Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

नन्द कुमार अष्टकम्

सुन्दरगोपालं उरवनमालं नयनविशालं दुःखहरं बृन्दावनचन्द्रमानन्दकन्दं परमानन्दं धरणिधरम् वल्लभघनश्यामं पूर्णकामं अत्यभिरामं प्रीतिकरं भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् 1 सुन्दरवारिजवदनं निर्जितमदनं आनन्दसदनं मुकुटधरं गुञ्जाकृतिहारं विपिनविहारं परमोदारं चीरहरम् वल्लभपटपीतं कृत उपवीतं करनवनीतं विबुधवरं भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् 2 शोभितसुखमूलं यमुनाकूलं निपट अतूलं सुखदतरं मुखमण्डितरेणुं चारितधेनुं वादितवेणुं मधुरसुरम् वल्लभमतिविमलं शुभपदकमलं नखरुचि अमलं तिमिरहरं भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् 3 शिरमुकुटसुदेशं कुञ्चितकेशं नटवरवेषं कामवरं मायाकृतमनुजं हलधर अनुजं प्रतिहतदनुजं भारहरम् वल्लभव्रजपालं सुभगसुचालं हितमनुकालं भाववरं भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् 4 इन्दीवरभासं प्रकटसरासं कुसुमविकासं वंशधरं हृत्मन्मथमानं रूपनिधानं कृतकलगानं चित्तहरम् वल्लभमृदुहासं कुञ्जनिवासं विविधविलासं केलिकरं भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् 5 अतिपरमप्रवीणं पालितदीनं भक्ताधीनं कर्मकरं मोहनमतिधीरं फणिबलवीरं हतपरवीरं तरलतरम् वल्लभव्रजरमणं वारिजवदनं हलधरशमनं शैलधरं भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् 6 जलधरद्युतिअङ्गं ललितत्रिभङ्गं बहुकृतिरङ्गं रसिकवरं गोकुलपरिवारं मदनाकारं कुञ्जविहारं गूढतरम् वल्लभव्रजचन्द्रं सुभगसुछन्दं कृत आनन्दं भ्रान्तिहरं भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् 7 वन्दितयुगचरणं पावनकरणं जगदुद्धरणं विमलधरं कालियशिरगमनं कृतफणिनमनं घातितयमनं मृदुलतरम् वल्लभदुःखहरणं निर्मलचरणं अशरणशरणं मुक्तिकरं भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् 8 इति श्रीमद्वल्लभाचार्यविरचितं श्रीनन्दकुमाराष्टकम्

Recite with devotion and pure heart

Regular practice brings spiritual benefits