सुमुखश्चैकदंतश्च कपिलो गजकर्णकः ।
लंबोदरश्च विकटो विघ्नराजो गणाधिपः ॥ 1 ॥
धूम्रकेतु-र्गणाध्यक्षो फालचंद्रो गजाननः ।
वक्रतुंड-श्शूर्पकर्णो हेरंब-स्स्कंदपूर्वजः ॥ 2 ॥
षोडशैतानि नामानि यः पठे-च्छृणु-यादपि ।
विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा ।
संग्रामे सर्व कार्येषु विघ्नस्तस्य न जायते ॥ 3 ॥