Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

वेणु गोपाल अष्टकम्

कलितकनकचेलं खण्डितापत्कुचेलं गलधृतवनमालं गर्वितारातिकालम् कलिमलहरशीलं कान्तिधूतेन्द्रनीलं विनमदवनशीलं वेणुगोपालमीडे 1 व्रजयुवतिविलोलं वन्दनानन्दलोलं करधृतगुरुशैलं कञ्जगर्भादिपालम् अभिमतफलदानं श्रीजितामर्त्यसालं विनमदवनशीलं वेणुगोपालमीडे 2 घनतरकरुणाश्रीकल्पवल्ल्यालवालं कलशजलधिकन्यामोदकश्रीकपोलम् प्लुषितविनतलोकानन्तदुष्कर्मतूलं विनमदवनशीलं वेणुगोपालमीडे 3 शुभदसुगुणजालं सूरिलोकानुकूलं दितिजततिकरालं दिव्यदारायितेलम् मृदुमधुरवचःश्री दूरितश्रीरसालं विनमदवनशीलं वेणुगोपालमीडे 4 मृगमदतिलकश्रीमेदुरस्वीयफालं जगदुदयलयस्थित्यात्मकात्मीयखेलम् सकलमुनिजनालीमानसान्तर्मरालं विनमदवनशीलं वेणुगोपालमीडे 5 असुरहरणखेलनं नन्दकोत्क्षेपलीलं विलसितशरकालं विश्वपूर्णान्तरालम् शुचिरुचिरयशश्श्रीधिक्कृत श्रीमृणालं विनमदवनशीलं वेणुगोपालमीडे 6 स्वपरिचरणलब्ध श्रीधराशाधिपालं स्वमहिमलवलीलाजातविध्यण्डगोलम् गुरुतरभवदुःखानीक वाःपूरकूलं विनमदवनशीलं वेणुगोपालमीडे 7 चरणकमलशोभापालित श्रीप्रवालं सकलसुकृतिरक्षादक्षकारुण्य हेलम् रुचिविजिततमालं रुक्मिणीपुण्यमूलं विनमदवनशीलं वेणुगोपालमीडे 8 श्रीवेणुगोपाल कृपालवालां श्रीरुक्मिणीलोलसुवर्णचेलाम् कृतिं मम त्वं कृपया गृहीत्वा स्रजं यथा मां कुरु दुःखदूरम् 9 इति श्री वेणुगोपालाष्टकम्

Recite with devotion and pure heart

Regular practice brings spiritual benefits