Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

हनुमत्-पञ्चरत्नम्

वीताखिलविषयेच्छं जातानन्दाश्रुपुलकमत्यच्छम् सीतापति दूताद्यं वातात्मजमद्य भावये हृद्यम् 1 तरुणारुणमुखकमलं करुणारसपूरपूरितापाङ्गम् सञ्जीवनमाशासे मञ्जुलमहिमानमञ्जनाभाग्यम् 2 शम्बरवैरिशरातिगमम्बुजदल विपुललोचनोदारम् कम्बुगलमनिलदिष्टं बिम्बज्वलितोष्ठमेकमवलम्बे 3 दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिः दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः 4 वानरनिकराध्यक्षं दानवकुलकुमुदरविकरसदृशम् दीनजनावनदीक्षं पवनतपः पाकपुञ्जमद्राक्षम् 5 एतत्पवनसुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम् चिरमिह निखिलान्भोगान्भुङ्क्त्वा श्रीरामभक्तिभाग्भवति 6

Recite with devotion and pure heart

Regular practice brings spiritual benefits