हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
आञ्जनेय भुजङ्ग प्रयात स्तोत्रम्
प्रसन्नाङ्गरागं
प्रभाकाञ्चनाङ्गं
जगद्भीतशौर्यं
तुषाराद्रिधैर्यम्
।
तृणीभूतहेतिं
रणोद्यद्विभूतिं
भजे
वायुपुत्रं
पवित्राप्तमित्रम्
॥
1
॥
भजे
पावनं
भावना
नित्यवासं
भजे
बालभानु
प्रभा
चारुभासम्
।
भजे
चन्द्रिका
कुन्द
मन्दार
हासं
भजे
सन्ततं
रामभूपाल
दासम्
॥
2
॥
भजे
लक्ष्मणप्राणरक्षातिदक्षं
भजे
तोषितानेक
गीर्वाणपक्षम्
।
भजे
घोर
सङ्ग्राम
सीमाहताक्षं
भजे
रामनामाति
सम्प्राप्तरक्षम्
॥
3
॥
कृताभीलनाधक्षितक्षिप्तपादं
घनक्रान्त
भृङ्गं
कटिस्थोरु
जङ्घम्
।
वियद्व्याप्तकेशं
भुजाश्लेषिताश्मं
जयश्री
समेतं
भजे
रामदूतम्
॥
4
॥
चलद्वालघातं
भ्रमच्चक्रवालं
कठोराट्टहासं
प्रभिन्नाब्जजाण्डम्
।
महासिंहनादा
द्विशीर्णत्रिलोकं
भजे
चाञ्जनेयं
प्रभुं
वज्रकायम्
॥
5
॥
रणे
भीषणे
मेघनादे
सनादे
सरोषे
समारोपणामित्र
मुख्ये
।
खगानां
घनानां
सुराणां
च
मार्गे
नटन्तं
समन्तं
हनूमन्तमीडे
॥
6
॥
घनद्रत्न
जम्भारि
दम्भोलि
भारं
घनद्दन्त
निर्धूत
कालोग्रदन्तम्
।
पदाघात
भीताब्धि
भूतादिवासं
रणक्षोणिदक्षं
भजे
पिङ्गलाक्षम्
॥
7
॥
महाग्राहपीडां
महोत्पातपीडां
महारोगपीडां
महातीव्रपीडाम्
।
हरत्यस्तु
ते
पादपद्मानुरक्तो
नमस्ते
कपिश्रेष्ठ
रामप्रियाय
॥
8
॥
जराभारतो
भूरि
पीडां
शरीरे
निराधारणारूढ
गाढ
प्रतापी
।
भवत्पादभक्तिं
भवद्भक्तिरक्तिं
कुरु
श्रीहनूमत्प्रभो
मे
दयालो
॥
9
॥
महायोगिनो
ब्रह्मरुद्रादयो
वा
न
जानन्ति
तत्त्वं
निजं
राघवस्य
।
कथं
ज्ञायते
मादृशे
नित्यमेव
प्रसीद
प्रभो
वानरेन्द्रो
नमस्ते
॥
10
॥
नमस्ते
महासत्त्ववाहाय
तुभ्यं
नमस्ते
महावज्रदेहाय
तुभ्यम्
।
नमस्ते
परीभूत
सूर्याय
तुभ्यं
नमस्ते
कृतामर्त्य
कार्याय
तुभ्यम्
॥
11
॥
नमस्ते
सदा
ब्रह्मचर्याय
तुभ्यं
नमस्ते
सदा
वायुपुत्राय
तुभ्यम्
।
नमस्ते
सदा
पिङ्गलाक्षाय
तुभ्यं
नमस्ते
सदा
रामभक्ताय
तुभ्यम्
॥
12
॥
हनूमद्भुजङ्गप्रयातं
प्रभाते
प्रदोषेऽपि
वा
चार्धरात्रेऽपि
मर्त्यः
।
पठन्नश्नतोऽपि
प्रमुक्तोघजालो
सदा
सर्वदा
रामभक्तिं
प्रयाति
॥
13
॥
इति
श्रीमदाञ्जनेय
भुजङ्गप्रयात
स्तोत्रम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits