हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
संसारमोहन गणेश कवचम्
श्रीविष्णुरुवाच
-
संसारमोहनस्यास्य
कवचस्य
प्रजापतिः
।
ऋषिश्छन्दश्च
बृहती
देवो
लम्बोदरः
स्वयम्
॥
1
॥
धर्मार्थकाममोक्षेषु
विनियोगः
प्रकीर्तितः
।
सर्वेषां
कवचानां
च
सारभूतमिदं
मुने
॥
2
॥
ओं
गं
हुं
श्रीगणेशाय
स्वाहा
मे
पातु
मस्तकम्
।
द्वात्रिंशदक्षरो
मन्त्रो
ललाटं
मे
सदाऽवतु
॥
3
॥
ओं
ह्रीं
क्लीं
श्रीं
गमिति
च
सन्ततं
पातु
लोचनम्
।
तालुकं
पातु
विघ्नेशः
सन्ततं
धरणीतले
॥
4
॥
ओं
ह्रीं
श्रीं
क्लीमिति
सन्ततं
पातु
नासिकाम्
।
ओं
गौं
गं
शूर्पकर्णाय
स्वाहा
पात्वधरं
मम
॥
5
॥
दन्तानि
तालुकां
जिह्वां
पातु
मे
षोडशाक्षरः
।
ओं
लं
श्रीं
लम्बोदरायेति
स्वाहा
गण्डं
सदाऽवतु
॥
6
॥
ओं
क्लीं
ह्रीं
विघ्ननाशाय
स्वहा
कर्णं
सदाऽवतु
।
ओं
श्रीं
गं
गजाननायेति
स्वाहा
स्कन्धं
सदाऽवतु
॥
7
॥
ओं
ह्रीं
विनायकायेति
स्वाहा
पृष्ठं
सदाऽवतु
।
ओं
क्लीं
ह्रीमिति
कङ्कालं
पातु
वक्षःस्थलं
च
गम्
॥
8
॥
करौ
पादौ
सदा
पातु
सर्वाङ्गं
विघ्ननिघ्नकृत्
।
प्राच्यां
लम्बोदरः
पातु
आग्नेय्यां
विघ्ननायकः
॥
9
॥
दक्षिणे
पातु
विघ्नेशो
नैरृत्यां
तु
गजाननः
।
पश्चिमे
पार्वतीपुत्रो
वायव्यां
शङ्करात्मजः
॥
10
॥
कृष्णस्यांशश्चोत्तरे
च
परिपूर्णतमस्य
च
।
ऐशान्यामेकदन्तश्च
हेरम्बः
पातु
चोर्ध्वतः
॥
11
॥
अधो
गणाधिपः
पातु
सर्वपूज्यश्च
सर्वतः
।
स्वप्ने
जागरणे
चैव
पातु
मां
योगिनां
गुरुः
॥
12
॥
कथितं
गणनाथस्य
सर्वमन्त्रौघविग्रहम्
।
संसारमोहनं
नाम
कवचं
परमाद्भुतम्
।
परं
वरं
सर्वपूज्यं
सर्वसङ्कटतारणम्
॥
13
॥
इति
ब्रह्मवैवर्ते
गणपतिखण्डे
संसारमोहनं
नाम
गणेश
कवचम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits