हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
महा गणपति सहस्रनाम स्तोत्रम्
व्यास
उवाच
–
कथं
नाम्नां
सहस्रं
तं
गणेश
उपदिष्टवान्
।
शिवदं
तन्ममाचक्ष्व
लोकानुग्रहतत्पर
॥
1
॥
ब्रह्मोवाच
–
देवः
पूर्वं
पुरारातिः
पुरत्रयजयोद्यमे
।
अनर्चनाद्गणेशस्य
जातो
विघ्नाकुलः
किल
॥
2
॥
मनसा
स
विनिर्धार्य
ददृशे
विघ्नकारणम्
।
महागणपतिं
भक्त्या
समभ्यर्च्य
यथाविधि
॥
3
॥
विघ्नप्रशमनोपायमपृच्छदपरिश्रमम्
।
संतुष्टः
पूजया
शंभोर्महागणपतिः
स्वयम्
॥
4
॥
सर्वविघ्नप्रशमनं
सर्वकामफलप्रदम्
।
ततस्तस्मै
स्वयं
नाम्नां
सहस्रमिदमब्रवीत्
॥
5
॥
अस्य
श्रीमहागणपतिसहस्रनामस्तोत्रमालामंत्रस्य
।
गणेश
ऋषिः,
महागणपतिर्देवता,
नानाविधानिच्छंदांसि
।
हुमिति
बीजम्,
तुंगमिति
शक्तिः,
स्वाहाशक्तिरिति
कीलकम्
।
सकलविघ्नविनाशनद्वारा
श्रीमहागणपतिप्रसादसिद्ध्यर्थे
जपे
विनियोगः
।
अथ
करन्यासः
–
गणेश्वरो
गणक्रीड
इत्यंगुष्ठाभ्यां
नमः
।
कुमारगुरुरीशान
इति
तर्जनीभ्यां
नमः
॥
ब्रह्मांडकुंभश्चिद्व्योमेति
मध्यमाभ्यां
नमः
।
रक्तो
रक्तांबरधर
इत्यनामिकाभ्यां
नमः
सर्वसद्गुरुसंसेव्य
इति
कनिष्ठिकाभ्यां
नमः
।
लुप्तविघ्नः
स्वभक्तानामिति
करतलकरपृष्ठाभ्यां
नमः
॥
अथ
अंगन्यासः
–
छंदश्छंदोद्भव
इति
हृदयाय
नमः
।
निष्कलो
निर्मल
इति
शिरसे
स्वाहा
।
सृष्टिस्थितिलयक्रीड
इति
शिखायै
वषट्
।
ज्ञानं
विज्ञानमानंद
इति
कवचाय
हुम्
।
अष्टांगयोगफलभृदिति
नेत्रत्रयाय
वौषट्
।
अनंतशक्तिसहित
इत्यस्त्राय
फट्
।
भूर्भुवः
स्वरों
इति
दिग्बंधः
।
अथ
ध्यानम्
–
गजवदनमचिंत्यं
तीक्ष्णदंष्ट्रं
त्रिनेत्रं
बृहदुदरमशेषं
भूतिराजं
पुराणम्
।
अमरवरसुपूज्यं
रक्तवर्णं
सुरेशं
पशुपतिसुतमीशं
विघ्नराजं
नमामि
॥
श्रीगणपतिरुवाच
–
ओं
गणेश्वरो
गणक्रीडो
गणनाथो
गणाधिपः
।
एकदंतो
वक्रतुंडो
गजवक्त्रो
महोदरः
॥
1
॥
लंबोदरो
धूम्रवर्णो
विकटो
विघ्ननाशनः
।
सुमुखो
दुर्मुखो
बुद्धो
विघ्नराजो
गजाननः
॥
2
॥
भीमः
प्रमोद
आमोदः
सुरानंदो
मदोत्कटः
।
हेरंबः
शंबरः
शंभुर्लंबकर्णो
महाबलः
॥
3
॥
नंदनो
लंपटो
भीमो
मेघनादो
गणंजयः
।
विनायको
विरूपाक्षो
वीरः
शूरवरप्रदः
॥
4
॥
महागणपतिर्बुद्धिप्रियः
क्षिप्रप्रसादनः
।
रुद्रप्रियो
गणाध्यक्ष
उमापुत्रोऽघनाशनः
॥
5
॥
कुमारगुरुरीशानपुत्रो
मूषकवाहनः
।
सिद्धिप्रियः
सिद्धिपतिः
सिद्धः
सिद्धिविनायकः
॥
6
॥
अविघ्नस्तुंबुरुः
सिंहवाहनो
मोहिनीप्रियः
।
कटंकटो
राजपुत्रः
शाकलः
संमितोमितः
॥
7
॥
कूष्मांडसामसंभूतिर्दुर्जयो
धूर्जयो
जयः
।
भूपतिर्भुवनपतिर्भूतानां
पतिरव्ययः
॥
8
॥
विश्वकर्ता
विश्वमुखो
विश्वरूपो
निधिर्गुणः
।
कविः
कवीनामृषभो
ब्रह्मण्यो
ब्रह्मवित्प्रियः
॥
9
॥
ज्येष्ठराजो
निधिपतिर्निधिप्रियपतिप्रियः
।
हिरण्मयपुरांतःस्थः
सूर्यमंडलमध्यगः
॥
10
॥
कराहतिध्वस्तसिंधुसलिलः
पूषदंतभित्
।
उमांककेलिकुतुकी
मुक्तिदः
कुलपावनः
॥
11
॥
किरीटी
कुंडली
हारी
वनमाली
मनोमयः
।
वैमुख्यहतदैत्यश्रीः
पादाहतिजितक्षितिः
॥
12
॥
सद्योजातः
स्वर्णमुंजमेखली
दुर्निमित्तहृत्
।
दुःस्वप्नहृत्प्रसहनो
गुणी
नादप्रतिष्ठितः
॥
13
॥
सुरूपः
सर्वनेत्राधिवासो
वीरासनाश्रयः
।
पीतांबरः
खंडरदः
खंडवैशाखसंस्थितः
॥
14
॥
चित्रांगः
श्यामदशनो
भालचंद्रो
हविर्भुजः
।
योगाधिपस्तारकस्थः
पुरुषो
गजकर्णकः
॥
15
॥
गणाधिराजो
विजयः
स्थिरो
गजपतिध्वजी
।
देवदेवः
स्मरः
प्राणदीपको
वायुकीलकः
॥
16
॥
विपश्चिद्वरदो
नादो
नादभिन्नमहाचलः
।
वराहरदनो
मृत्युंजयो
व्याघ्राजिनांबरः
॥
17
॥
इच्छाशक्तिभवो
देवत्राता
दैत्यविमर्दनः
।
शंभुवक्त्रोद्भवः
शंभुकोपहा
शंभुहास्यभूः
॥
18
॥
शंभुतेजाः
शिवाशोकहारी
गौरीसुखावहः
।
उमांगमलजो
गौरीतेजोभूः
स्वर्धुनीभवः
॥
19
॥
यज्ञकायो
महानादो
गिरिवर्ष्मा
शुभाननः
।
सर्वात्मा
सर्वदेवात्मा
ब्रह्ममूर्धा
ककुप्श्रुतिः
॥
20
॥
ब्रह्मांडकुंभश्चिद्व्योमभालःसत्यशिरोरुहः
।
जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक्
॥
21
॥
गिरींद्रैकरदो
धर्माधर्मोष्ठः
सामबृंहितः
।
ग्रहर्क्षदशनो
वाणीजिह्वो
वासवनासिकः
॥
22
॥
भ्रूमध्यसंस्थितकरो
ब्रह्मविद्यामदोदकः
।
कुलाचलांसः
सोमार्कघंटो
रुद्रशिरोधरः
॥
23
॥
नदीनदभुजः
सर्पांगुलीकस्तारकानखः
।
व्योमनाभिः
श्रीहृदयो
मेरुपृष्ठोऽर्णवोदरः
॥
24
॥
कुक्षिस्थयक्षगंधर्वरक्षःकिन्नरमानुषः
।
पृथ्वीकटिः
सृष्टिलिंगः
शैलोरुर्दस्रजानुकः
॥
25
॥
पातालजंघो
मुनिपात्कालांगुष्ठस्त्रयीतनुः
।
ज्योतिर्मंडललांगूलो
हृदयालाननिश्चलः
॥
26
॥
हृत्पद्मकर्णिकाशाली
वियत्केलिसरोवरः
।
सद्भक्तध्याननिगडः
पूजावारिनिवारितः
॥
27
॥
प्रतापी
काश्यपो
मंता
गणको
विष्टपी
बली
।
यशस्वी
धार्मिको
जेता
प्रथमः
प्रमथेश्वरः
॥
28
॥
चिंतामणिर्द्वीपपतिः
कल्पद्रुमवनालयः
।
रत्नमंडपमध्यस्थो
रत्नसिंहासनाश्रयः
॥
29
॥
तीव्राशिरोद्धृतपदो
ज्वालिनीमौलिलालितः
।
नंदानंदितपीठश्रीर्भोगदो
भूषितासनः
॥
30
॥
सकामदायिनीपीठः
स्फुरदुग्रासनाश्रयः
।
तेजोवतीशिरोरत्नं
सत्यानित्यावतंसितः
॥
31
॥
सविघ्ननाशिनीपीठः
सर्वशक्त्यंबुजालयः
।
लिपिपद्मासनाधारो
वह्निधामत्रयालयः
॥
32
॥
उन्नतप्रपदो
गूढगुल्फः
संवृतपार्ष्णिकः
।
पीनजंघः
श्लिष्टजानुः
स्थूलोरुः
प्रोन्नमत्कटिः
॥
33
॥
निम्ननाभिः
स्थूलकुक्षिः
पीनवक्षा
बृहद्भुजः
।
पीनस्कंधः
कंबुकंठो
लंबोष्ठो
लंबनासिकः
॥
34
॥
भग्नवामरदस्तुंगसव्यदंतो
महाहनुः
।
ह्रस्वनेत्रत्रयः
शूर्पकर्णो
निबिडमस्तकः
॥
35
॥
स्तबकाकारकुंभाग्रो
रत्नमौलिर्निरंकुशः
।
सर्पहारकटीसूत्रः
सर्पयज्ञोपवीतवान्
॥
36
॥
सर्पकोटीरकटकः
सर्पग्रैवेयकांगदः
।
सर्पकक्षोदराबंधः
सर्पराजोत्तरच्छदः
॥
37
॥
रक्तो
रक्तांबरधरो
रक्तमालाविभूषणः
।
रक्तेक्षनो
रक्तकरो
रक्तताल्वोष्ठपल्लवः
॥
38
॥
श्वेतः
श्वेतांबरधरः
श्वेतमालाविभूषणः
।
श्वेतातपत्ररुचिरः
श्वेतचामरवीजितः
॥
39
॥
सर्वावयवसंपूर्णः
सर्वलक्षणलक्षितः
।
सर्वाभरणशोभाढ्यः
सर्वशोभासमन्वितः
॥
40
॥
सर्वमंगलमांगल्यः
सर्वकारणकारणम्
।
सर्वदेववरः
शारंगी
बीजपूरी
गदाधरः
॥
41
॥
शुभांगो
लोकसारंगः
सुतंतुस्तंतुवर्धनः
।
किरीटी
कुंडली
हारी
वनमाली
शुभांगदः
॥
42
॥
इक्षुचापधरः
शूली
चक्रपाणिः
सरोजभृत्
।
पाशी
धृतोत्पलः
शालिमंजरीभृत्स्वदंतभृत्
॥
43
॥
कल्पवल्लीधरो
विश्वाभयदैककरो
वशी
।
अक्षमालाधरो
ज्ञानमुद्रावान्
मुद्गरायुधः
॥
44
॥
पूर्णपात्री
कंबुधरो
विधृतांकुशमूलकः
।
करस्थाम्रफलश्चूतकलिकाभृत्कुठारवान्
॥
45
॥
पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः
।
भारतीसुंदरीनाथो
विनायकरतिप्रियः
॥
46
॥
महालक्ष्मीप्रियतमः
सिद्धलक्ष्मीमनोरमः
।
रमारमेशपूर्वांगो
दक्षिणोमामहेश्वरः
॥
47
॥
महीवराहवामांगो
रतिकंदर्पपश्चिमः
।
आमोदमोदजननः
सप्रमोदप्रमोदनः
॥
48
॥
संवर्धितमहावृद्धिरृद्धिसिद्धिप्रवर्धनः
।
दंतसौमुख्यसुमुखः
कांतिकंदलिताश्रयः
॥
49
॥
मदनावत्याश्रितांघ्रिः
कृतवैमुख्यदुर्मुखः
।
विघ्नसंपल्लवः
पद्मः
सर्वोन्नतमदद्रवः
॥
50
॥
विघ्नकृन्निम्नचरणो
द्राविणीशक्तिसत्कृतः
।
तीव्राप्रसन्ननयनो
ज्वालिनीपालितैकदृक्
॥
51
॥
मोहिनीमोहनो
भोगदायिनीकांतिमंडनः
।
कामिनीकांतवक्त्रश्रीरधिष्ठितवसुंधरः
॥
52
॥
वसुधारामदोन्नादो
महाशंखनिधिप्रियः
।
नमद्वसुमतीमाली
महापद्मनिधिः
प्रभुः
॥
53
॥
सर्वसद्गुरुसंसेव्यः
शोचिष्केशहृदाश्रयः
।
ईशानमूर्धा
देवेंद्रशिखः
पवननंदनः
॥
54
॥
प्रत्युग्रनयनो
दिव्यो
दिव्यास्त्रशतपर्वधृक्
।
ऐरावतादिसर्वाशावारणो
वारणप्रियः
॥
55
॥
वज्राद्यस्त्रपरीवारो
गणचंडसमाश्रयः
।
जयाजयपरिकरो
विजयाविजयावहः
॥
56
॥
अजयार्चितपादाब्जो
नित्यानंदवनस्थितः
।
विलासिनीकृतोल्लासः
शौंडी
सौंदर्यमंडितः
॥
57
॥
अनंतानंतसुखदः
सुमंगलसुमंगलः
।
ज्ञानाश्रयः
क्रियाधार
इच्छाशक्तिनिषेवितः
॥
58
॥
सुभगासंश्रितपदो
ललिताललिताश्रयः
।
कामिनीपालनः
कामकामिनीकेलिलालितः
॥
59
॥
सरस्वत्याश्रयो
गौरीनंदनः
श्रीनिकेतनः
।
गुरुगुप्तपदो
वाचासिद्धो
वागीश्वरीपतिः
॥
60
॥
नलिनीकामुको
वामारामो
ज्येष्ठामनोरमः
।
रौद्रीमुद्रितपादाब्जो
हुंबीजस्तुंगशक्तिकः
॥
61
॥
विश्वादिजननत्राणः
स्वाहाशक्तिः
सकीलकः
।
अमृताब्धिकृतावासो
मदघूर्णितलोचनः
॥
62
॥
उच्छिष्टोच्छिष्टगणको
गणेशो
गणनायकः
।
सार्वकालिकसंसिद्धिर्नित्यसेव्यो
दिगंबरः
॥
63
॥
अनपायोऽनंतदृष्टिरप्रमेयोऽजरामरः
।
अनाविलोऽप्रतिहतिरच्युतोऽमृतमक्षरः
॥
64
॥
अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोमलः
।
अमेयसिद्धिरद्वैतमघोरोऽग्निसमाननः
॥
65
॥
अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः
।
आधारपीठमाधार
आधाराधेयवर्जितः
॥
66
॥
आखुकेतन
आशापूरक
आखुमहारथः
।
इक्षुसागरमध्यस्थ
इक्षुभक्षणलालसः
॥
67
॥
इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः
।
इंद्रगोपसमानश्रीरिंद्रनीलसमद्युतिः
॥
68
॥
इंदीवरदलश्याम
इंदुमंडलमंडितः
।
इध्मप्रिय
इडाभाग
इडावानिंदिराप्रियः
॥
69
॥
इक्ष्वाकुविघ्नविध्वंसी
इतिकर्तव्यतेप्सितः
।
ईशानमौलिरीशान
ईशानप्रिय
ईतिहा
॥
70
॥
ईषणात्रयकल्पांत
ईहामात्रविवर्जितः
।
उपेंद्र
उडुभृन्मौलिरुडुनाथकरप्रियः
॥
71
॥
उन्नतानन
उत्तुंग
उदारस्त्रिदशाग्रणीः
।
ऊर्जस्वानूष्मलमद
ऊहापोहदुरासदः
॥
72
॥
ऋग्यजुःसामनयन
ऋद्धिसिद्धिसमर्पकः
।
ऋजुचित्तैकसुलभो
ऋणत्रयविमोचनः
॥
73
॥
लुप्तविघ्नः
स्वभक्तानां
लुप्तशक्तिः
सुरद्विषाम्
।
लुप्तश्रीर्विमुखार्चानां
लूताविस्फोटनाशनः
॥
74
॥
एकारपीठमध्यस्थ
एकपादकृतासनः
।
एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः
॥
75
॥
ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः
।
ऐरंमदसमोन्मेष
ऐरावतसमाननः
॥
76
॥
ओंकारवाच्य
ओंकार
ओजस्वानोषधीपतिः
।
औदार्यनिधिरौद्धत्यधैर्य
औन्नत्यनिःसमः
॥
77
॥
अंकुशः
सुरनागानामंकुशाकारसंस्थितः
।
अः
समस्तविसर्गांतपदेषु
परिकीर्तितः
॥
78
॥
कमंडलुधरः
कल्पः
कपर्दी
कलभाननः
।
कर्मसाक्षी
कर्मकर्ता
कर्माकर्मफलप्रदः
॥
79
॥
कदंबगोलकाकारः
कूष्मांडगणनायकः
।
कारुण्यदेहः
कपिलः
कथकः
कटिसूत्रभृत्
॥
80
॥
खर्वः
खड्गप्रियः
खड्गः
खांतांतःस्थः
खनिर्मलः
।
खल्वाटशृंगनिलयः
खट्वांगी
खदुरासदः
॥
81
॥
गुणाढ्यो
गहनो
गद्यो
गद्यपद्यसुधार्णवः
।
गद्यगानप्रियो
गर्जो
गीतगीर्वाणपूर्वजः
॥
82
॥
गुह्याचाररतो
गुह्यो
गुह्यागमनिरूपितः
।
गुहाशयो
गुडाब्धिस्थो
गुरुगम्यो
गुरुर्गुरुः
॥
83
॥
घंटाघर्घरिकामाली
घटकुंभो
घटोदरः
।
ङकारवाच्यो
ङाकारो
ङकाराकारशुंडभृत्
॥
84
॥
चंडश्चंडेश्वरश्चंडी
चंडेशश्चंडविक्रमः
।
चराचरपिता
चिंतामणिश्चर्वणलालसः
॥
85
॥
छंदश्छंदोद्भवश्छंदो
दुर्लक्ष्यश्छंदविग्रहः
।
जगद्योनिर्जगत्साक्षी
जगदीशो
जगन्मयः
॥
86
॥
जप्यो
जपपरो
जाप्यो
जिह्वासिंहासनप्रभुः
।
स्रवद्गंडोल्लसद्धानझंकारिभ्रमराकुलः
॥
87
॥
टंकारस्फारसंरावष्टंकारमणिनूपुरः
।
ठद्वयीपल्लवांतस्थसर्वमंत्रेषु
सिद्धिदः
॥
88
॥
डिंडिमुंडो
डाकिनीशो
डामरो
डिंडिमप्रियः
।
ढक्कानिनादमुदितो
ढौंको
ढुंढिविनायकः
॥
89
॥
तत्त्वानां
प्रकृतिस्तत्त्वं
तत्त्वंपदनिरूपितः
।
तारकांतरसंस्थानस्तारकस्तारकांतकः
॥
90
॥
स्थाणुः
स्थाणुप्रियः
स्थाता
स्थावरं
जंगमं
जगत्
।
दक्षयज्ञप्रमथनो
दाता
दानं
दमो
दया
॥
91
॥
दयावांदिव्यविभवो
दंडभृद्दंडनायकः
।
दंतप्रभिन्नाभ्रमालो
दैत्यवारणदारणः
॥
92
॥
दंष्ट्रालग्नद्वीपघटो
देवार्थनृगजाकृतिः
।
धनं
धनपतेर्बंधुर्धनदो
धरणीधरः
॥
93
॥
ध्यानैकप्रकटो
ध्येयो
ध्यानं
ध्यानपरायणः
।
ध्वनिप्रकृतिचीत्कारो
ब्रह्मांडावलिमेखलः
॥
94
॥
नंद्यो
नंदिप्रियो
नादो
नादमध्यप्रतिष्ठितः
।
निष्कलो
निर्मलो
नित्यो
नित्यानित्यो
निरामयः
॥
95
॥
परं
व्योम
परं
धाम
परमात्मा
परं
पदम्
॥
96
॥
परात्परः
पशुपतिः
पशुपाशविमोचनः
।
पूर्णानंदः
परानंदः
पुराणपुरुषोत्तमः
॥
97
॥
पद्मप्रसन्नवदनः
प्रणताज्ञाननाशनः
।
प्रमाणप्रत्ययातीतः
प्रणतार्तिनिवारणः
॥
98
॥
फणिहस्तः
फणिपतिः
फूत्कारः
फणितप्रियः
।
बाणार्चितांघ्रियुगलो
बालकेलिकुतूहली
।
ब्रह्म
ब्रह्मार्चितपदो
ब्रह्मचारी
बृहस्पतिः
॥
99
॥
बृहत्तमो
ब्रह्मपरो
ब्रह्मण्यो
ब्रह्मवित्प्रियः
।
बृहन्नादाग्र्यचीत्कारो
ब्रह्मांडावलिमेखलः
॥
100
॥
भ्रूक्षेपदत्तलक्ष्मीको
भर्गो
भद्रो
भयापहः
।
भगवान्
भक्तिसुलभो
भूतिदो
भूतिभूषणः
॥
101
॥
भव्यो
भूतालयो
भोगदाता
भ्रूमध्यगोचरः
।
मंत्रो
मंत्रपतिर्मंत्री
मदमत्तो
मनो
मयः
॥
102
॥
मेखलाहीश्वरो
मंदगतिर्मंदनिभेक्षणः
।
महाबलो
महावीर्यो
महाप्राणो
महामनाः
॥
103
॥
यज्ञो
यज्ञपतिर्यज्ञगोप्ता
यज्ञफलप्रदः
।
यशस्करो
योगगम्यो
याज्ञिको
याजकप्रियः
॥
104
॥
रसो
रसप्रियो
रस्यो
रंजको
रावणार्चितः
।
राज्यरक्षाकरो
रत्नगर्भो
राज्यसुखप्रदः
॥
105
॥
लक्षो
लक्षपतिर्लक्ष्यो
लयस्थो
लड्डुकप्रियः
।
लासप्रियो
लास्यपरो
लाभकृल्लोकविश्रुतः
॥
106
॥
वरेण्यो
वह्निवदनो
वंद्यो
वेदांतगोचरः
।
विकर्ता
विश्वतश्चक्षुर्विधाता
विश्वतोमुखः
॥
107
॥
वामदेवो
विश्वनेता
वज्रिवज्रनिवारणः
।
विवस्वद्बंधनो
विश्वाधारो
विश्वेश्वरो
विभुः
॥
108
॥
शब्दब्रह्म
शमप्राप्यः
शंभुशक्तिगणेश्वरः
।
शास्ता
शिखाग्रनिलयः
शरण्यः
शंबरेश्वरः
॥
109
॥
षडृतुकुसुमस्रग्वी
षडाधारः
षडक्षरः
।
संसारवैद्यः
सर्वज्ञः
सर्वभेषजभेषजम्
॥
110
॥
सृष्टिस्थितिलयक्रीडः
सुरकुंजरभेदकः
।
सिंदूरितमहाकुंभः
सदसद्भक्तिदायकः
॥
111
॥
साक्षी
समुद्रमथनः
स्वयंवेद्यः
स्वदक्षिणः
।
स्वतंत्रः
सत्यसंकल्पः
सामगानरतः
सुखी
॥
112
॥
हंसो
हस्तिपिशाचीशो
हवनं
हव्यकव्यभुक्
।
हव्यं
हुतप्रियो
हृष्टो
हृल्लेखामंत्रमध्यगः
॥
113
॥
क्षेत्राधिपः
क्षमाभर्ता
क्षमाक्षमपरायणः
।
क्षिप्रक्षेमकरः
क्षेमानंदः
क्षोणीसुरद्रुमः
॥
114
॥
धर्मप्रदोऽर्थदः
कामदाता
सौभाग्यवर्धनः
।
विद्याप्रदो
विभवदो
भुक्तिमुक्तिफलप्रदः
॥
115
॥
आभिरूप्यकरो
वीरश्रीप्रदो
विजयप्रदः
।
सर्ववश्यकरो
गर्भदोषहा
पुत्रपौत्रदः
॥
116
॥
मेधादः
कीर्तिदः
शोकहारी
दौर्भाग्यनाशनः
।
प्रतिवादिमुखस्तंभो
रुष्टचित्तप्रसादनः
॥
117
॥
पराभिचारशमनो
दुःखहा
बंधमोक्षदः
।
लवस्त्रुटिः
कला
काष्ठा
निमेषस्तत्परक्षणः
॥
118
॥
घटी
मुहूर्तः
प्रहरो
दिवा
नक्तमहर्निशम्
।
पक्षो
मासर्त्वयनाब्दयुगं
कल्पो
महालयः
॥
119
॥
राशिस्तारा
तिथिर्योगो
वारः
करणमंशकम्
।
लग्नं
होरा
कालचक्रं
मेरुः
सप्तर्षयो
ध्रुवः
॥
120
॥
राहुर्मंदः
कविर्जीवो
बुधो
भौमः
शशी
रविः
।
कालः
सृष्टिः
स्थितिर्विश्वं
स्थावरं
जंगमं
जगत्
॥
121
॥
भूरापोऽग्निर्मरुद्व्योमाहंकृतिः
प्रकृतिः
पुमान्
।
ब्रह्मा
विष्णुः
शिवो
रुद्र
ईशः
शक्तिः
सदाशिवः
॥
122
॥
त्रिदशाः
पितरः
सिद्धा
यक्षा
रक्षांसि
किन्नराः
।
सिद्धविद्याधरा
भूता
मनुष्याः
पशवः
खगाः
॥
123
॥
समुद्राः
सरितः
शैला
भूतं
भव्यं
भवोद्भवः
।
सांख्यं
पातंजलं
योगं
पुराणानि
श्रुतिः
स्मृतिः
॥
124
॥
वेदांगानि
सदाचारो
मीमांसा
न्यायविस्तरः
।
आयुर्वेदो
धनुर्वेदो
गांधर्वं
काव्यनाटकम्
॥
125
॥
वैखानसं
भागवतं
मानुषं
पांचरात्रकम्
।
शैवं
पाशुपतं
कालामुखंभैरवशासनम्
॥
126
॥
शाक्तं
वैनायकं
सौरं
जैनमार्हतसंहिता
।
सदसद्व्यक्तमव्यक्तं
सचेतनमचेतनम्
॥
127
॥
बंधो
मोक्षः
सुखं
भोगो
योगः
सत्यमणुर्महान्
।
स्वस्ति
हुंफट्
स्वधा
स्वाहा
श्रौषट्
वौषट्
वषण्
नमः
128
॥
ज्ञानं
विज्ञानमानंदो
बोधः
संवित्समोऽसमः
।
एक
एकाक्षराधार
एकाक्षरपरायणः
॥
129
॥
एकाग्रधीरेकवीर
एकोऽनेकस्वरूपधृक्
।
द्विरूपो
द्विभुजो
द्व्यक्षो
द्विरदो
द्वीपरक्षकः
॥
130
॥
द्वैमातुरो
द्विवदनो
द्वंद्वहीनो
द्वयातिगः
।
त्रिधामा
त्रिकरस्त्रेता
त्रिवर्गफलदायकः
॥
131
॥
त्रिगुणात्मा
त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः
।
चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः
॥
132
॥
चतुर्बाहुश्चतुर्दंतश्चतुरात्मा
चतुर्भुजः
।
चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः
133
॥
चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसंभवः
॥
पंचाक्षरात्मा
पंचात्मा
पंचास्यः
पंचकृत्तमः
॥
134
॥
पंचाधारः
पंचवर्णः
पंचाक्षरपरायणः
।
पंचतालः
पंचकरः
पंचप्रणवमातृकः
॥
135
॥
पंचब्रह्ममयस्फूर्तिः
पंचावरणवारितः
।
पंचभक्षप्रियः
पंचबाणः
पंचशिखात्मकः
॥
136
॥
षट्कोणपीठः
षट्चक्रधामा
षड्ग्रंथिभेदकः
।
षडंगध्वांतविध्वंसी
षडंगुलमहाह्रदः
॥
137
॥
षण्मुखः
षण्मुखभ्राता
षट्शक्तिपरिवारितः
।
षड्वैरिवर्गविध्वंसी
षडूर्मिभयभंजनः
॥
138
॥
षट्तर्कदूरः
षट्कर्मा
षड्गुणः
षड्रसाश्रयः
।
सप्तपातालचरणः
सप्तद्वीपोरुमंडलः
॥
139
॥
सप्तस्वर्लोकमुकुटः
सप्तसप्तिवरप्रदः
।
सप्तांगराज्यसुखदः
सप्तर्षिगणवंदितः
॥
140
॥
सप्तच्छंदोनिधिः
सप्तहोत्रः
सप्तस्वराश्रयः
।
सप्ताब्धिकेलिकासारः
सप्तमातृनिषेवितः
॥
141
॥
सप्तच्छंदो
मोदमदः
सप्तच्छंदो
मखप्रभुः
।
अष्टमूर्तिर्ध्येयमूर्तिरष्टप्रकृतिकारणम्
॥
142
॥
अष्टांगयोगफलभृदष्टपत्रांबुजासनः
।
अष्टशक्तिसमानश्रीरष्टैश्वर्यप्रवर्धनः
॥
143
॥
अष्टपीठोपपीठश्रीरष्टमातृसमावृतः
।
अष्टभैरवसेव्योऽष्टवसुवंद्योऽष्टमूर्तिभृत्
॥
144
॥
अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः
।
अष्टश्रीरष्टसामश्रीरष्टैश्वर्यप्रदायकः
।
नवनागासनाध्यासी
नवनिध्यनुशासितः
॥
145
॥
नवद्वारपुरावृत्तो
नवद्वारनिकेतनः
।
नवनाथमहानाथो
नवनागविभूषितः
॥
146
॥
नवनारायणस्तुल्यो
नवदुर्गानिषेवितः
।
नवरत्नविचित्रांगो
नवशक्तिशिरोद्धृतः
॥
147
॥
दशात्मको
दशभुजो
दशदिक्पतिवंदितः
।
दशाध्यायो
दशप्राणो
दशेंद्रियनियामकः
॥
148
॥
दशाक्षरमहामंत्रो
दशाशाव्यापिविग्रहः
।
एकादशमहारुद्रैःस्तुतश्चैकादशाक्षरः
॥
149
॥
द्वादशद्विदशाष्टादिदोर्दंडास्त्रनिकेतनः
।
त्रयोदशभिदाभिन्नो
विश्वेदेवाधिदैवतम्
॥
150
॥
चतुर्दशेंद्रवरदश्चतुर्दशमनुप्रभुः
।
चतुर्दशाद्यविद्याढ्यश्चतुर्दशजगत्पतिः
॥
151
॥
सामपंचदशः
पंचदशीशीतांशुनिर्मलः
।
तिथिपंचदशाकारस्तिथ्या
पंचदशार्चितः
॥
152
॥
षोडशाधारनिलयः
षोडशस्वरमातृकः
।
षोडशांतपदावासः
षोडशेंदुकलात्मकः
॥
153
॥
कलासप्तदशी
सप्तदशसप्तदशाक्षरः
।
अष्टादशद्वीपपतिरष्टादशपुराणकृत्
॥
154
॥
अष्टादशौषधीसृष्टिरष्टादशविधिः
स्मृतः
।
अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः
॥
155
॥
अष्टादशान्नसंपत्तिरष्टादशविजातिकृत्
।
एकविंशः
पुमानेकविंशत्यंगुलिपल्लवः
॥
156
॥
चतुर्विंशतितत्त्वात्मा
पंचविंशाख्यपूरुषः
।
सप्तविंशतितारेशः
सप्तविंशतियोगकृत्
॥
157
॥
द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्रदः
।
षट्त्रिंशत्तत्त्वसंभूतिरष्टत्रिंशत्कलात्मकः
॥
158
॥
पंचाशद्विष्णुशक्तीशः
पंचाशन्मातृकालयः
।
द्विपंचाशद्वपुःश्रेणीत्रिषष्ट्यक्षरसंश्रयः
।
पंचाशदक्षरश्रेणीपंचाशद्रुद्रविग्रहः
॥
159
॥
चतुःषष्टिमहासिद्धियोगिनीवृंदवंदितः
।
नमदेकोनपंचाशन्मरुद्वर्गनिरर्गलः
॥
160
॥
चतुःषष्ट्यर्थनिर्णेता
चतुःषष्टिकलानिधिः
।
अष्टषष्टिमहातीर्थक्षेत्रभैरववंदितः
॥
161
॥
चतुर्नवतिमंत्रात्मा
षण्णवत्यधिकप्रभुः
।
शतानंदः
शतधृतिः
शतपत्रायतेक्षणः
॥
162
॥
शतानीकः
शतमखः
शतधारावरायुधः
।
सहस्रपत्रनिलयः
सहस्रफणिभूषणः
॥
163
॥
सहस्रशीर्षा
पुरुषः
सहस्राक्षः
सहस्रपात्
।
सहस्रनामसंस्तुत्यः
सहस्राक्षबलापहः
॥
164
॥
दशसाहस्रफणिभृत्फणिराजकृतासनः
।
अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रपाठितः
॥
165
॥
लक्षाधारः
प्रियाधारो
लक्षाधारमनोमयः
।
चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशकः
॥
166
॥
चतुरशीतिलक्षाणां
जीवानां
देहसंस्थितः
।
कोटिसूर्यप्रतीकाशः
कोटिचंद्रांशुनिर्मलः
॥
167
॥
शिवोद्भवाद्यष्टकोटिवैनायकधुरंधरः
।
सप्तकोटिमहामंत्रमंत्रितावयवद्युतिः
॥
168
॥
त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः
।
अनंतदेवतासेव्यो
ह्यनंतशुभदायकः
॥
169
॥
अनंतनामानंतश्रीरनंतोऽनंतसौख्यदः
।
अनंतशक्तिसहितो
ह्यनंतमुनिसंस्तुतः
॥
170
॥
इति
वैनायकं
नाम्नां
सहस्रमिदमीरितम्
।
इदं
ब्राह्मे
मुहूर्ते
यः
पठति
प्रत्यहं
नरः
॥
171
॥
करस्थं
तस्य
सकलमैहिकामुष्मिकं
सुखम्
।
आयुरारोग्यमैश्वर्यं
धैर्यं
शौर्यं
बलं
यशः
॥
172
॥
मेधा
प्रज्ञा
धृतिः
कांतिः
सौभाग्यमभिरूपता
।
सत्यं
दया
क्षमा
शांतिर्दाक्षिण्यं
धर्मशीलता
॥
173
॥
जगत्संवननं
विश्वसंवादो
वेदपाटवम्
।
सभापांडित्यमौदार्यं
गांभीर्यं
ब्रह्मवर्चसम्
॥
174
॥
ओजस्तेजः
कुलं
शीलं
प्रतापो
वीर्यमार्यता
।
ज्ञानं
विज्ञानमास्तिक्यं
स्थैर्यं
विश्वासता
तथा
॥
175
॥
धनधान्यादिवृद्धिश्च
सकृदस्य
जपाद्भवेत्
।
वश्यं
चतुर्विधं
विश्वं
जपादस्य
प्रजायते
॥
176
॥
राज्ञो
राजकलत्रस्य
राजपुत्रस्य
मंत्रिणः
।
जप्यते
यस्य
वश्यार्थे
स
दासस्तस्य
जायते
॥
177
॥
धर्मार्थकाममोक्षाणामनायासेन
साधनम्
।
शाकिनीडाकिनीरक्षोयक्षग्रहभयापहम्
॥
178
॥
साम्राज्यसुखदं
सर्वसपत्नमदमर्दनम्
।
समस्तकलहध्वंसि
दग्धबीजप्ररोहणम्
॥
179
॥
दुःस्वप्नशमनं
क्रुद्धस्वामिचित्तप्रसादनम्
।
षड्वर्गाष्टमहासिद्धित्रिकालज्ञानकारणम्
॥
180
॥
परकृत्यप्रशमनं
परचक्रप्रमर्दनम्
।
संग्राममार्गे
सवेषामिदमेकं
जयावहम्
॥
181
॥
सर्ववंध्यत्वदोषघ्नं
गर्भरक्षैककारणम्
।
पठ्यते
प्रत्यहं
यत्र
स्तोत्रं
गणपतेरिदम्
॥
182
॥
देशे
तत्र
न
दुर्भिक्षमीतयो
दुरितानि
च
।
न
तद्गेहं
जहाति
श्रीर्यत्रायं
जप्यते
स्तवः
॥
183
॥
क्षयकुष्ठप्रमेहार्शभगंदरविषूचिकाः
।
गुल्मं
प्लीहानमशमानमतिसारं
महोदरम्
॥
184
॥
कासं
श्वासमुदावर्तं
शूलं
शोफामयोदरम्
।
शिरोरोगं
वमिं
हिक्कां
गंडमालामरोचकम्
॥
185
॥
वातपित्तकफद्वंद्वत्रिदोषजनितज्वरम्
।
आगंतुविषमं
शीतमुष्णं
चैकाहिकादिकम्
॥
186
॥
इत्याद्युक्तमनुक्तं
वा
रोगदोषादिसंभवम्
।
सर्वं
प्रशमयत्याशु
स्तोत्रस्यास्य
सकृज्जपः
॥
187
॥
प्राप्यतेऽस्य
जपात्सिद्धिः
स्त्रीशूद्रैः
पतितैरपि
।
सहस्रनाममंत्रोऽयं
जपितव्यः
शुभाप्तये
॥
188
॥
महागणपतेः
स्तोत्रं
सकामः
प्रजपन्निदम्
।
इच्छया
सकलान्
भोगानुपभुज्येह
पार्थिवान्
॥
189
॥
मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमैः
।
चंद्रेंद्रभास्करोपेंद्रब्रह्मशर्वादिसद्मसु
॥
190
॥
कामरूपः
कामगतिः
कामदः
कामदेश्वरः
।
भुक्त्वा
यथेप्सितान्भोगानभीष्टैः
सह
बंधुभिः
॥
191
॥
गणेशानुचरो
भूत्वा
गणो
गणपतिप्रियः
।
नंदीश्वरादिसानंदैर्नंदितः
सकलैर्गणैः
॥
192
॥
शिवाभ्यां
कृपया
पुत्रनिर्विशेषं
च
लालितः
।
शिवभक्तः
पूर्णकामो
गणेश्वरवरात्पुनः
॥
193
॥
जातिस्मरो
धर्मपरः
सार्वभौमोऽभिजायते
।
निष्कामस्तु
जपन्नित्यं
भक्त्या
विघ्नेशतत्परः
॥
194
॥
योगसिद्धिं
परां
प्राप्य
ज्ञानवैराग्यसंयुतः
।
निरंतरे
निराबाधे
परमानंदसंज्ञिते
॥
195
॥
विश्वोत्तीर्णे
परे
पूर्णे
पुनरावृत्तिवर्जिते
।
लीनो
वैनायके
धाम्नि
रमते
नित्यनिर्वृते
॥
196
॥
यो
नामभिर्हुतैर्दत्तैः
पूजयेदर्चयेएन्नरः
।
राजानो
वश्यतां
यांति
रिपवो
यांति
दासताम्
॥
197
॥
तस्य
सिध्यंति
मंत्राणां
दुर्लभाश्चेष्टसिद्धयः
।
मूलमंत्रादपि
स्तोत्रमिदं
प्रियतमं
मम
॥
198
॥
नभस्ये
मासि
शुक्लायां
चतुर्थ्यां
मम
जन्मनि
।
दूर्वाभिर्नामभिः
पूजां
तर्पणं
विधिवच्चरेत्
॥
199
॥
अष्टद्रव्यैर्विशेषेण
कुर्याद्भक्तिसुसंयुतः
।
तस्येप्सितं
धनं
धान्यमैश्वर्यं
विजयो
यशः
॥
200
॥
भविष्यति
न
संदेहः
पुत्रपौत्रादिकं
सुखम्
।
इदं
प्रजपितं
स्तोत्रं
पठितं
श्रावितं
श्रुतम्
॥
201
॥
व्याकृतं
चर्चितं
ध्यातं
विमृष्टमभिवंदितम्
।
इहामुत्र
च
विश्वेषां
विश्वैश्वर्यप्रदायकम्
॥
202
॥
स्वच्छंदचारिणाप्येष
येन
संधार्यते
स्तवः
।
स
रक्ष्यते
शिवोद्भूतैर्गणैरध्यष्टकोटिभिः
॥
203
॥
लिखितं
पुस्तकस्तोत्रं
मंत्रभूतं
प्रपूजयेत्
।
तत्र
सर्वोत्तमा
लक्ष्मीः
सन्निधत्ते
निरंतरम्
॥
204
॥
दानैरशेषैरखिलैर्व्रतैश्च
तीर्थैरशेषैरखिलैर्मखैश्च
।
न
तत्फलं
विंदति
यद्गणेशसहस्रनामस्मरणेन
सद्यः
॥
205
॥
एतन्नाम्नां
सहस्रं
पठति
दिनमणौ
प्रत्यहंप्रोज्जिहाने
सायं
मध्यंदिने
वा
त्रिषवणमथवा
संततं
वा
जनो
यः
।
स
स्यादैश्वर्यधुर्यः
प्रभवति
वचसां
कीर्तिमुच्चैस्तनोति
दारिद्र्यं
हंति
विश्वं
वशयति
सुचिरं
वर्धते
पुत्रपौत्रैः
॥
206
॥
अकिंचनोप्येकचित्तो
नियतो
नियतासनः
।
प्रजपंश्चतुरो
मासान्
गणेशार्चनतत्परः
॥
207
॥
दरिद्रतां
समुन्मूल्य
सप्तजन्मानुगामपि
।
लभते
महतीं
लक्ष्मीमित्याज्ञा
पारमेश्वरी
॥
208
॥
आयुष्यं
वीतरोगं
कुलमतिविमलं
संपदश्चार्तिनाशः
कीर्तिर्नित्यावदाता
भवति
खलु
नवा
कांतिरव्याजभव्या
।
पुत्राः
संतः
कलत्रं
गुणवदभिमतं
यद्यदन्यच्च
तत्त
-
न्नित्यं
यः
स्तोत्रमेतत्
पठति
गणपतेस्तस्य
हस्ते
समस्तम्
॥
209
॥
गणंजयो
गणपतिर्हेरंबो
धरणीधरः
।
महागणपतिर्बुद्धिप्रियः
क्षिप्रप्रसादनः
॥
210
॥
अमोघसिद्धिरमृतमंत्रश्चिंतामणिर्निधिः
।
सुमंगलो
बीजमाशापूरको
वरदः
कलः
॥
211
॥
काश्यपो
नंदनो
वाचासिद्धो
ढुंढिर्विनायकः
।
मोदकैरेभिरत्रैकविंशत्या
नामभिः
पुमान्
॥
212
॥
उपायनं
ददेद्भक्त्या
मत्प्रसादं
चिकीर्षति
।
वत्सरं
विघ्नराजोऽस्य
तथ्यमिष्टार्थसिद्धये
॥
213
॥
यः
स्तौति
मद्गतमना
ममाराधनतत्परः
।
स्तुतो
नाम्ना
सहस्रेण
तेनाहं
नात्र
संशयः
॥
214
॥
नमो
नमः
सुरवरपूजितांघ्रये
नमो
नमो
निरुपममंगलात्मने
।
नमो
नमो
विपुलदयैकसिद्धये
नमो
नमः
करिकलभाननाय
ते
॥
215
॥
किंकिणीगणरचितचरणः
प्रकटितगुरुमितचारुकरणः
।
मदजललहरीकलितकपोलः
शमयतु
दुरितं
गणपतिनाम्ना
॥
216
॥ ॥
इति
श्रीगणेशपुराणे
उपासनाखण्डे
महागणपतिप्रोक्तं
श्रीमहागणपति
सहस्रनामस्तोत्रं
सम्पूर्णम्
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits