Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

हनुमान् मङ्गलाष्टकम्

वैशाखे मासि कृष्णायां दशम्यां मन्दवासरे पूर्वाभाद्रा प्रभूताय मङ्गलं श्रीहनूमते 1 करुणारसपूर्णाय फलापूपप्रियाय माणिक्यहारकण्ठाय मङ्गलं श्रीहनूमते 2 सुवर्चलाकलत्राय चतुर्भुजधराय उष्ट्रारूढाय वीराय मङ्गलं श्रीहनूमते 3 दिव्यमङ्गलदेहाय पीताम्बरधराय तप्तकाञ्चनवर्णाय मङ्गलं श्रीहनूमते 4 भक्तरक्षणशीलाय जानकीशोकहारिणे सृष्टिकारणभूताय मङ्गलं श्रीहनूमते 5 रम्भावनविहाराय गन्धमादनवासिने सर्वलोकैकनाथाय मङ्गलं श्रीहनूमते 6 पञ्चाननाय भीमाय कालनेमिहराय कौण्डिन्यगोत्रजाताय मङ्गलं श्रीहनूमते 7 केसरीपुत्र दिव्याय सीतान्वेषपराय वानराणां वरिष्ठाय मङ्गलं श्रीहनूमते 8 इति श्री हनुमान् मङ्गलाष्टकम्

Recite with devotion and pure heart

Regular practice brings spiritual benefits