Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

पद्मावती स्तोत्रं

विष्णुपत्नि जगन्मातः विष्णुवक्षस्थलस्थिते पद्मासने पद्महस्ते पद्मावति नमोऽस्तु ते 1 वेंकटेशप्रिये पूज्ये क्षीराब्दितनये शुभे पद्मेरमे लोकमातः पद्मावति नमोऽस्तु ते 2 कल्याणी कमले कांते कल्याणपुरनायिके कारुण्यकल्पलतिके पद्मावति नमोऽस्तु ते 3 सहस्रदलपद्मस्थे कोटिचंद्रनिभानने पद्मपत्रविशालाक्षी पद्मावति नमोऽस्तु ते 4 सर्वज्ञे सर्ववरदे सर्वमंगलदायिनी सर्वसम्मानिते देवी पद्मावति नमोऽस्तु ते 5 सर्वहृद्दहरावासे सर्वपापभयापहे अष्टैश्वर्यप्रदे लक्ष्मी पद्मावति नमोऽस्तु ते 6 देहि मे मोक्षसाम्राज्यं देहि त्वत्पाददर्शनम् अष्टैश्वर्यं मे देहि पद्मावति नमोऽस्तु ते 7 नक्रश्रवणनक्षत्रे कृतोद्वाहमहोत्सवे कृपया पाहि नः पद्मे त्वद्भक्तिभरितान् रमे 8 इंदिरे हेमवर्णाभे त्वां वंदे परमात्मिकाम् भवसागरमग्नं मां रक्ष रक्ष महेश्वरी 9 कल्याणपुरवासिन्यै नारायण्यै श्रियै नमः शृतिस्तुतिप्रगीतायै देवदेव्यै मंगलम् 10

Recite with devotion and pure heart

Regular practice brings spiritual benefits