हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
हनुम अष्टोत्तर शत नामावलि
ओं
श्री
आञ्जनेयाय
नमः
।
ओं
महावीराय
नमः
।
ओं
हनुमते
नमः
।
ओं
मारुतात्मजाय
नमः
।
ओं
तत्त्वज्ञानप्रदाय
नमः
।
ओं
सीतादेवीमुद्राप्रदायकाय
नमः
।
ओं
अशोकवनिकाच्छेत्रे
नमः
।
ओं
सर्वमायाविभञ्जनाय
नमः
।
ओं
सर्वबन्धविमोक्त्रे
नमः
।
ओं
रक्षोविध्वंसकारकाय
नमः
।
10
ओं
परविद्यापरीहाराय
नमः
।
ओं
परशौर्यविनाशनाय
नमः
।
ओं
परमन्त्रनिराकर्त्रे
नमः
।
ओं
परयन्त्रप्रभेदकाय
नमः
।
ओं
सर्वग्रहविनाशिने
नमः
।
ओं
भीमसेनसहायकृते
नमः
।
ओं
सर्वदुःखहराय
नमः
।
ओं
सर्वलोकचारिणे
नमः
।
ओं
मनोजवाय
नमः
।
ओं
पारिजातद्रुमूलस्थाय
नमः
।
20
ओं
सर्वमन्त्रस्वरूपवते
नमः
।
ओं
सर्वतन्त्रस्वरूपिणे
नमः
।
ओं
सर्वयन्त्रात्मकाय
नमः
।
ओं
कपीश्वराय
नमः
।
ओं
महाकायाय
नमः
।
ओं
सर्वरोगहराय
नमः
।
ओं
प्रभवे
नमः
।
ओं
बलसिद्धिकराय
नमः
।
ओं
सर्वविद्यासम्पत्प्रदायकाय
नमः
।
ओं
कपिसेनानायकाय
नमः
।
30
ओं
भविष्यच्चतुराननाय
नमः
।
ओं
कुमारब्रह्मचारिणे
नमः
।
ओं
रत्नकुण्डलदीप्तिमते
नमः
।
ओं
सञ्चलद्वालसन्नद्धलम्बमानशिखोज्ज्वलाय
नमः
।
ओं
गन्धर्वविद्यातत्त्वज्ञाय
नमः
।
ओं
महाबलपराक्रमाय
नमः
।
ओं
कारागृहविमोक्त्रे
नमः
।
ओं
शृङ्खलाबन्धमोचकाय
नमः
।
ओं
सागरोत्तारकाय
नमः
।
ओं
प्राज्ञाय
नमः
।
40
ओं
रामदूताय
नमः
।
ओं
प्रतापवते
नमः
।
ओं
वानराय
नमः
।
ओं
केसरीसुताय
नमः
।
ओं
सीताशोकनिवारकाय
नमः
।
ओं
अञ्जनागर्भसम्भूताय
नमः
।
ओं
बालार्कसदृशाननाय
नमः
।
ओं
विभीषणप्रियकराय
नमः
।
ओं
दशग्रीवकुलान्तकाय
नमः
।
ओं
लक्ष्मणप्राणदात्रे
नमः
।
50
ओं
वज्रकायाय
नमः
।
ओं
महाद्युतये
नमः
।
ओं
चिरञ्जीविने
नमः
।
ओं
रामभक्ताय
नमः
।
ओं
दैत्यकार्यविघातकाय
नमः
।
ओं
अक्षहन्त्रे
नमः
।
ओं
काञ्चनाभाय
नमः
।
ओं
पञ्चवक्त्राय
नमः
।
ओं
महातपसे
नमः
।
ओं
लङ्किणीभञ्जनाय
नमः
।
60
ओं
श्रीमते
नमः
।
ओं
सिंहिकाप्राणभञ्जनाय
नमः
।
ओं
गन्धमादनशैलस्थाय
नमः
।
ओं
लङ्कापुरविदाहकाय
नमः
।
ओं
सुग्रीवसचिवाय
नमः
।
ओं
धीराय
नमः
।
ओं
शूराय
नमः
।
ओं
दैत्यकुलान्तकाय
नमः
।
ओं
सुरार्चिताय
नमः
।
ओं
महातेजसे
नमः
।
70
ओं
रामचूडामणिप्रदाय
नमः
।
ओं
कामरूपिणे
नमः
।
ओं
पिङ्गलाक्षाय
नमः
।
ओं
वार्धिमैनाकपूजिताय
नमः
।
ओं
कबलीकृतमार्ताण्डमण्डलाय
नमः
।
ओं
विजितेन्द्रियाय
नमः
।
ओं
रामसुग्रीवसन्धात्रे
नमः
।
ओं
महिरावणमर्दनाय
नमः
।
ओं
स्फटिकाभाय
नमः
।
ओं
वागधीशाय
नमः
।
80
ओं
नवव्याकृतिपण्डिताय
नमः
।
ओं
चतुर्बाहवे
नमः
।
ओं
दीनबन्धवे
नमः
।
ओं
महात्मने
नमः
।
ओं
भक्तवत्सलाय
नमः
।
ओं
सञ्जीवननगाहर्त्रे
नमः
।
ओं
शुचये
नमः
।
ओं
वाग्मिने
नमः
।
ओं
दृढव्रताय
नमः
।
ओं
कालनेमिप्रमथनाय
नमः
।
90
ओं
हरिमर्कटमर्कटाय
नमः
।
ओं
दान्ताय
नमः
।
ओं
शान्ताय
नमः
।
ओं
प्रसन्नात्मने
नमः
।
ओं
शतकण्ठमदापहृते
नमः
।
ओं
योगिने
नमः
।
ओं
रामकथालोलाय
नमः
।
ओं
सीतान्वेषणपण्डिताय
नमः
।
ओं
वज्रदंष्ट्राय
नमः
।
ओं
वज्रनखाय
नमः
।
100
ओं
रुद्रवीर्यसमुद्भवाय
नमः
।
ओं
इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवारकाय
नमः
।
ओं
पार्थध्वजाग्रसंवासिने
नमः
।
ओं
शरपञ्जरभेदकाय
नमः
।
ओं
दशबाहवे
नमः
।
ओं
लोकपूज्याय
नमः
।
ओं
जाम्बवत्प्रीतिवर्धनाय
नमः
।
ओं
सीतासमेतश्रीरामपादसेवाधुरन्धराय
नमः
।
108
इति
श्रीमदाञ्जनेयाष्टोत्तरशतनामावलिः
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits