Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

गणपति गकार अष्टोत्तर शत नामावलिः

ओं गकाररूपाय नमः । ओं गम्बीजाय नमः । ओं गणेशाय नमः । ओं गणवन्दिताय नमः । ओं गणनीयाय नमः । ओं गणाय नमः । ओं गण्याय नमः । ओं गणनातीतसद्गुणाय नमः । ओं गगनादिकसृजे नमः । ओं गङ्गासुताय नमः । 10 ओं गङ्गासुतार्चिताय नमः । ओं गङ्गाधरप्रीतिकराय नमः । ओं गवीशेड्याय नमः । ओं गदापहाय नमः । ओं गदाधरनुताय नमः । ओं गद्यपद्यात्मककवित्वदाय नमः । ओं गजास्याय नमः । ओं गजलक्ष्मीवते नमः । ओं गजवाजिरथप्रदाय नमः । ओं गञ्जानिरतशिक्षाकृतये नमः । 20 ओं गणितज्ञाय नमः । ओं गणोत्तमाय नमः । ओं गण्डदानाञ्चिताय नमः । ओं गन्त्रे नमः । ओं गण्डोपलसमाकृतये नमः । ओं गगनव्यापकाय नमः । ओं गम्याय नमः । ओं गमनादिविवर्जिताय नमः । ओं गण्डदोषहराय नमः । ओं गण्डभ्रमद्भ्रमरकुण्डलाय नमः । 30 ओं गतागतज्ञाय नमः । ओं गतिदाय नमः । ओं गतमृत्यवे नमः । ओं गतोद्भवाय नमः । ओं गन्धप्रियाय नमः । ओं गन्धवाहाय नमः । ओं गन्धसिन्धुरबृन्दगाय नमः । ओं गन्धादिपूजिताय नमः । ओं गव्यभोक्त्रे नमः । ओं गर्गादिसन्नुताय नमः । 40 ओं गरिष्ठाय नमः । ओं गरभिदे नमः । ओं गर्वहराय नमः । ओं गरलिभूषणाय नमः । ओं गविष्ठाय नमः । ओं गर्जितारावाय नमः । ओं गभीरहृदयाय नमः । ओं गदिने नमः । ओं गलत्कुष्ठहराय नमः । ओं गर्भप्रदाय नमः । 50 ओं गर्भार्भरक्षकाय नमः । ओं गर्भाधाराय नमः । ओं गर्भवासिशिशुज्ञानप्रदाय नमः । ओं गरुत्मत्तुल्यजवनाय नमः । ओं गरुडध्वजवन्दिताय नमः । ओं गयेडिताय नमः । ओं गयाश्राद्धफलदाय नमः । ओं गयाकृतये नमः । ओं गदाधरावतारिणे नमः । ओं गन्धर्वनगरार्चिताय नमः । 60 ओं गन्धर्वगानसन्तुष्टाय नमः । ओं गरुडाग्रजवन्दिताय नमः । ओं गणरात्रसमाराध्याय नमः । ओं गर्हणास्तुतिसाम्यधिये नमः । ओं गर्ताभनाभये नमः । ओं गव्यूतिदीर्घतुण्डाय नमः । ओं गभस्तिमते नमः । ओं गर्हिताचारदूराय नमः । ओं गरुडोपलभूषिताय नमः । ओं गजारिविक्रमाय नमः । 70 ओं गन्धमूषवाजिने नमः । ओं गतश्रमाय नमः । ओं गवेषणीयाय नमः । ओं गहनाय नमः । ओं गहनस्थमुनिस्तुताय नमः । ओं गवयच्छिदे नमः । ओं गण्डकभिदे नमः । ओं गह्वरापथवारणाय नमः । ओं गजदन्तायुधाय नमः । ओं गर्जद्रिपुघ्नाय नमः । 80 ओं गजकर्णिकाय नमः । ओं गजचर्मामयच्छेत्रे नमः । ओं गणाध्यक्षाय नमः । ओं गणार्चिताय नमः । ओं गणिकानर्तनप्रीताय नमः । ओं गच्छते नमः । ओं गन्धफलीप्रियाय नमः । ओं गन्धकादिरसाधीशाय नमः । ओं गणकानन्ददायकाय नमः । ओं गरभादिजनुर्हर्त्रे नमः । 90 ओं गण्डकीगाहनोत्सुकाय नमः । ओं गण्डूषीकृतवाराशये नमः । ओं गरिमालघिमादिदाय नमः । ओं गवाक्षवत्सौधवासिने नमः । ओं गर्भिताय नमः । ओं गर्भिणीनुताय नमः । ओं गन्धमादनशैलाभाय नमः । ओं गण्डभेरुण्डविक्रमाय नमः । ओं गदिताय नमः । ओं गद्गदारावसंस्तुताय नमः । 100 ओं गह्वरीपतये नमः । ओं गजेशाय नमः । ओं गरीयसे नमः । ओं गद्येड्याय नमः । ओं गतभिदे नमः । ओं गदितागमाय नमः । ओं गर्हणीयगुणाभावाय नमः । ओं गङ्गादिकशुचिप्रदाय नमः । ओं गणनातीतविद्याश्रीबलायुष्यादिदायकाय नमः । 108

Recite with devotion and pure heart

Regular practice brings spiritual benefits