हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
बाल मुकुंदाष्टकम्
करारविंदेन
पदारविंदं
मुखारविंदे
विनिवेशयंतम्
।
वटस्य
पत्रस्य
पुटे
शयानं
बालं
मुकुंदं
मनसा
स्मरामि
॥
1
॥
संहृत्य
लोकान्वटपत्रमध्ये
शयानमाद्यंतविहीनरूपम्
।
सर्वेश्वरं
सर्वहितावतारं
बालं
मुकुंदं
मनसा
स्मरामि
॥
2
॥
इंदीवरश्यामलकोमलांगं
इंद्रादिदेवार्चितपादपद्मम्
।
संतानकल्पद्रुममाश्रितानां
बालं
मुकुंदं
मनसा
स्मरामि
॥
3
॥
लंबालकं
लंबितहारयष्टिं
शृंगारलीलांकितदंतपंक्तिम्
।
बिंबाधरं
चारुविशालनेत्रं
बालं
मुकुंदं
मनसा
स्मरामि
॥
4
॥
शिक्ये
निधायाद्यपयोदधीनि
बहिर्गतायां
व्रजनायिकायाम्
।
भुक्त्वा
यथेष्टं
कपटेन
सुप्तं
बालं
मुकुंदं
मनसा
स्मरामि
॥
5
॥
कलिंदजांतस्थितकालियस्य
फणाग्ररंगेनटनप्रियंतम्
।
तत्पुच्छहस्तं
शरदिंदुवक्त्रं
बालं
मुकुंदं
मनसा
स्मरामि
॥
6
॥
उलूखले
बद्धमुदारशौर्यं
उत्तुंगयुग्मार्जुन
भंगलीलम्
।
उत्फुल्लपद्मायत
चारुनेत्रं
बालं
मुकुंदं
मनसा
स्मरामि
॥
7
॥
आलोक्य
मातुर्मुखमादरेण
स्तन्यं
पिबंतं
सरसीरुहाक्षम्
।
सच्चिन्मयं
देवमनंतरूपं
बालं
मुकुंदं
मनसा
स्मरामि
॥
8
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits