Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

रवि ग्रह पञ्चरत्न स्तोत्रम्

जपाकुसुम सङ्काशं काश्यपेयं महाद्युतिम् तमोरिं सर्वपापघ्नं प्रणतोस्मिदिवाकरम् 1 सूर्यो अर्यमा भगस्त्वष्टा पूषार्कस्सरितारविः गभस्ति मानजः कालो मृत्युर्दाता प्रभाकरः 2 भूताश्रयो भूतपतिः सर्वलोक नमस्कृतः स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः 3 ब्रह्म स्वरूप उदये मध्याह्नेतु महेश्वरः अस्तकाले स्वयं विष्णुं त्रयीमूर्ती दिवाकरः 4 सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् 5 ओं ग्रहराजाय विद्महे कालाधिपाय धीमहि तन्नो रविः प्रचोदयात्

Recite with devotion and pure heart

Regular practice brings spiritual benefits