हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
राधा कृष्ण अष्टकम्
यः
श्रीगोवर्धनाद्रिं
सकलसुरपतींस्तत्रगोगोपबृन्दं
स्वीयं
संरक्षितुं
चेत्यमरसुखकरं
मोहयन्
सन्दधार
।
तन्मानं
खण्डयित्वा
विजितरिपुकुलो
नीलधाराधराभः
कृष्णो
राधासमेतो
विलसतु
हृदये
सोऽस्मदीये
सदैव
॥
1
॥
यं
दृष्ट्वा
कंसभूपः
स्वकृतकृतिमहो
संस्मरन्मन्त्रिवर्यान्
किं
वा
पूर्वं
मयेदं
कृतमिति
वचनं
दुःखितः
प्रत्युवाच
।
आज्ञप्तो
नारदेन
स्मितयुतवदनः
पूरयन्सर्वकामान्
कृष्णो
राधासमेतो
विलसतु
हृदये
सोऽस्मदीये
सदैव
॥
2
॥
येन
प्रोद्यत्प्रतापा
नृपतिकुलभवाः
पाण्डवाः
कौरवाब्धिं
तीर्त्वा
पारं
तदीयं
जगदखिलनृणां
दुस्तरञ्चेति
जग्मुः
।
तत्पत्नीचीरवृद्धिप्रविदितमहिमा
भूतले
भूपतीशः
कृष्णो
राधासमेतो
विलसतु
हृदये
सोऽस्मदीये
सदैव
॥
3
॥
यस्मै
चोद्धृत्य
पात्राद्दधियुतनवनीतं
करैर्गोपिकाभि-
र्दत्तं
तद्भावपूर्तौ
विनिहितहृदयस्सत्यमेवं
तिरोधात्
।
मुक्तागुञ्जावलीभिः
प्रचुरतमरुचिः
कुण्डलाक्रान्तगण्डः
कृष्णो
राधासमेतो
विलसतु
हृदये
सोऽस्मदीये
सदैव
॥
4
॥
यस्माद्विश्वाभिरामादिह
जननविधौ
सर्वनन्दादिगोपाः
संसारार्तेर्विमुक्ताः
सकलसुखकराः
सम्पदः
प्रापुरेव
।
इत्थं
पूर्णेन्दुवक्त्रः
कलकमलदृशः
स्वीयजन्म
स्तुवन्तः
कृष्णो
राधासमेतो
विलसतु
हृदये
सोऽस्मदीये
सदैव
॥
5
॥
यस्य
श्रीनन्दसूनोः
व्रजयुवतिजनाश्चागता
भर्तृपुत्रां-
स्त्यक्त्वा
श्रुत्वा
समीपे
विचकितनयनाः
सप्रमोदाः
स्वगेहे
।
रन्तुं
रासादिलीला
मनसिजदलिता
वेणुनादं
च
रम्यं
कृष्णो
राधासमेतो
विलसतु
हृदये
सोऽस्मदीये
सदैव
॥
6
॥
यस्मिन्
दृष्टे
समस्ते
जगति
युवतयः
प्राणनाथव्रताया-
स्ता
अप्येवं
हि
नूनं
किमपि
च
हृदये
कामभावं
दधत्यः
।
तत्स्नेहाब्धिं
वपुश्चेदविदितधरणौ
सूर्यबिम्बस्वरूपाः
कृष्णो
राधासमेतो
विलसतु
हृदये
सोऽस्मदीये
सदैव
॥
7
॥
यः
स्वीये
गोकुलेऽस्मिन्विदितनिजकुलोद्भूतबालैः
समेतो
मातर्येवं
चकार
प्रसृततमगुणान्बाललीलाविलासान्
।
हत्वा
वत्सप्रलम्बद्विविदबकखरान्गोपबृन्दं
जुगोप
कृष्णो
राधासमेतो
विलसतु
हृदये
सोऽस्मदीये
सदैव
॥
8
॥
कृष्णाराधाष्टकं
प्रातरुत्थाय
प्रपठेन्नरः
।
य
एवं
सर्वदा
नूनं
स
प्राप्नोति
परां
गतिम्
॥
9
॥
इति
श्रीरघुनाथचार्य
विरचितं
श्रीराधाकृष्णाष्टकम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits