Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

आपदुद्धारक हनुमत्स्तोत्रम्

ओं अस्य श्री आपदुद्धारक हनुमत् स्तोत्र महामन्त्र कवचस्य, विभीषण ऋषिः, हनुमान् देवता, सर्वापदुद्धारक श्रीहनुमत्प्रसादेन मम सर्वापन्निवृत्त्यर्थे, सर्वकार्यानुकूल्य सिद्ध्यर्थे जपे विनियोगः ध्यानम् वामे करे वैरिभिदं वहन्तं शैलं परे शृङ्खलहारिटङ्कम् दधानमच्छच्छवियज्ञसूत्रं भजे ज्वलत्कुण्डलमाञ्जनेयम् 1 संवीतकौपीन मुदञ्चिताङ्गुलिं समुज्ज्वलन्मौञ्जिमथोपवीतिनम् सकुण्डलं लम्बिशिखासमावृतं तमाञ्जनेयं शरणं प्रपद्ये 2 आपन्नाखिललोकार्तिहारिणे श्रीहनूमते अकस्मादागतोत्पात नाशनाय नमो नमः 3 सीतावियुक्तश्रीरामशोकदुःखभयापह तापत्रितयसंहारिन् आञ्जनेय नमोऽस्तु ते 4 आधिव्याधि महामारी ग्रहपीडापहारिणे प्राणापहर्त्रेदैत्यानां रामप्राणात्मने नमः 5 संसारसागरावर्त कर्तव्यभ्रान्तचेतसाम् शरणागतमर्त्यानां शरण्याय नमोऽस्तु ते 6 वज्रदेहाय कालाग्निरुद्रायाऽमिततेजसे ब्रह्मास्त्रस्तम्भनायास्मै नमः श्रीरुद्रमूर्तये 7 रामेष्टं करुणापूर्णं हनूमन्तं भयापहम् शत्रुनाशकरं भीमं सर्वाभीष्टप्रदायकम् 8 कारागृहे प्रयाणे वा सङ्ग्रामे शत्रुसङ्कटे जले स्थले तथाऽऽकाशे वाहनेषु चतुष्पथे 9 गजसिंह महाव्याघ्र चोर भीषण कानने ये स्मरन्ति हनूमन्तं तेषां नास्ति विपत् क्वचित् 10 सर्ववानरमुख्यानां प्राणभूतात्मने नमः शरण्याय वरेण्याय वायुपुत्राय ते नमः 11 प्रदोषे वा प्रभाते वा ये स्मरन्त्यञ्जनासुतम् अर्थसिद्धिं जयं कीर्तिं प्राप्नुवन्ति संशयः 12 जप्त्वा स्तोत्रमिदं मन्त्रं प्रतिवारं पठेन्नरः राजस्थाने सभास्थाने प्राप्ते वादे लभेज्जयम् 13 विभीषणकृतं स्तोत्रं यः पठेत् प्रयतो नरः सर्वापद्भ्यो विमुच्येत नाऽत्र कार्या विचारणा 14 मन्त्रः मर्कटेश महोत्साह सर्वशोकनिवारक शत्रून् संहर मां रक्ष श्रियं दापय भो हरे 15 इति विभीषणकृतं सर्वापदुद्धारक श्रीहनुमत् स्तोत्रम्

Recite with devotion and pure heart

Regular practice brings spiritual benefits