भवन्ति
तृप्यन्तु
तेऽस्मिन्प्रणतोऽस्मि
तेभ्यः
॥
26
॥
रक्षांसि
भूतान्यसुरांस्तथोग्रा-
-न्निर्नाशयन्तु
त्वशिवं
प्रजानाम्
।
आद्याः
सुराणाममरेशपूज्या-
-स्तृप्यन्तु
तेऽस्मिन्प्रणतोऽस्मितेभ्यः
॥
27
॥
अग्निस्वात्ता
बर्हिषद
आज्यपाः
सोमपास्तथा
।
व्रजन्तु
तृप्तिं
श्राद्धेऽस्मिन्पितरस्तर्पिता
मया
॥
28
॥
अग्निस्वात्ताः
पितृगणाः
प्राचीं
रक्षन्तु
मे
दिशम्
।
तथा
बर्हिषदः
पान्तु
याम्यां
मे
पितरः
सदा
।
प्रतीचीमाज्यपास्तद्वदुदीचीमपि
सोमपाः
॥
29
॥
रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः
।
सर्वतः
पितरो
रक्षां
कुर्वन्तु
मम
नित्यशः
॥
30
॥
विश्वो
विश्वभुगाराध्यो
धर्मो
धन्यः
शुभाननः
।
भूतिदो
भूतिकृद्भूतिः
पितॄणां
ये
गणा
नव
॥
31
॥
कल्याणः
कल्यदः
कर्ता
कल्यः
कल्यतराश्रयः
।
कल्यताहेतुरनघः
षडिमे
ते
गणाः
स्मृताः
॥
32
॥
वरो
वरेण्यो
वरदस्तुष्टिदः
पुष्टिदस्तथा
।
विश्वपाता
तथा
धाता
सप्तैते
च
गणाः
स्मृताः
॥
33
॥
महान्महात्मा
महितो
महिमावान्महाबलः
।
गणाः
पञ्च
तथैवैते
पितॄणां
पापनाशनाः
॥
34
॥
सुखदो
धनदश्चान्यो
धर्मदोऽन्यश्च
भूतिदः
।
पितॄणां
कथ्यते
चैव
तथा
गणचतुष्टयम्
॥
35
॥
एकत्रिंशत्पितृगणा
यैर्व्याप्तमखिलं
जगत्
।
त
एवात्र
पितृगणास्तुष्यन्तु
च
मदाहितम्
॥
36
॥
इति
श्री
गरुडपुराणे
ऊननवतितमोऽध्याये
रुचिकृत
पितृ
स्तोत्रम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits