नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने ।
कार्यारम्भेषु सर्वेषु पूजितो यः सुरैरपि ॥ 1 ॥
पार्वत्युवाच –
भगवन् देवदेवेश लोकानुग्रहकारकः ।
इदानीं श्रोतृमिच्छामि कवचं यत्प्रकाशितम् ॥ 2 ॥
एकाक्षरस्य मन्त्रस्य त्वया प्रीतेन चेतसा ।
वदैतद्विधिवद्देव यदि ते वल्लभास्म्यहम् ॥ 3 ॥
ईश्वर उवाच –
शृणु देवि प्रवक्ष्यामि नाख्येयमपि ते ध्रुवम् ।
एकाक्षरस्य मन्त्रस्य कवचं सर्वकामदम् ॥ 4 ॥
यस्य स्मरणमात्रेण न विघ्नाः प्रभवन्ति हि ।
त्रिकालमेककालं वा ये पठन्ति सदा नराः ॥ 5 ॥
तेषां क्वापि भयं नास्ति सङ्ग्रामे सङ्कटे गिरौ ।
भूतवेतालरक्षोभिर्ग्रहैश्चापि न बाध्यते ॥ 6 ॥
इदं कवचमज्ञात्वा यो जपेद्गणनायकम् ।
न च सिद्धिमवाप्नोति मूढो वर्षशतैरपि ॥ 7 ॥
अघोरो मे यथा मन्त्रो मन्त्राणामुत्तमोत्तमः ।
तथेदं कवचं देवि दुर्लभं भुवि मानवैः ॥ 8 ॥
गोपनीयं प्रयत्नेन नाज्येयं यस्य कस्यचित् ।
तव प्रीत्या महेशानि कवचं कथ्यतेऽद्भुतम् ॥ 9 ॥
एकाक्षरस्य मन्त्रस्य गणकश्चर्षिरीरितः ।
त्रिष्टुप् छन्दस्तु विघ्नेशो देवता परिकीर्तिता ॥ 10 ॥
गं बीजं शक्तिरोङ्कारः सर्वकामार्थसिद्धये ।
सर्वविघ्नविनाशाय विनियोगस्तु कीर्तितः ॥ 11 ॥
ध्यानम् –
रक्ताम्भोजस्वरूपं लसदरुणसरोजाधिरूढं त्रिनेत्रं
पाशं चैवाङ्कुशं वा वरदमभयदं बाहुभिर्धारयन्तम् ।
शक्त्या युक्तं गजास्यं पृथुतरजठरं नागयज्ञोपवीतं
देवं चन्द्रार्धचूडं सकलभयहरं विघ्नराजं नमामि ॥ 12 ॥
कवचम् –
गणेशो मे शिरः पातु फालं पातु गजाननः ।
नेत्रे गणपतिः पातु गजकर्णः श्रुती मम ॥ 13 ॥
कपोलौ गणनाथस्तु घ्राणं गन्धर्वपूजितः ।
मुखं मे सुमुखः पातु चिबुकं गिरिजासुतः ॥ 14 ॥
जिह्वां पातु गणक्रीडो दन्तान् रक्षतु दुर्मुखः ।
वाचं विनायकः पातु कण्ठं पातु मदोत्कटः ॥ 15 ॥
स्कन्धौ पातु गजस्कन्धो बाहू मे विघ्ननाशनः ।
हस्तौ रक्षतु हेरम्बो वक्षः पातु महाबलः ॥ 16 ॥
हृदयं मे गणपतिरुदरं मे महोदरः ।
नाभिं गम्भीरहृदयो पृष्ठं पातु सुरप्रियः ॥ 17 ॥
कटिं मे विकटः पातु गुह्यं मे गुहपूजितः ।
ऊरू मे पातु कौमारं जानुनी च गणाधिपः ॥ 18 ॥
जङ्घे जयप्रदः पातु गुल्फौ मे धूर्जटिप्रियः ।
चरणौ दुर्जयः पातु साङ्गं मे गणनायकः ॥ 19 ॥
आमोदो मेऽग्रतः पातु प्रमोदः पातु पृष्ठतः ।
दक्षिणे पातु सिद्धीशो वामे विद्याधरार्चितः ॥ 20 ॥
प्राच्यां रक्षतु मां नित्यं चिन्तामणिविनायकः ।
आग्नेय्यां वक्रतुण्डो मे दक्षिणस्यामुमासुतः ॥ 21 ॥
नैरृत्यां सर्वविघ्नेशो पातु नित्यं गणेश्वरः ।
प्रतीच्यां सिद्धिदः पातु वायव्यां गजकर्णकः ॥ 22 ॥
कौबेर्यां सर्वसिद्धीशो ईशान्यामीशनन्दनः ।
ऊर्ध्वं विनायकः पातु अधो मूषकवाहनः ॥ 23 ॥
दिवा गोक्षीरधवलः पातु नित्यं गजाननः ।
रात्रौ पातु गणक्रीडो सन्ध्ययो सुरवन्दितः ॥ 24 ॥
पाशाङ्कुशाभयकरः सर्वतः पातु मां सदा ।
ग्रहभूतपिशाचेभ्यो पातु नित्यं गणेश्वरः ॥ 25 ॥
सत्त्वं रजस्तमो वाचं बुद्धिं ज्ञानं स्मृतिं दयाम् ।
धर्मं चतुर्विधं लक्ष्मीं लज्जां कीर्तिं कुलं वपुः ॥ 26 ॥
धनधान्यगृहान्दारान् पुत्रान्पौत्रान् सखींस्तथा ।
एकदन्तोऽवतु श्रीमान् सर्वतः शङ्करात्मजः ॥ 27 ॥
सिद्धिदं कीर्तिदं देवि प्रपठेन्नियतः शुचिः ।
एककालं द्विकालं वा त्रिकालं वापि भक्तितः ॥ 28 ॥
न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु विद्यते ।
सर्वपापविनिर्मुक्तो जायते भुवि मानवः ॥ 29 ॥
यं यं कामयते मर्त्यः सुदुर्लभमनोरथम् ।
तं तं प्राप्नोति सकलं षण्मासान्नात्र संशयः ॥ 30 ॥
मोहनस्तम्भनाकर्षमारणोच्चाटनं वशम् ।
स्मरणादेव जायन्ते नात्र कार्या विचारणा ॥ 31 ॥
सर्वविघ्नहरेद्देवीं ग्रहपीडानिवारणम् ।
सर्वशत्रुक्षयकरं सर्वापत्तिनिवारणम् ॥ 32 ॥
धृत्वेदं कवचं देवि यो जपेन्मन्त्रमुत्तमम् ।
न वाच्यते स विघ्नौघैः कदाचिदपि कुत्रचित् ॥ 33 ॥
भूर्जे लिखित्वा विधिवद्धारयेद्यो नरः शुचिः ।
एकबाहो शिरः कण्ठे पूजयित्वा गणाधिपम् ॥ 34 ॥
एकाक्षरस्य मन्त्रस्य कवचं देवि दुर्लभम् ।
यो धारयेन्महेशानि न विघ्नैरभिभूयते ॥ 35 ॥
गणेशहृदयं नाम कवचं सर्वसिद्धिदम् ।
पठेद्वा पाठयेद्वापि तस्य सिद्धिः करे स्थिता ॥ 36 ॥
न प्रकाश्यं महेशानि कवचं यत्र कुत्रचित् ।
दातव्यं भक्तियुक्ताय गुरुदेवपराय च ॥ 37 ॥
इति श्रीरुद्रयामले पार्वतीपरमेश्वर संवादे श्री गणेश हृदय कवचं सम्पूर्णम् ।