हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
बुध कवचम्
अस्य
श्रीबुधकवचस्तोत्रमन्त्रस्य,
कश्यप
ऋषिः,
अनुष्टुप्
छन्दः,
बुधो
देवता,
बुधप्रीत्यर्थं
जपे
विनियोगः
।
अथ
बुध
कवचम्
–
बुधस्तु
पुस्तकधरः
कुङ्कुमस्य
समद्युतिः
।
पीताम्बरधरः
पातु
पीतमाल्यानुलेपनः
॥
1
॥
कटिं
च
पातु
मे
सौम्यः
शिरोदेशं
बुधस्तथा
।
नेत्रे
ज्ञानमयः
पातु
श्रोत्रे
पातु
निशाप्रियः
॥
2
॥
घ्राणं
गन्धप्रियः
पातु
जिह्वां
विद्याप्रदो
मम
।
कण्ठं
पातु
विधोः
पुत्रो
भुजौ
पुस्तकभूषणः
॥
3
॥
वक्षः
पातु
वराङ्गश्च
हृदयं
रोहिणीसुतः
।
नाभिं
पातु
सुराराध्यो
मध्यं
पातु
खगेश्वरः
॥
4
॥
जानुनी
रौहिणेयश्च
पातु
जङ्घे??उखिलप्रदः
।
पादौ
मे
बोधनः
पातु
पातु
सौम्यो??उखिलं
वपुः
॥
5
॥
अथ
फलश्रुतिः
–
एतद्धि
कवचं
दिव्यं
सर्वपापप्रणाशनम्
।
सर्वरोगप्रशमनं
सर्वदुःखनिवारणम्
॥
6
॥
आयुरारोग्यशुभदं
पुत्रपौत्रप्रवर्धनम्
।
यः
पठेच्छृणुयाद्वापि
सर्वत्र
विजयी
भवेत्
॥
7
॥ ॥
इति
श्रीब्रह्मवैवर्तपुराणे
बुधकवचं
सम्पूर्णम्
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits