Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

नवरत्न मालिका स्तोत्रम्

हारनूपुरकिरीटकुण्डलविभूषितावयवशोभिनीं कारणेशवरमौलिकोटिपरिकल्प्यमानपदपीठिकाम् कालकालफणिपाशबाणधनुरङ्कुशामरुणमेखलां फालभूतिलकलोचनां मनसि भावयामि परदेवताम् 1 गन्धसारघनसारचारुनवनागवल्लिरसवासिनीं सान्ध्यरागमधुराधराभरणसुन्दराननशुचिस्मिताम् मन्धरायतविलोचनाममलबालचन्द्रकृतशेखरीं इन्दिरारमणसोदरीं मनसि भावयामि परदेवताम् 2 स्मेरचारुमुखमण्डलां विमलगण्डलम्बिमणिमण्डलां हारदामपरिशोभमानकुचभारभीरुतनुमध्यमाम् वीरगर्वहरनूपुरां विविधकारणेशवरपीठिकां मारवैरिसहचारिणीं मनसि भावयामि परदेवताम् 3 भूरिभारधरकुण्डलीन्द्रमणिबद्धभूवलयपीठिकां वारिराशिमणिमेखलावलयवह्निमण्डलशरीरिणीम् वारिसारवहकुण्डलां गगनशेखरीं परमात्मिकां चारुचन्द्रविलोचनां मनसि भावयामि परदेवताम् 4 कुण्डलत्रिविधकोणमण्डलविहारषड्दलसमुल्लस- त्पुण्डरीकमुखभेदिनीं प्रचण्डभानुभासमुज्ज्वलाम् मण्डलेन्दुपरिवाहितामृततरङ्गिणीमरुणरूपिणीं मण्डलान्तमणिदीपिकां मनसि भावयामि परदेवताम् 5 वारणाननमयूरवाहमुखदाहवारणपयोधरां चारणादिसुरसुन्दरीचिकुरशेकरीकृतपदाम्बुजाम् कारणाधिपतिपञ्चकप्रकृतिकारणप्रथममातृकां वारणान्तमुखपारणां मनसि भावयामि परदेवताम् 6 पद्मकान्तिपदपाणिपल्लवपयोधराननसरोरुहां पद्मरागमणिमेखलावलयनीविशोभितनितम्बिनीम् पद्मसम्भवसदाशिवान्तमयपञ्चरत्नपदपीठिकां पद्मिनीं प्रणवरूपिणीं मनसि भावयामि परदेवताम् 7 आगमप्रणवपीठिकाममलवर्णमङ्गलशरीरिणीं आगमावयवशोभिनीमखिलवेदसारकृतशेखरीम् मूलमन्त्रमुखमण्डलां मुदितनादबिन्दुनवयौवनां मातृकां त्रिपुरसुन्दरीं मनसि भावयामि परदेवताम् 8 कालिकातिमिरकुन्तलान्तघनभृङ्गमङ्गलविराजिनीं चूलिकाशिखरमालिकावलयमल्लिकासुरभिसौरभाम् वालिकामधुरगण्डमण्डलमनोहराननसरोरुहां कालिकामखिलनायिकां मनसि भावयामि परदेवताम् 9 नित्यमेव नियमेन जल्पतां भुक्तिमुक्तिफलदामभीष्टदाम् शङ्करेण रचितां सदा जपेन्नामरत्ननवरत्नमालिकाम् 10

Recite with devotion and pure heart

Regular practice brings spiritual benefits