ब्रह्मोवाच ।
नमः पित्रे जन्मदात्रे सर्वदेवमयाय च ।
सुखदाय प्रसन्नाय सुप्रीताय महात्मने ॥ 1 ॥
सर्वयज्ञस्वरूपाय स्वर्गाय परमेष्ठिने ।
सर्वतीर्थावलोकाय करुणासागराय च ॥ 2 ॥
नमः सदाऽऽशुतोषाय शिवरूपाय ते नमः ।
सदाऽपराधक्षमिणे सुखाय सुखदाय च ॥ 3 ॥
दुर्लभं मानुषमिदं येन लब्धं मया वपुः ।
सम्भावनीयं धर्मार्थे तस्मै पित्रे नमो नमः ॥ 4 ॥
तीर्थस्नानतपोहोमजपादीन् यस्य दर्शनम् ।
महागुरोश्च गुरवे तस्मै पित्रे नमो नमः ॥ 5 ॥
यस्य प्रणाम स्तवनात् कोटिशः पितृतर्पणम् ।
अश्वमेधशतैस्तुल्यं तस्मै पित्रे नमो नमः ॥ 6 ॥
इदं स्तोत्रं पितृः पुण्यं यः पठेत् प्रयतो नरः ।
प्रत्यहं प्रातरुत्थाय पितृश्राद्धदिनेऽपि च ॥ 7 ॥
स्वजन्मदिवसे साक्षात् पितुरग्रे स्थितोऽपि वा ।
न तस्य दुर्लभं किञ्चित् सर्वज्ञत्वादि वाञ्छितम् ॥ 8 ॥
नानापकर्म कृत्वाऽपि यः स्तौति पितरं सुतः ।
स धृवं प्रविधायैव प्रायश्चित्तं सुखी भवेत् ।
पितृप्रीतिकरैर्नित्यं सर्वकर्माण्यथार्हति ॥ 9 ॥
इति बृहद्धर्मपुराणान्तर्गत ब्रह्मकृत पितृ स्तोत्रम् ।