Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

श्रीपादाष्टकम्

वेदान्तवेद्यं वरयोगिरुपं
जगत्प्रकाशं सुरलोकपूज्यम् ।
इष्टार्थसिद्धिं करुणाकरेशं
श्रीपादराजं शरणं प्रपद्ये ॥ 1 ॥
योगीशरुपं परमात्मवेषं
सदानुरागं सहकार्यरुपम् ।
वरप्रसादं विबुधैकसेव्यं
श्रीपादराजं शरणं प्रपद्ये ॥ 2 ॥
काषायवस्त्रं करदण्डधारिणं
कमण्डलुं पद्मकरेण शङ्खम् ।
चक्रं गदाभूषित भूषणाढ्यं
श्रीपादराजं शरणं प्रपद्ये ॥ 3 ॥
भूलोकसारं भुवनैकनाथं
नाथादिनाथं नरलोकनाथम् ।
कृष्णावतारं करुणाकटाक्षं
श्रीपादराजं शरणं प्रपद्ये ॥ 4 ॥
लोकाभिरामं गुणभूषणाढ्यं
तेजो मुनिश्रेष्ठ मुनिं वरेण्यम् ।
समस्तदुःखानि भयानि शान्तं
श्रीपादराजं शरणं प्रपद्ये ॥ 5 ॥
कृष्णासुतीरे वसति प्रसिद्धं
श्रीपाद श्रीवल्लभ योगिमूर्तिम् ।
सर्वेजनैश्चिन्तितकल्पवृक्षं
श्रीपादराजं शरणं प्रपद्ये ॥ 6 ॥
मन्त्राब्धिराजं यतिराजपूज्यं
त्रैलोकनाथं जनसेव्यनाथम् ।
आनन्दचित्तं अखिलात्मतेजं
श्रीपादराजं शरणं प्रपद्ये ॥ 7 ॥
मन्त्रानुगम्यं महानिर्वितेजं
महत्प्रकाशं महाशान्तमूर्तिम् ।
त्रैलोक्यचित्तं अखिलात्मतेजं
श्रीपादराजं शरणं प्रपद्ये ॥ 8 ॥
श्रीपादाष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् ।
कोटिजन्मकृतम्पापं स्मरणेन विनश्यति ॥ 9 ॥
इति श्रीपादाष्टकम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits