हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
महा लक्ष्म्यष्टकम्
इन्द्र
उवाच
-
नमस्तेऽस्तु
महामाये
श्रीपीठे
सुरपूजिते
।
शङ्खचक्र
गदाहस्ते
महालक्ष्मि
नमोऽस्तु
ते
॥
1
॥
नमस्ते
गरुडारूढे
कोलासुर
भयङ्करि
।
सर्वपापहरे
देवि
महालक्ष्मि
नमोऽस्तु
ते
॥
2
॥
सर्वज्ञे
सर्ववरदे
सर्व
दुष्ट
भयङ्करि
।
सर्वदुःख
हरे
देवि
महालक्ष्मि
नमोऽस्तु
ते
॥
3
॥
सिद्धि
बुद्धि
प्रदे
देवि
भुक्ति
मुक्ति
प्रदायिनि
।
मन्त्र
मूर्ते
सदा
देवि
महालक्ष्मि
नमोऽस्तु
ते
॥
4
॥
आद्यन्त
रहिते
देवि
आदिशक्ति
महेश्वरि
।
योगज्ञे
योग
सम्भूते
महालक्ष्मि
नमोऽस्तु
ते
॥
5
॥
स्थूल
सूक्ष्म
महारौद्रे
महाशक्ति
महोदरे
।
महा
पाप
हरे
देवि
महालक्ष्मि
नमोऽस्तु
ते
॥
6
॥
पद्मासन
स्थिते
देवि
परब्रह्म
स्वरूपिणि
।
परमेशि
जगन्मातः
महालक्ष्मि
नमोऽस्तु
ते
॥
7
॥
श्वेताम्बरधरे
देवि
नानालङ्कार
भूषिते
।
जगस्थिते
जगन्मातः
महालक्ष्मि
नमोऽस्तु
ते
॥
8
॥
महालक्ष्मष्टकं
स्तोत्रं
यः
पठेद्
भक्तिमान्
नरः
।
सर्व
सिद्धि
मवाप्नोति
राज्यं
प्राप्नोति
सर्वदा
॥
एककाले
पठेन्नित्यं
महापाप
विनाशनम्
।
द्विकालं
यः
पठेन्नित्यं
धन
धान्य
समन्वितः
॥
त्रिकालं
यः
पठेन्नित्यं
महाशत्रु
विनाशनम्
।
महालक्ष्मी
र्भवेन्-नित्यं
प्रसन्ना
वरदा
शुभा
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits