Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

लक्ष्मी सहस्रनाम स्तोत्रं

नाम्नां साष्टसहस्रञ्च ब्रूहि गार्ग्य महामते । महालक्ष्म्या महादेव्या भुक्तिमुक्त्यर्थसिद्धये ॥ 1 ॥ गार्ग्य उवाच – सनत्कुमारमासीनं द्वादशादित्यसन्निभम् । अपृच्छन्योगिनो भक्त्या योगिनामर्थसिद्धये ॥ 2 ॥ सर्वलौकिककर्मभ्यो विमुक्तानां हिताय वै । भुक्तिमुक्तिप्रदं जप्यमनुब्रूहि दयानिधे ॥ 3 ॥ सनत्कुमार भगवन्सर्वज्ञोऽसि विशेषतः । आस्तिक्यसिद्धये नॄणां क्षिप्रधर्मार्थसाधनम् ॥ 4 ॥ खिद्यन्ति मानवास्सर्वे धनाभावेन केवलम् । सिद्ध्यन्ति धनिनोऽन्यस्य नैव धर्मार्थकामनाः ॥ 5 ॥ दारिद्र्यध्वंसिनी नाम केन विद्या प्रकीर्तिता । केन वा ब्रह्मविद्याऽपि केन मृत्युविनाशिनी ॥ 6 ॥ सर्वासां सारभूतैका विद्यानां केन कीर्तिता । प्रत्यक्षसिद्धिदा ब्रह्मन् तामाचक्ष्व दयानिधे ॥ 7 ॥ सनत्कुमार उवाच – साधु पृष्टं महाभागास्सर्वलोकहितैषिणः । महतामेष धर्मश्च नान्येषामिति मे मतिः ॥ 8 ॥ ब्रह्मविष्णुमहादेवमहेन्द्रादिमहात्मभिः । सम्प्रोक्तं कथयाम्यद्य लक्ष्मीनामसहस्रकम् ॥ 9 ॥ यस्योच्चारणमात्रेण दारिद्र्यान्मुच्यते नरः । किं पुनस्तज्जपाज्जापी सर्वेष्टार्थानवाप्नुयात् ॥ 10 ॥ अस्य श्रीलक्ष्मीदिव्यसहस्रनामस्तोत्रमहामन्त्रस्य आनन्दकर्दमचिक्लीतेन्दिरासुतादयो महात्मानो महर्षयः अनुष्टुप्छन्दः विष्णुमाया शक्तिः महालक्ष्मीः परादेवता श्रीमहालक्ष्मीप्रसादद्वारा सर्वेष्टार्थसिद्ध्यर्थे जपे विनियोगः । ध्यानम् – पद्मनाभप्रियां देवीं पद्माक्षीं पद्मवासिनीम् । पद्मवक्त्रां पद्महस्तां वन्दे पद्मामहर्निशम् ॥ 1 ॥ पूर्णेन्दुवदनां दिव्यरत्नाभरणभूषिताम् । वरदाभयहस्ताढ्यां ध्यायेच्चन्द्रसहोदरीम् ॥ 2 ॥ इच्छारूपां भगवतस्सच्चिदानन्दरूपिणीम् । सर्वज्ञां सर्वजननीं विष्णुवक्षस्स्थलालयाम् । दयालुमनिशं ध्यायेत्सुखसिद्धिस्वरूपिणीम् ॥ 3 ॥ स्तोत्रम् – नित्यागतानन्तनित्या नन्दिनी जनरञ्जनी । नित्यप्रकाशिनी चैव स्वप्रकाशस्वरूपिणी ॥ 1 ॥ महालक्ष्मीर्महाकाली महाकन्या सरस्वती । भोगवैभवसन्धात्री भक्तानुग्रहकारिणी ॥ 2 ॥ ईशावास्या महामाया महादेवी महेश्वरी । हृल्लेखा परमा शक्तिर्मातृकाबीजरूपिणी ॥ 3 ॥ नित्यानन्दा नित्यबोधा नादिनी जनमोदिनी । सत्यप्रत्ययनी चैव स्वप्रकाशात्मरूपिणी ॥ 4 ॥ त्रिपुरा भैरवी विद्या हंसा वागीश्वरी शिवा । वाग्देवी च महारात्रिः कालरात्रिस्त्रिलोचना ॥ 5 ॥ भद्रकाली कराली च महाकाली तिलोत्तमा । काली करालवक्त्रान्ता कामाक्षी कामदा शुभा ॥ 6 ॥ चण्डिका चण्डरूपेशा चामुण्डा चक्रधारिणी । त्रैलोक्यजयिनी देवी त्रैलोक्यविजयोत्तमा ॥ 7 ॥ सिद्धलक्ष्मीः क्रियालक्ष्मीर्मोक्षलक्ष्मीः प्रसादिनी । उमा भगवती दुर्गा चान्द्री दाक्षायणी शिवा ॥ 8 ॥ प्रत्यङ्गिरा धरावेला लोकमाता हरिप्रिया । पार्वती परमा देवी ब्रह्मविद्याप्रदायिनी ॥ 9 ॥ अरूपा बहुरूपा च विरूपा विश्वरूपिणी । पञ्चभूतात्मिका वाणी पञ्चभूतात्मिका परा ॥ 10 ॥ काली मा पञ्चिका वाग्मी हविःप्रत्यधिदेवता । देवमाता सुरेशाना देवगर्भाऽम्बिका धृतिः ॥ 11 ॥ सङ्ख्या जातिः क्रियाशक्तिः प्रकृतिर्मोहिनी मही । यज्ञविद्या महाविद्या गुह्यविद्या विभावरी ॥ 12 ॥ ज्योतिष्मती महामाता सर्वमन्त्रफलप्रदा । दारिद्र्यध्वंसिनी देवी हृदयग्रन्थिभेदिनी ॥ 13 ॥ सहस्रादित्यसङ्काशा चन्द्रिका चन्द्ररूपिणी । गायत्री सोमसम्भूतिस्सावित्री प्रणवात्मिका ॥ 14 ॥ शाङ्करी वैष्णवी ब्राह्मी सर्वदेवनमस्कृता । सेव्यदुर्गा कुबेराक्षी करवीरनिवासिनी ॥ 15 ॥ जया च विजया चैव जयन्ती चाऽपराजिता । कुब्जिका कालिका शास्त्री वीणापुस्तकधारिणी ॥ 16 ॥ सर्वज्ञशक्तिश्श्रीशक्तिर्ब्रह्मविष्णुशिवात्मिका । इडापिङ्गलिकामध्यमृणालीतन्तुरूपिणी ॥ 17 ॥ यज्ञेशानी प्रथा दीक्षा दक्षिणा सर्वमोहिनी । अष्टाङ्गयोगिनी देवी निर्बीजध्यानगोचरा ॥ 18 ॥ सर्वतीर्थस्थिता शुद्धा सर्वपर्वतवासिनी । वेदशास्त्रप्रभा देवी षडङ्गादिपदक्रमा ॥ 19 ॥ शिवा धात्री शुभानन्दा यज्ञकर्मस्वरूपिणी । व्रतिनी मेनका देवी ब्रह्माणी ब्रह्मचारिणी ॥ 20 ॥ एकाक्षरपरा तारा भवबन्धविनाशिनी । विश्वम्भरा धराधारा निराधाराऽधिकस्वरा ॥ 21 ॥ राका कुहूरमावास्या पूर्णिमाऽनुमतिर्द्युतिः । सिनीवाली शिवाऽवश्या वैश्वदेवी पिशङ्गिला ॥ 22 ॥ पिप्पला च विशालाक्षी रक्षोघ्नी वृष्टिकारिणी । दुष्टविद्राविणी देवी सर्वोपद्रवनाशिनी ॥ 23 ॥ शारदा शरसन्धाना सर्वशस्त्रस्वरूपिणी । युद्धमध्यस्थिता देवी सर्वभूतप्रभञ्जनी ॥ 24 ॥ अयुद्धा युद्धरूपा च शान्ता शान्तिस्वरूपिणी । गङ्गा सरस्वतीवेणीयमुनानर्मदापगा ॥ 25 ॥ समुद्रवसनावासा ब्रह्माण्डश्रोणिमेखला । पञ्चवक्त्रा दशभुजा शुद्धस्फटिकसन्निभा ॥ 26 ॥ रक्ता कृष्णा सिता पीता सर्ववर्णा निरीश्वरी । कालिका चक्रिका देवी सत्या तु वटुकास्थिता ॥ 27 ॥ तरुणी वारुणी नारी ज्येष्ठादेवी सुरेश्वरी । विश्वम्भराधरा कर्त्री गलार्गलविभञ्जनी ॥ 28 ॥ सन्ध्यारात्रिर्दिवाज्योत्स्ना कलाकाष्ठा निमेषिका । उर्वी कात्यायनी शुभ्रा संसारार्णवतारिणी ॥ 29 ॥ कपिला कीलिकाऽशोका मल्लिकानवमल्लिका । देविका नन्दिका शान्ता भञ्जिका भयभञ्जिका ॥ 30 ॥ कौशिकी वैदिकी देवी सौरी रूपाधिकाऽतिभा । दिग्वस्त्रा नववस्त्रा च कन्यका कमलोद्भवा ॥ 31 ॥ श्रीस्सौम्यलक्षणाऽतीतदुर्गा सूत्रप्रबोधिका । श्रद्धा मेधा कृतिः प्रज्ञा धारणा कान्तिरेव च ॥ 32 ॥ श्रुतिः स्मृतिर्धृतिर्धन्या भूतिरिष्टिर्मनीषिणी । विरक्तिर्व्यापिनी माया सर्वमायाप्रभञ्जनी ॥ 33 ॥ माहेन्द्री मन्त्रिणी सिंही चेन्द्रजालस्वरूपिणी । अवस्थात्रयनिर्मुक्ता गुणत्रयविवर्जिता ॥ 34 ॥ ईषणात्रयनिर्मुक्ता सर्वरोगविवर्जिता । योगिध्यानान्तगम्या च योगध्यानपरायणा ॥ 35 ॥ त्रयीशिखा विशेषज्ञा वेदान्तज्ञानरूपिणी । भारती कमला भाषा पद्मा पद्मवती कृतिः ॥ 36 ॥ गौतमी गोमती गौरी ईशाना हंसवाहिनी । नारायणी प्रभाधारा जाह्नवी शङ्करात्मजा ॥ 37 ॥ चित्रघण्टा सुनन्दा श्रीर्मानवी मनुसम्भवा । स्तम्भिनी क्षोभिणी मारी भ्रामिणी शत्रुमारिणी ॥ 38 ॥ मोहिनी द्वेषिणी वीरा अघोरा रुद्ररूपिणी । रुद्रैकादशिनी पुण्या कल्याणी लाभकारिणी ॥ 39 ॥ देवदुर्गा महादुर्गा स्वप्नदुर्गाऽष्टभैरवी । सूर्यचन्द्राग्निरूपा च ग्रहनक्षत्ररूपिणी ॥ 40 ॥ बिन्दुनादकलातीता बिन्दुनादकलात्मिका । दशवायुजयाकारा कलाषोडशसंयुता ॥ 41 ॥ काश्यपी कमलादेवी नादचक्रनिवासिनी । मृडाधारा स्थिरा गुह्या देविका चक्ररूपिणी ॥ 42 ॥ अविद्या शार्वरी भुञ्जा जम्भासुरनिबर्हिणी । श्रीकाया श्रीकला शुभ्रा कर्मनिर्मूलकारिणी ॥ 43 ॥ आदिलक्ष्मीर्गुणाधारा पञ्चब्रह्मात्मिका परा । श्रुतिर्ब्रह्ममुखावासा सर्वसम्पत्तिरूपिणी ॥ 44 ॥ मृतसञ्जीवनी मैत्री कामिनी कामवर्जिता । निर्वाणमार्गदा देवी हंसिनी काशिका क्षमा ॥ 45 ॥ सपर्या गुणिनी भिन्ना निर्गुणा खण्डिताशुभा । स्वामिनी वेदिनी शक्या शाम्बरी चक्रधारिणी ॥ 46 ॥ दण्डिनी मुण्डिनी व्याघ्री शिखिनी सोमसंहतिः । चिन्तामणिश्चिदानन्दा पञ्चबाणप्रबोधिनी ॥ 47 ॥ बाणश्रेणिस्सहस्राक्षी सहस्रभुजपादुका । सन्ध्यावलिस्त्रिसन्ध्याख्या ब्रह्माण्डमणिभूषणा ॥ 48 ॥ वासवी वारुणीसेना कुलिका मन्त्ररञ्जनी । जितप्राणस्वरूपा च कान्ता काम्यवरप्रदा ॥ 49 ॥ मन्त्रब्राह्मणविद्यार्था नादरूपा हविष्मती । आथर्वणिः श्रुतिः शून्या कल्पनावर्जिता सती ॥ 50 ॥ सत्ताजातिः प्रमाऽमेयाऽप्रमितिः प्राणदा गतिः । अवर्णा पञ्चवर्णा च सर्वदा भुवनेश्वरी ॥ 51 ॥ त्रैलोक्यमोहिनी विद्या सर्वभर्त्री क्षराऽक्षरा । हिरण्यवर्णा हरिणी सर्वोपद्रवनाशिनी ॥ 52 ॥ कैवल्यपदवीरेखा सूर्यमण्डलसंस्थिता । सोममण्डलमध्यस्था वह्निमण्डलसंस्थिता ॥ 53 ॥ वायुमण्डलमध्यस्था व्योममण्डलसंस्थिता । चक्रिका चक्रमध्यस्था चक्रमार्गप्रवर्तिनी ॥ 54 ॥ कोकिलाकुलचक्रेशा पक्षतिः पङ्क्तिपावनी । सर्वसिद्धान्तमार्गस्था षड्वर्णावरवर्जिता ॥ 55 ॥ शररुद्रहरा हन्त्री सर्वसंहारकारिणी । पुरुषा पौरुषी तुष्टिस्सर्वतन्त्रप्रसूतिका ॥ 56 ॥ अर्धनारीश्वरी देवी सर्वविद्याप्रदायिनी । भार्गवी याजुषीविद्या सर्वोपनिषदास्थिता ॥ 57 ॥ व्योमकेशाखिलप्राणा पञ्चकोशविलक्षणा । पञ्चकोशात्मिका प्रत्यक्पञ्चब्रह्मात्मिका शिवा ॥ 58 ॥ जगज्जराजनित्री च पञ्चकर्मप्रसूतिका । वाग्देव्याभरणाकारा सर्वकाम्यस्थितास्थितिः ॥ 59 ॥ अष्टादशचतुष्षष्ठिपीठिका विद्यया युता । कालिकाकर्षणश्यामा यक्षिणी किन्नरेश्वरी ॥ 60 ॥ केतकी मल्लिकाऽशोका वाराही धरणी ध्रुवा । नारसिंही महोग्रास्या भक्तानामार्तिनाशिनी ॥ 61 ॥ अन्तर्बला स्थिरा लक्ष्मीर्जरामरणनाशिनी । श्रीरञ्जिता महाकाया सोमसूर्याग्निलोचना ॥ 62 ॥ अदितिर्देवमाता च अष्टपुत्राऽष्टयोगिनी । अष्टप्रकृतिरष्टाष्टविभ्राजद्विकृताकृतिः ॥ 63 ॥ दुर्भिक्षध्वंसिनी देवी सीता सत्या च रुक्मिणी । ख्यातिजा भार्गवी देवी देवयोनिस्तपस्विनी ॥ 64 ॥ शाकम्भरी महाशोणा गरुडोपरिसंस्थिता । सिंहगा व्याघ्रगा देवी वायुगा च महाद्रिगा ॥ 65 ॥ अकारादिक्षकारान्ता सर्वविद्याधिदेवता । मन्त्रव्याख्याननिपुणा ज्योतिश्शास्त्रैकलोचना ॥ 66 ॥ इडापिङ्गलिकामध्यासुषुम्ना ग्रन्थिभेदिनी । कालचक्राश्रयोपेता कालचक्रस्वरूपिणी ॥ 67 ॥ वैशारदी मतिश्श्रेष्ठा वरिष्ठा सर्वदीपिका । वैनायकी वरारोहा श्रोणिवेला बहिर्वलिः ॥ 68 ॥ जम्भिनी जृम्भिणी जम्भकारिणी गणकारिका । शरणी चक्रिकाऽनन्ता सर्वव्याधिचिकित्सकी ॥ 69 ॥ देवकी देवसङ्काशा वारिधिः करुणाकरा । शर्वरी सर्वसम्पन्ना सर्वपापप्रभञ्जनी ॥ 70 ॥ एकमात्रा द्विमात्रा च त्रिमात्रा च तथाऽपरा । अर्धमात्रा परा सूक्ष्मा सूक्ष्मार्थाऽर्थपराऽपरा ॥ 71 ॥ एकवीरा विशेषाख्या षष्ठीदेवी मनस्विनी । नैष्कर्म्या निष्कलालोका ज्ञानकर्माधिका गुणा ॥ 72 ॥ सबन्ध्वानन्दसन्दोहा व्योमाकाराऽनिरूपिता । गद्यपद्यात्मिका वाणी सर्वालङ्कारसंयुता ॥ 73 ॥ साधुबन्धपदन्यासा सर्वौको घटिकावलिः । षट्कर्मा कर्कशाकारा सर्वकर्मविवर्जिता ॥ 74 ॥ आदित्यवर्णा चापर्णा कामिनी वररूपिणी । ब्रह्माणी ब्रह्मसन्ताना वेदवागीश्वरी शिवा ॥ 75 ॥ पुराणन्यायमीमांसाधर्मशास्त्रागमश्रुता । सद्योवेदवती सर्वा हंसी विद्याधिदेवता ॥ 76 ॥ विश्वेश्वरी जगद्धात्री विश्वनिर्माणकारिणी । वैदिकी वेदरूपा च कालिका कालरूपिणी ॥ 77 ॥ नारायणी महादेवी सर्वतत्त्वप्रवर्तिनी । हिरण्यवर्णरूपा च हिरण्यपदसम्भवा ॥ 78 ॥ कैवल्यपदवी पुण्या कैवल्यज्ञानलक्षिता । ब्रह्मसम्पत्तिरूपा च ब्रह्मसम्पत्तिकारिणी ॥ 79 ॥ वारुणी वारुणाराध्या सर्वकर्मप्रवर्तिनी । एकाक्षरपराऽऽयुक्ता सर्वदारिद्र्यभञ्जिनी ॥ 80 ॥ पाशाङ्कुशान्विता दिव्या वीणाव्याख्याक्षसूत्रभृत् । एकमूर्तिस्त्रयीमूर्तिर्मधुकैटभभञ्जिनी ॥ 81 ॥ साङ्ख्या साङ्ख्यवती ज्वाला ज्वलन्ती कामरूपिणी । जाग्रती सर्वसम्पत्तिस्सुषुप्ता स्वेष्टदायिनी ॥ 82 ॥ कपालिनी महादंष्ट्रा भ्रुकुटी कुटिलानना । सर्वावासा सुवासा च बृहत्यष्टिश्च शक्वरी ॥ 83 ॥ छन्दोगणप्रतिष्ठा च कल्माषी करुणात्मिका । चक्षुष्मती महाघोषा खड्गचर्मधराऽशनिः ॥ 84 ॥ शिल्पवैचित्र्यविद्योता सर्वतोभद्रवासिनी । अचिन्त्यलक्षणाकारा सूत्रभाष्यनिबन्धना ॥ 85 ॥ सर्ववेदार्थसम्पत्तिस्सर्वशास्त्रार्थमातृका । अकारादिक्षकारान्तसर्ववर्णकृतस्थला ॥ 86 ॥ सर्वलक्ष्मीस्सदानन्दा सारविद्या सदाशिवा । सर्वज्ञा सर्वशक्तिश्च खेचरीरूपगोच्छ्रिता ॥ 87 ॥ अणिमादिगुणोपेता परा काष्ठा परा गतिः । हंसयुक्तविमानस्था हंसारूढा शशिप्रभा ॥ 88 ॥ भवानी वासनाशक्तिराकृतिस्थाखिलाऽखिला । तन्त्रहेतुर्विचित्राङ्गी व्योमगङ्गाविनोदिनी ॥ 89 ॥ वर्षा च वार्षिका चैव ऋग्यजुस्सामरूपिणी । महानदीनदीपुण्याऽगण्यपुण्यगुणक्रिया ॥ 90 ॥ समाधिगतलभ्यार्था श्रोतव्या स्वप्रिया घृणा । नामाक्षरपरा देवी उपसर्गनखाञ्चिता ॥ 91 ॥ निपातोरुद्वयीजङ्घा मातृका मन्त्ररूपिणी । आसीना च शयाना च तिष्ठन्ती धावनाधिका ॥ 92 ॥ लक्ष्यलक्षणयोगाढ्या ताद्रूप्यगणनाकृतिः । सैकरूपा नैकरूपा सेन्दुरूपा तदाकृतिः ॥ 93 ॥ समासतद्धिताकारा विभक्तिवचनात्मिका । स्वाहाकारा स्वधाकारा श्रीपत्यर्धाङ्गनन्दिनी ॥ 94 ॥ गम्भीरा गहना गुह्या योनिलिङ्गार्धधारिणी । शेषवासुकिसंसेव्या चपला वरवर्णिनी ॥ 95 ॥ कारुण्याकारसम्पत्तिः कीलकृन्मन्त्रकीलिका । शक्तिबीजात्मिका सर्वमन्त्रेष्टाक्षयकामना ॥ 96 ॥ आग्नेयी पार्थिवा आप्या वायव्या व्योमकेतना । सत्यज्ञानात्मिकाऽऽनन्दा ब्राह्मी ब्रह्म सनातनी ॥ 97 ॥ अविद्यावासना मायाप्रकृतिस्सर्वमोहिनी । शक्तिर्धारणशक्तिश्च चिदचिच्छक्तियोगिनी ॥ 98 ॥ वक्त्रारुणा महामाया मरीचिर्मदमर्दिनी । विराट् स्वाहा स्वधा शुद्धा नीरूपास्तिस्सुभक्तिगा ॥ 99 ॥ निरूपिताद्वयीविद्या नित्यानित्यस्वरूपिणी । वैराजमार्गसञ्चारा सर्वसत्पथदर्शिनी ॥ 100 ॥ जालन्धरी मृडानी च भवानी भवभञ्जनी । त्रैकालिकज्ञानतन्तुस्त्रिकालज्ञानदायिनी ॥ 101 ॥ नादातीता स्मृतिः प्रज्ञा धात्रीरूपा त्रिपुष्करा । पराजिताविधानज्ञा विशेषितगुणात्मिका ॥ 102 ॥ हिरण्यकेशिनी हेमब्रह्मसूत्रविचक्षणा । असङ्ख्येयपरार्धान्तस्वरव्यञ्जनवैखरी ॥ 103 ॥ मधुजिह्वा मधुमती मधुमासोदया मधुः । माधवी च महाभागा मेघगम्भीरनिस्वना ॥ 104 ॥ ब्रह्मविष्णुमहेशादिज्ञातव्यार्थविशेषगा । नाभौ वह्निशिखाकारा ललाटे चन्द्रसन्निभा ॥ 105 ॥ भ्रूमध्ये भास्कराकारा सर्वताराकृतिर्हृदि । कृत्तिकादिभरण्यन्तनक्षत्रेष्ट्यार्चितोदया ॥ 106 ॥ ग्रहविद्यात्मिका ज्योतिर्ज्योतिर्विन्मतिजीविका । ब्रह्माण्डगर्भिणी बाला सप्तावरणदेवता ॥ 107 ॥ वैराजोत्तमसाम्राज्या कुमारकुशलोदया । बगला भ्रमराम्बा च शिवदूती शिवात्मिका ॥ 108 ॥ मेरुविन्ध्यादिसंस्थाना काश्मीरपुरवासिनी । योगनिद्रा महानिद्रा विनिद्रा राक्षसाश्रिता ॥ 109 ॥ सुवर्णदा महागङ्गा पञ्चाख्या पञ्चसंहतिः । सुप्रजाता सुवीरा च सुपोषा सुपतिश्शिवा ॥ 110 ॥ सुगृहा रक्तबीजान्ता हतकन्दर्पजीविका । समुद्रव्योममध्यस्था समबिन्दुसमाश्रया ॥ 111 ॥ सौभाग्यरसजीवातुस्सारासारविवेकदृक् । त्रिवल्यादिसुपुष्टाङ्गा भारती भरताश्रिता ॥ 112 ॥ नादब्रह्ममयीविद्या ज्ञानब्रह्ममयीपरा । ब्रह्मनाडी निरुक्तिश्च ब्रह्मकैवल्यसाधनम् ॥ 113 ॥ कालिकेयमहोदारवीर्यविक्रमरूपिणी । वडवाग्निशिखावक्त्रा महाकवलतर्पणा ॥ 114 ॥ महाभूता महादर्पा महासारा महाक्रतुः । पञ्जभूतमहाग्रासा पञ्चभूताधिदेवता ॥ 115 ॥ सर्वप्रमाणा सम्पत्तिस्सर्वरोगप्रतिक्रिया । ब्रह्माण्डान्तर्बहिर्व्याप्ता विष्णुवक्षोविभूषिणी ॥ 116 ॥ शाङ्करी विधिवक्त्रस्था प्रवरा वरहेतुकी । हेममाला शिखामाला त्रिशिखा पञ्चलोचना ॥ 117 ॥ सर्वागमसदाचारमर्यादा यातुभञ्जनी । पुण्यश्लोकप्रबन्धाढ्या सर्वान्तर्यामिरूपिणी ॥ 118 ॥ सामगानसमाराध्या श्रोत्रकर्णरसायनम् । जीवलोकैकजीवातुर्भद्रोदारविलोकना ॥ 119 ॥ तटित्कोटिलसत्कान्तिस्तरुणी हरिसुन्दरी । मीननेत्रा च सेन्द्राक्षी विशालाक्षी सुमङ्गला ॥ 120 ॥ सर्वमङ्गलसम्पन्ना साक्षान्मङ्गलदेवता । देहहृद्दीपिका दीप्तिर्जिह्वपापप्रणाशिनी ॥ 121 ॥ अर्धचन्द्रोल्लसद्दंष्ट्रा यज्ञवाटीविलासिनी । महादुर्गा महोत्साहा महादेवबलोदया ॥ 122 ॥ डाकिनीड्या शाकिनीड्या साकिनीड्या समस्तजुट् । निरङ्कुशा नाकिवन्द्या षडाधाराधिदेवता ॥ 123 ॥ भुवनज्ञानिनिश्श्रेणी भुवनाकारवल्लरी । शाश्वती शाश्वताकारा लोकानुग्रहकारिणी ॥ 124 ॥ सारसी मानसी हंसी हंसलोकप्रदायिनी । चिन्मुद्रालङ्कृतकरा कोटिसूर्यसमप्रभा ॥ 125 ॥ सुखप्राणिशिरोरेखा सददृष्टप्रदायिनी । सर्वसाङ्कर्यदोषघ्नी ग्रहोपद्रवनाशिनी ॥ 126 ॥ क्षुद्रजन्तुभयघ्नी च विषरोगादिभञ्जनी । सदाशान्ता सदाशुद्धा गृहच्छिद्रनिवारिणी ॥ 127 ॥ कलिदोषप्रशमनी कोलाहलपुरस्थिता । गौरी लाक्षणिकी मुख्या जघन्याकृतिवर्जिता ॥ 128 ॥ माया विद्या मूलभूता वासवी विष्णुचेतना । वादिनी वसुरूपा च वसुरत्नपरिच्छदा ॥ 129 ॥ छान्दसी चन्द्रहृदया मन्त्रस्वच्छन्दभैरवी । वनमाला वैजयन्ती पञ्चदिव्यायुधात्मिका ॥ 130 ॥ पीताम्बरमयी चञ्चत्कौस्तुभा हरिकामिनी । नित्या तथ्या रमा रामा रमणी मृत्युभञ्जनी ॥ 131 ॥ ज्येष्ठा काष्ठा धनिष्ठान्ता शराङ्गी निर्गुणप्रिया । मैत्रेया मित्रविन्दा च शेष्यशेषकलाशया ॥ 132 ॥ वाराणसीवासलभ्या चार्यावर्तजनस्तुता । जगदुत्पत्तिसंस्थानसंहारत्रयकारणम् ॥ 133 ॥ त्वमम्ब विष्णुसर्वस्वं नमस्तेऽस्तु महेश्वरि । नमस्ते सर्वलोकानां जनन्यै पुण्यमूर्तये ॥ 134 ॥ सिद्धलक्ष्मीर्महाकालि महलक्ष्मि नमोऽस्तु ते । सद्योजातादिपञ्चाग्निरूपा पञ्चकपञ्चकम् ॥ 135 ॥ यन्त्रलक्ष्मीर्भवत्यादिराद्याद्ये ते नमो नमः । सृष्ट्यादिकारणाकारवितते दोषवर्जिते ॥ 136 ॥ जगल्लक्ष्मीर्जगन्मातर्विष्णुपत्नि नमोऽस्तु ते । नवकोटिमहाशक्तिसमुपास्यपदाम्बुजे ॥ 137 ॥ कनत्सौवर्णरत्नाढ्य सर्वाभरणभूषिते । अनन्तानित्यमहिषीप्रपञ्चेश्वरनायकि ॥ 138 ॥ अत्युच्छ्रितपदान्तस्थे परमव्योमनायकि । नाकपृष्ठगताराध्ये विष्णुलोकविलासिनि ॥ 139 ॥ वैकुण्ठराजमहिषि श्रीरङ्गनगराश्रिते । रङ्गनायकि भूपुत्रि कृष्णे वरदवल्लभे ॥ 140 ॥ कोटिब्रह्मादिसंसेव्ये कोटिरुद्रादिकीर्तिते । मातुलुङ्गमयं खेटं सौवर्णचषकं तथा ॥ 141 ॥ पद्मद्वयं पूर्णकुम्भं कीरञ्च वरदाभये । पाशमङ्कुशकं शङ्खं चक्रं शूलं कृपाणिकाम् ॥ 142 ॥ धनुर्बाणौ चाक्षमालां चिन्मुद्रामपि बिभ्रती । अष्टादशभुजे लक्ष्मीर्महाष्टादशपीठगे ॥ 143 ॥ भूमिनीलादिसंसेव्ये स्वामिचित्तानुवर्तिनि । पद्मे पद्मालये पद्मि पूर्णकुम्भाभिषेचिते ॥ 144 ॥ इन्दिरेन्दिन्दिराभाक्षि क्षीरसागरकन्यके । भार्गवि त्वं स्वतन्त्रेच्छा वशीकृतजगत्पतिः ॥ 145 ॥ मङ्गलं मङ्गलानां त्वं देवतानां च देवता । त्वमुत्तमोत्तमानां च त्वं श्रेयः परमामृतम् ॥ 146 ॥ धनधान्याभिवृद्धिश्च सार्वभौमसुखोच्छ्रया । आन्दोलिकादिसौभाग्यं मत्तेभादिमहोदयः ॥ 147 ॥ पुत्रपौत्राभिवृद्धिश्च विद्याभोगबलादिकम् । आयुरारोग्यसम्पत्तिरष्टैश्वर्यं त्वमेव हि ॥ 148 ॥ परमेशविभूतिश्च सूक्ष्मात्सूक्ष्मतरागतिः । सदयापाङ्गसन्दत्तब्रह्मेन्द्रादिपदस्थितिः ॥ 149 ॥ अव्याहतमहाभाग्यं त्वमेवाक्षोभ्यविक्रमः । समन्वयश्च वेदानामविरोधस्त्वमेव हि ॥ 150 ॥ निःश्रेयसपदप्राप्तिसाधनं फलमेव च । श्रीमन्त्रराजराज्ञी च श्रीविद्या क्षेमकारिणी ॥ 151 ॥ श्रीम्बीजजपसन्तुष्टा ऐं ह्रीं श्रीं बीजपालिका । प्रपत्तिमार्गसुलभा विष्णुप्रथमकिङ्करी ॥ 152 ॥ क्लीङ्कारार्थसवित्री च सौमङ्गल्याधिदेवता । श्रीषोडशाक्षरीविद्या श्रीयन्त्रपुरवासिनी ॥ 153 ॥ सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरी नारायणि नमोऽस्तु ते ॥ 154 ॥ पुनः पुनर्नमस्तेऽस्तु साष्टाङ्गमयुतं पुनः । सनत्कुमार उवाच – एवं स्तुता महालक्ष्मीर्ब्रह्मरुद्रादिभिस्सुरैः । नमद्भिरार्तैर्दीनैश्च निस्स्वत्वैर्भोगवर्जितैः ॥ 1 ॥ ज्येष्ठा जुष्टैश्च निश्श्रीकैस्संसारात्स्वपरायणैः । विष्णुपत्नी ददौ तेषां दर्शनं दृष्टितर्पणम् ॥ 2 ॥ शरत्पूर्णेन्दुकोट्याभधवलापाङ्गवीक्षणैः । सर्वान्सत्त्वसमाविष्टान् चक्रे हृष्टा वरं ददौ ॥ 3 ॥ महालक्ष्मीरुवाच – नाम्नां साष्टसहस्रं मे प्रमादाद्वापि यस्सकृत् । कीर्तयेत्तत्कुले सत्यं वसाम्याचन्द्रतारकम् ॥ 4 ॥ किं पुनर्नियमाज्जप्तुर्मदेकशरणस्य च । मातृवत्सानुकम्पाहं पोषकी स्यामहर्निशम् ॥ 5 ॥ मन्नाम स्तवतां लोके दुर्लभं नास्ति चिन्तितम् । मत्प्रसादेन सर्वेऽपि स्वस्वेष्टार्थमवाप्स्यथ ॥ 6 ॥ लुप्तवैष्णवधर्मस्य मद्व्रतेष्ववकीर्णिनः । भक्तिप्रपत्तिहीनस्य वन्द्यो नाम्नां स्तवोऽपि मे ॥ 7 ॥ तस्मादवश्यं तैर्दोषैर्विहीनः पापवर्जितः । जपेत्साष्टसहस्रं मे नाम्नां प्रत्यहमादरात् ॥ 8 ॥ साक्षादलक्ष्मीपुत्रोऽपि दुर्भाग्योऽप्यलसोऽपि वा । अप्रयत्नोऽपि मूढोऽपि विकलः पतितोऽपि च ॥ 9 ॥ अवश्यं प्राप्नुयाद्भाग्यं मत्प्रसादेन केवलम् । स्पृहेयमचिराद्देवा वरदानाय जापिनः । ददामि सर्वमिष्टार्थं लक्ष्मीति स्मरतां ध्रुवम् ॥ 10 ॥ सनत्कुमार उवाच – इत्युक्त्वाऽन्तर्दधे लक्ष्मीर्वैष्णवी भगवत्कला । इष्टापूर्तं च सुकृतं भागधेयं च चिन्तितम् ॥ 11 ॥ स्वं स्वं स्थानं च भोगं च विजयं लेभिरे सुराः । तदेतत् प्रवदाम्यद्य लक्ष्मीनामसहस्रकम् । योगिनः पठत क्षिप्रं चिन्तितार्थानवाप्स्यथ ॥ 12 ॥ गार्ग्य उवाच – सनत्कुमारोयोगीन्द्र इत्युक्त्वा स दयानिधिः । अनुगृह्य ययौ क्षिप्रं तांश्च द्वादशयोगिनः ॥ 13 ॥ तस्मादेतद्रहस्यं च गोप्यं जप्यं प्रयत्नतः । अष्टम्यां च चतुर्दश्यां नवम्यां भृगुवासरे ॥ 14 ॥ पौर्णमास्याममायां च पर्वकाले विशेषतः । जपेद्वा नित्यकार्येषु सर्वान्कामानवाप्नुयात् ॥ 15 ॥ इति श्री लक्ष्मीसहस्रनामस्तोत्रं सम्पूर्णम् ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits