Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

काली अपराध क्षमापण स्तोत्रम्

प्राग्देहस्थोय दाहं तव चरण युगान्नाश्रितो नार्चितोऽहं
तेनाद्या कीर्तिवर्गेर्जठरजदहनैर्बाद्ध्यमानो बलिष्ठैः ।
क्षिप्त्वा जन्मान्तरान्नः पुनरिहभविता क्वाश्रयः क्वापि सेवा
क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ 1 ॥
बाल्येवालाभिलायैर्जडित जडमतिर्बाललीला प्रसक्तो
न त्वां जानामि मातः कलिकलुषहरा भोगमोक्ष प्रदात्रीम् ।
नाचारो नैव पूजा न च यजन कथा न स्मृतिर्नैव सेवा
क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ 2 ॥
प्राप्तोऽहं यौवनं चेद्विषधर सदृशैरिन्द्रियैर्दृष्ट गात्रो
नष्ट प्रज्ञः परस्त्री परधन हरणे सर्वदा साभिलाषः ।
त्वत्पादाम्भोजयुग्मं क्षणमपि मनसा न स्मृतोऽहं कदापि
क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ 3 ॥
प्रौढो भिक्षाभिलाषी सुत दुहितृ कलत्रार्थमन्नादि चेष्ट
क्व प्राप्स्ये कुत्रयामी त्वनुदिनमनिशं चिन्तयामग्न देहः ।
नोतेध्यानन्त चास्था न च भजन विधिन्नाम सङ्कीर्तनं वा
क्षन्तव्योमेऽपराधः प्रकटित वदने कामरूपे कराले ॥ 4 ॥
वृद्धत्वे बुद्धिहीनः कृश विवशतनुः श्वासकासातिसारैः
कर्णनिहोऽक्षिहीनः प्रगलित दशनः क्षुत्पिपासाभिभूतः ।
पश्चात्तापेनदग्धो मरणमनुदिनं ध्येय मात्रन्नचान्यत्
क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ 5 ॥
कृत्वास्नानं दिनादौ क्वचिदपि सलिलं नोकृतं नैव पुष्पं
ते नैवेद्यादिकं च क्वचिदपि न कृतं नापिभावो न भक्तिः ।
न न्यासो नैव पूजां न च गुण कथनं नापि चार्चाकृता ते
क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ 6 ॥
जानामि त्वां न चाहं भवभयहरणीं सर्वसिद्धिप्रदात्रीं
नित्यानन्दोदयाढ्यां त्रितय गुणमयी नित्यशुद्धोदयाढ्याम् ।
मिथ्याकर्माभिलाषैरनुदिनमभितः पीडितो दुःख सङ्घैः
क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ 7 ॥
कालाभ्रां श्यामालाङ्गीं विगलित चिकुरा खड्गमुण्डाभिरामां
त्रास त्राणेष्टदात्रीं कुणपगणशिरो मालिनीं दीर्घनेत्राम् ।
संसारस्यैकसारां भवजन न हराम्भावितोभावनाभिः
क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ 8 ॥
ब्रह्मा विष्णुस्तथेशः परिणमति सदा त्वत्पदाम्भोज युक्तं
भाग्याभावान्न चाहं भवजननि भवत्पादयुग्मं भजामि ।
नित्यं लोभ प्रलोभैः कृतविशमतिः कामुकस्त्वां प्रयाषे
क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ 9 ॥
रागद्वेषैः प्रमत्तः कलुषयुततनुः कामनाभोगलुब्धः
कार्याकार्या विचारी कुलमति रहितः कौलसङ्घैर्विहीनः ।
क्व ध्यानम् ते क्व चार्चा क्व मनुजपनन्नैव किञ्चित् कृतोऽहं
क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ 10 ॥
रोगी दुःखी दरिद्रः परवशकृपणः पांशुलः पाप चेता
निद्रालस्य प्रसक्ताः सुजठरभरणे व्याकुलः कल्पितात्मा ।
किं ते पूजा विधानं त्वयि क्वचनुमतिः क्वानुरागः क्वचास्था
क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ 11 ॥
मिथ्या व्यामोह रागैः परिवृतमनसः क्लेशसङ्घान्वितस्य
क्षुन्निद्रौघान्वितस्य स्मरण विरहिणः पापकर्म प्रवृत्तेः ।
दारिद्र्यस्य क्व धर्मः क्व च जननिरुचिः क्व स्थितिः साधुसङ्घैः
क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ 12 ॥
मातस्तातस्यदेहाज्जननि जठरगः संस्थितस्त्वद्वशेहन्
त्वं हर्ता कारयित्री करण गुणमयी कर्महेतु स्वरूपा ।
त्वं बुद्धिश्चित्त संस्थाप्यहमतिभवती सर्वमेतत् क्षमस्व
क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ 13 ॥
त्वं भूमिस्त्वं जलं च त्वमसि हुतवहस्त्वं जगद्वायुरूपा
त्वं चाकाशं मनश्च प्रकृतिरसि महत्पूर्विका पूर्वपूर्वा ।
आत्मा त्वं चाऽसि मातः परमसि भवती त्वत्परन्नैव किञ्चित्
क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ 14 ॥
त्वं काली त्वं च तारा त्वमसि गिरिसुता सुन्दरी भैरवी त्वं
त्वं दुर्गा छिन्नमस्ता त्वमसि च भुवना त्वं हि लक्ष्मीः शिवा त्वम् ।
धूमा मातङ्गिनी त्वं त्वमसि च बगला मङ्गलादिस्तवाख्या
क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ 15 ॥
स्तोत्रेणानेन देवीं परिणमति जनो यः सदाभक्तियुक्तो
दुष्कृत्यादुर्ग सङ्घं परितरति शतं विघ्नतां नाशमेति ।
नाधिर्व्याधि कदाचिद्भवति यदि पुनः सर्वदा साऽपराधः
सर्वं तत् कामरूपे त्रिभुवनजननि क्षामये पुत्र बुद्ध्या ॥ 16 ॥
ज्ञाता वक्ता कवीशो भवति धनपतिर्दानशीलो दयात्मा
निष्पापी निष्कलङ्की कुलपति कुशलः सत्यवाग्धार्मिकश्च ।
नित्यानन्दो दयाढ्यः पशुगणविमुखः सत्पथा चारुशीलः
संसाराब्धिं सुकेन प्रतरति गिरिजा पादयुग्मावलम्बात् ॥ 17 ॥
इति श्री काली अपराध क्षमापण स्तोत्रम् ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits