ओं श्री गोपालबालतनयाय नमः ।
ओं श्री गोपाय नमः ।
ओं श्री गोपगोकुलनायकाय नमः ।
ओं श्री गोपालाय नमः ।
ओं श्री गोकुलनन्दनाय नमः ।
ओं श्री गोपसंरक्षणोत्सुकाय नमः ।
ओं श्री गोवत्सरूपिणे नमः ।
ओं श्री गोपोषिअणे नमः ।
ओं श्री गोपिकासुतरूपभृते नमः ।
ओं श्री गोपीघृतदधिक्षीरशिक्यभाजनलुण्ठकाय नमः । 10
ओं श्री गोपिकागण्डसंसक्तश्रीमद्वदनपङ्कजाय नमः ।
ओं श्री गोपिकासङ्गमोल्लासाय नमः ।
ओं श्री गोपिकाकुचमर्दनाय नमः ।
ओं श्री गोपिकाऽक्ष्यञ्जनासक्तमञ्जुलाधरपल्लवाय नमः ।
ओं श्री गोपिकारदनसन्दष्टरक्तिमाधरविद्रुमाय नमः ।
ओं श्री गोपीपीनकुचद्वन्द्व मर्दनात्यन्तनिर्दयाय नमः ।
ओं श्री गोपिकागानसंसक्तय नमः ।
ओं श्री गोपिकानर्तनोत्सुकाय नमः ।
ओं श्री गोपीसम्भाषणरताय नमः ।
ओं श्री गोपक्रीडामहोत्सवाय नमः । 20
ओं श्री गोपीवस्त्रापहारिणे नमः ।
ओं श्री गोपीकृतनखक्षताया नमः ।
ओं श्री गोपिकासहभोक्त्रे नमः ।
ओं श्री गोपिकापादसेवकाय नमः ।
ओं श्री गोपिकाधवरूपाय नमः ।
ओं श्री गोपस्त्रीवेषमूर्तिभृते नमः ।
ओं श्री गोपीगानानुसरणमुरलीगानरञ्जकाय नमः ।
ओं श्री गोपिकापुण्यनिवहाय नमः ।
ओं श्री गोपिकाजनवल्लभाय नमः ।
ओं श्री गोपिकादत्तसूपान्नदधिक्षीरघृताशाय नमः । 30
ओं श्री गोपीचर्चितताम्बूलग्रहणोत्सुकमानसाय नमः ।
ओं श्री गोपीभुक्तावशिष्टान्नसम्पूरितनिजोदराय नमः ।
ओं श्री गोपीमुखाब्जमार्ताण्डाय नमः ।
ओं श्री गोपीनयनगोचराय नमः ।
ओं श्री गोपस्त्रीपञ्चविशिखाय नमः ।
ओं श्री गोपिकाहृदयालयाय नमः ।
ओं श्री गोपीहृदब्जभ्रमराय नमः ।
ओं श्री गोपीचरित्रगानवते नमः ।
ओं श्री गोपस्त्रीपरमप्रीताय नमः ।
ओं श्री गोपिकाध्याननिष्टावते नमः । 40
ओं श्री गोपस्त्रीमध्यसंस्थिताय नमः ।
ओं श्री गोपनारीमनोहारिणे नमः ।
ओं श्री गोपस्त्रीदत्तभूषणाय नमः ।
ओं श्री गोपीसौदामिनीमेघाय नमः ।
ओं श्री गोपीनीरधिचन्द्रमसे नमः ।
ओं श्री गोपिकालङ्कृतात्यन्तसूक्ष्माच्छोष्णीषकञ्चुकाय नमः ।
ओं श्री गोपीभुजोपधानाय नमः ।
ओं श्री गोपीचित्तफलप्रदाय नमः ।
ओं श्री गोपिकासङ्गमश्रान्ताय नमः । 50
ओं श्री गोपीहृदयसंस्थिताय नमः ।
ओं श्री गोपीपुल्लमुखाम्भोजमध्वास्वादनबम्भराय नमः ।
ओं श्री गोपस्त्रीदन्तपीड्याय नमः ।
ओं श्री गोपिसल्लाप सादराय नमः ।
ओं श्री गोपीवामाङ्कसंरूढाय नमः ।
ओं श्री गोपिकाभ्यञ्जनोद्यताय नमः ।
ओं श्री गोपीभावपरिज्ञात्रे नमः ।
ओं श्री गोपस्त्रीदर्शनोन्मीषाय नमः ।
ओं श्री गोपिकासुतप्रीताय नमः ।
ओं श्री गोपिकालिङ्गनोत्सुकाय नमः । 60
ओं श्री गोवर्धनाचलोद्धर्ते नमः ।
ओं श्री गोदोहनलसत्कराय नमः ।
ओं श्री गोवृन्दवीताय नमः ।
ओं श्री गोविन्दाय नमः ।
ओं श्री गोपिकागोपगोवृताय नमः ।
ओं श्री गोपालाङ्गणसञ्चारिणे नमः ।
ओं श्री गोपबालानुरञ्जकाय नमः ।
ओं श्री गोव्रताय नमः ।
ओं श्री गोपिकार्तिप्रदाय नमः ।
ओं श्री गोनामभूषिणे नमः । 70
ओं श्री गोगोप्त्रे नमः ।
ओं श्री गोपमानसरञ्जकाय नमः ।
ओं श्री गोसहस्रालिमध्यस्थाय नमः ।
ओं श्री गोपबालशतावृताय नमः ।
ओं श्री गोवृन्दभाषाविजात्रे नमः ।
ओं श्री गोपद्रव्यापहारकाय नमः ।
ओं श्री गोपवेषाय नमः ।
ओं श्री गोपनाथाय नमः ।
ओं श्री गोपभूषणसम्भ्रमाय नमः ।
ओं श्री गोपदासाय नमः । 80
ओं श्री गोपपूज्याय नमः ।
ओं श्री गोपालकशुभप्रदाय नमः ।
ओं श्री गोपनेत्रे नमः ।
ओं श्री गोपसखाय नमः ।
ओं श्री गोपसङ्कटमोचकाय नमः ।
ओं श्री गोपमात्रे नमः ।
ओं श्री गोपपित्रे नमः ।
ओं श्री गोपभ्रात्रे नमः ।
ओं श्री गोपनाय नमः ।
ओं श्री गोपबन्धवे नमः । 90
ओं श्री गोपपुण्याय नमः ।
ओं श्री गोपसन्तानभूरुहाय नमः ।
ओं श्री गोपालानीतदध्यन्नभोक्त्रे नमः ।
ओं श्री गोपालरञ्जकाय नमः ।
ओं श्री गोपालप्राणधात्रे नमः ।
ओं श्री गोपगोपीजनावृताय नमः ।
ओं श्री गोकुलोत्सवसन्तोषाय नमः ।
ओं श्री गोदधिक्षीरचोरकाय नमः ।
ओं श्री गोवर्धनरताय नमः ।
ओं श्री गोपीगोपाह्वानकृतादराय नमः । 100
ओं श्री गोग्रासधारिणे नमः ।
ओं श्री गोकण्डूनिवारणनखावलये नमः ।
ओं श्री गोहिताय नमः ।
ओं श्री गोकुलाराध्याय नमः ।
ओं श्री गोगोपीजनवल्लभाय नमः ।
ओं श्रीमते नमः ।