Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

शुक्र अष्टोत्तर शत नामावलिः

ओं शुक्राय नमः । ओं शुचये नमः । ओं शुभगुणाय नमः । ओं शुभदाय नमः । ओं शुभलक्षणाय नमः । ओं शोभनाक्षाय नमः । ओं शुभ्ररूपाय नमः । ओं शुद्धस्फटिकभास्वराय नमः । ओं दीनार्तिहरकाय नमः । ओं दैत्यगुरवे नमः । 10 ओं देवाभिवन्दिताय नमः । ओं काव्यासक्ताय नमः । ओं कामपालाय नमः । ओं कवये नमः । ओं कल्याणदायकाय नमः । ओं भद्रमूर्तये नमः । ओं भद्रगुणाय नमः । ओं भार्गवाय नमः । ओं भक्तपालनाय नमः । ओं भोगदाय नमः । 20 ओं भुवनाध्यक्षाय नमः । ओं भुक्तिमुक्तिफलप्रदाय नमः । ओं चारुशीलाय नमः । ओं चारुरूपाय नमः । ओं चारुचन्द्रनिभाननाय नमः । ओं निधये नमः । ओं निखिलशास्त्रज्ञाय नमः । ओं नीतिविद्याधुरन्धराय नमः । ओं सर्वलक्षणसम्पन्नाय नमः । ओं सर्वावगुणवर्जिताय नमः । 30 ओं समानाधिकनिर्मुक्ताय नमः । ओं सकलागमपारगाय नमः । ओं भृगवे नमः । ओं भोगकराय नमः । ओं भूमिसुरपालनतत्पराय नमः । ओं मनस्विने नमः । ओं मानदाय नमः । ओं मान्याय नमः । ओं मायातीताय नमः । ओं महाशयाय नमः । 40 ओं बलिप्रसन्नाय नमः । ओं अभयदाय नमः । ओं बलिने नमः । ओं बलपराक्रमाय नमः । ओं भवपाशपरित्यागाय नमः । ओं बलिबन्धविमोचकाय नमः । ओं घनाशयाय नमः । ओं घनाध्यक्षाय नमः । ओं कम्बुग्रीवाय नमः । ओं कलाधराय नमः । 50 ओं कारुण्यरससम्पूर्णाय नमः । ओं कल्याणगुणवर्धनाय नमः । ओं श्वेताम्बराय नमः । ओं श्वेतवपुषे नमः । ओं चतुर्भुजसमन्विताय नमः । ओं अक्षमालाधराय नमः । ओं अचिन्त्याय नमः । ओं अक्षीणगुणभासुराय नमः । ओं नक्षत्रगणसञ्चाराय नमः । ओं नयदाय नमः । 60 ओं नीतिमार्गदाय नमः । ओं वर्षप्रदाय नमः । ओं हृषीकेशाय नमः । ओं क्लेशनाशकराय नमः । ओं कवये नमः । ओं चिन्तितार्थप्रदाय नमः । ओं शान्तमतये नमः । ओं चित्तसमाधिकृते नमः । ओं आधिव्याधिहराय नमः । ओं भूरिविक्रमाय नमः । 70 ओं पुण्यदायकाय नमः । ओं पुराणपुरुषाय नमः । ओं पूज्याय नमः । ओं पुरुहूतादिसन्नुताय नमः । ओं अजेयाय नमः । ओं विजितारातये नमः । ओं विविधाभरणोज्ज्वलाय नमः । ओं कुन्दपुष्पप्रतीकाशाय नमः । ओं मन्दहासाय नमः । ओं महामतये नमः । 80 ओं मुक्ताफलसमानाभाय नमः । ओं मुक्तिदाय नमः । ओं मुनिसन्नुताय नमः । ओं रत्नसिंहासनारूढाय नमः । ओं रथस्थाय नमः । ओं रजतप्रभाय नमः । ओं सूर्यप्राग्देशसञ्चाराय नमः । ओं सुरशत्रुसुहृदे नमः । ओं कवये नमः । ओं तुलावृषभराशीशाय नमः । 90 ओं दुर्धराय नमः । ओं धर्मपालकाय नमः । ओं भाग्यदाय नमः । ओं भव्यचारित्राय नमः । ओं भवपाशविमोचकाय नमः । ओं गौडदेशेश्वराय नमः । ओं गोप्त्रे नमः । ओं गुणिने नमः । ओं गुणविभूषणाय नमः । ओं ज्येष्ठानक्षत्रसम्भूताय नमः । 100 ओं ज्येष्ठाय नमः । ओं श्रेष्ठाय नमः । ओं शुचिस्मिताय नमः । ओं अपवर्गप्रदाय नमः । ओं अनन्ताय नमः । ओं सन्तानफलदायकाय नमः । ओं सर्वैश्वर्यप्रदाय नमः । ओं सर्वगीर्वाणगणसन्नुताय नमः । 108

Recite with devotion and pure heart

Regular practice brings spiritual benefits