Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

कमला स्तोत्रम्

ओङ्काररूपिणी देवि विशुद्धसत्त्वरूपिणी ।
देवानां जननी त्वं हि प्रसन्ना भव सुन्दरि ॥ 1 ॥
तन्मात्रं चैव भूतानि तव वक्षःस्थलं स्मृतम् ।
त्वमेव वेदगम्या तु प्रसन्ना भव सुन्दरि ॥ 2 ॥
देव दानव गन्धर्व यक्ष राक्षस किन्नरैः ।
स्तूयसे त्वं सदा लक्ष्मि प्रसन्ना भव सुन्दरि ॥ 3 ॥
लोकातीता द्वैतातीता समस्तभूतवेष्टिता ।
विद्वज्जनकीर्तिता च प्रसन्ना भव सुन्दरि ॥ 4 ॥
परिपूर्णा सदा लक्ष्मि त्रात्री तु शरणार्थिषु ।
विश्वाद्या विश्वकर्त्री च प्रसन्ना भव सुन्दरि ॥ 5 ॥
ब्रह्मरूपा च सावित्री त्वद्दीप्त्या भासते जगत् ।
विश्वरूपा वरेण्या च प्रसन्ना भव सुन्दरि ॥ 6 ॥
क्षित्यप्तेजोमरुद्वोमपञ्चभूतस्वरूपिणी ।
बन्धादेः कारणं त्वं हि प्रसन्ना भव सुन्दरि ॥ 7 ॥
महेशे त्वं हैमवती कमला केशवेऽपि च ।
ब्रह्मणः प्रेयसी त्वं हि प्रसन्ना भव सुन्दरि ॥ 8 ॥
चण्डी दुर्गा कालिका च कौशिकी सिद्धिरूपिणी ।
योगिनी योगगम्या च प्रसन्ना भव सुन्दरि ॥ 9 ॥
बाल्ये च बालिका त्वं हि यौवने युवतीति च ।
स्थविरे वृद्धरूपा च प्रसन्ना भव सुन्दरि ॥ 10 ॥
गुणमयी गुणातीता आद्या विद्या सनातनी ।
महत्तत्त्वादिसम्युक्ता प्रसन्ना भव सुन्दरि ॥ 11 ॥
तपस्विनी तपः सिद्धिः स्वर्गसिद्धिस्तदर्थिषु ।
चिन्मयी प्रकृतिस्त्वं तु प्रसन्ना भव सुन्दरि ॥ 12 ॥
त्वमादिर्जगतां देवि त्वमेव स्थितिकारणम् ।
त्वमन्ते निधनस्थानं स्वेच्छाचारा त्वमेव हि ॥ 13 ॥
चराचराणां भूतानां बहिरन्तस्त्वमेव हि ।
व्याप्यव्यापकरूपेण त्वं भासि भक्तवत्सले ॥ 14 ॥
त्वन्मायया हृतज्ञाना नष्टात्मानो विचेतसः ।
गतागतं प्रपद्यन्ते पापपुण्यवशात्सदा ॥ 15 ॥
तावत्सत्यं जगद्भाति शुक्तिकारजतं यथा ।
यावन्न ज्ञायते ज्ञानं चेतसा नान्वगामिनी ॥ 16 ॥
त्वज्ज्ञानात्तु सदा युक्तः पुत्रदारगृहादिषु ।
रमन्ते विषयान् सर्वानन्ते दुःखप्रदान् ध्रुवम् ॥ 17 ॥
त्वदाज्ञया तु देवेशि गगने सूर्यमण्डलम् ।
चन्द्रश्च भ्रमते नित्यं प्रसन्ना भव सुन्दरि ॥ 18 ॥
ब्रह्मेशविष्णुजननी ब्रह्माख्या ब्रह्मसंश्रया ।
व्यक्ताऽव्यक्ता च देवेशि प्रसन्ना भव सुन्दरि ॥ 19 ॥
अचला सर्वगा त्वं हि मायातीता महेश्वरि ।
शिवात्मा शाश्वता नित्या प्रसन्ना भव सुन्दरि ॥ 20 ॥
सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ।
अनन्ता निष्काला त्वं हि प्रसन्ना भवसुन्दरि ॥ 21 ॥
सर्वेश्वरी सर्ववन्द्या अचिन्त्या परमात्मिका ।
भुक्तिमुक्तिप्रदा त्वं हि प्रसन्ना भव सुन्दरि ॥ 22 ॥
ब्रह्माणी ब्रह्मलोके त्वं वैकुण्ठे सर्वमङ्गला ।
इन्द्राणी अमरावत्यामम्बिका वरुणालये ॥ 23 ॥
यमालये कालरूपा कुबेरभवने शुभा ।
महानन्दाग्निकोणे च प्रसन्ना भव सुन्दरि ॥ 24 ॥
नैरृत्यां रक्तदन्ता त्वं वायव्यां मृगवाहिनी ।
पाताले वैष्णवीरूपा प्रसन्ना भव सुन्दरि ॥ 25 ॥
सुरसा त्वं मणिद्वीपे ऐशान्यां शूलधारिणी ।
भद्रकाली च लङ्कायां प्रसन्ना भव सुन्दरि ॥ 26 ॥
रामेश्वरी सेतुबन्धे सिंहले देवमोहिनी ।
विमला त्वं च श्रीक्षेत्रे प्रसन्ना भव सुन्दरि ॥ 27 ॥
कालिका त्वं कालिघट्‍टे कामाख्या नीलपर्वते ।
विरजा औड्रदेशे त्वं प्रसन्ना भव सुन्दरि ॥ 28 ॥
वाराणस्यामन्नपूर्णा अयोध्यायां महेश्वरी ।
गयासुरी गयाधाम्नि प्रसन्ना भव सुन्दरि ॥ 29 ॥
भद्रकाली कुरुक्षेत्रे कृष्ण कात्यायनी व्रजे ।
महामाया द्वारकायां प्रसन्ना भव सुन्दरि ॥ 30 ॥
क्षुधा त्वं सर्वजीवानां वेला च सागरस्य हि ।
महेश्वरी मथुरायां प्रसन्ना भव सुन्दरि ॥ 31 ॥
रामस्य जानकी त्वं च शिवस्य मनमोहिनी ।
दक्षस्य दुहिता चैव प्रसन्ना भव सुन्दरि ॥ 32 ॥
विष्णुभक्तिप्रदा त्वं च कंसासुर विनाशिनी ।
रावणनाशिनी चैव प्रसन्ना भव सुन्दरि ॥ 33 ॥
लक्ष्मीस्तोत्रमिदं पुण्यं यः पठेद्भक्तिसम्युतः ।
सर्वज्वरभयं नश्येत् सर्वव्याधिनिवारणम् ॥ 34 ॥
इदं स्तोत्रं महापुण्यमापदुद्धारकारणम् ।
त्रिसन्ध्यमेकसन्ध्यं वा यः पठेत् सततं नरः ॥ 35 ॥
मुच्यते सर्वपापेभ्यस्तथा तु सर्वसङ्कटात् ।
मुच्यते नात्र सन्देहो भुवि स्वर्गे रसातले ॥ 36 ॥
समस्तं च तथा चैकं यः पठेद्भक्तितत्परः ।
स सर्वदुष्करं तीर्त्वा लभते परमां गतिम् ॥ 37 ॥
सुखदं मोक्षदं स्तोत्रं यः पठेद्भक्तिसम्युतः ।
स तु कोटितीर्थफलं प्राप्नोति नात्र संशयः ॥ 38 ॥
एका देवी तु कमला यस्मिंस्तुष्टा भवेत्सदा ।
तस्याऽसाध्यं तु देवेशि नास्तिकिञ्चिज्जगत्त्रये ॥ 39 ॥
पठनादपि स्तोत्रस्य किं न सिद्ध्यति भूतले ।
तस्मात् स्तोत्रवरं प्रोक्तं सत्यं सत्यं हि पार्वति ॥ 40 ॥
इति श्री कमला स्तोत्रम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits