कृष्णावेणीपञ्चगङ्गायुतिस्थं
श्रीपादं श्रीवल्लभं भक्तहृत्स्थम् ।
दत्तात्रेयं पादुकारूपिणं तं
वन्दे विद्यां शालिनीं सङ्गृणन्तम् ॥ 1 ॥
उपेन्द्रवज्रायुधपूर्वदेवैः
सपूर्वदेवैर्मुनिभिश्च गीतम् ।
नृसिंहसञ्ज्ञं निगमागमाद्यं
गमागमाद्यन्तकरं प्रपद्ये ॥ 2 ॥
परिहृतनतजूर्तिः स्वीयकामप्रपूर्ति-
-र्हृतनिजभजकार्तिः सच्चिदानन्दमूर्तिः ।
सदयहृदयवर्ती योगविच्चक्रवर्ती
स जयति यतिराट् दिङ्मालिनी यस्य कीर्तिः ॥ 3 ॥
द्रुतविलम्बितकर्मविचारणा
फलसुसिद्धिरतोऽमरभाग्जनः ।
अनुभवत्यकमेव तदुद्धृतौ
हरिरिहाविरभूत्पदरूप्यसौ ॥ 4 ॥
विद्युन्मालातुल्या सम्पत्प्राङ्मध्यान्तेऽप्यस्या आपत् ।
तत्ते धार्यं ज्योतिर्नित्यं ध्याने मेऽस्तु ब्रह्मन् सत्यम् ॥ 5 ॥
त्रिद्वारं तव भवनं बहुप्रदीपं
विघ्नेशामरपतियोगिनीमरुज्जैः ।
जाह्नव्यावृतमभितोऽन्नपूर्णया च
स्मृत्वा मे भवति मतिः प्रहर्षिणीयम् ॥ 6 ॥
ततिं द्विजानां शिवसोपजातिं
पुष्णाति कृष्णाऽत्र विनष्टतृष्णा ।
अवाक्प्रवाहाऽनुमताशिवाहा
या साऽष्टतीर्था स्मृतिमेतु सार्था ॥ 7 ॥
कलौ मलौघान्तकरं करञ्ज-
-पुरे वरे जातमकामकामम् ।
चराचराद्यं भुवनावनार्थं
क्षणे क्षणे सज्जनतानताङ्घ्रिम् ॥ 8 ॥
भुजङ्गप्रयाताद्गुणोत्थादिवास्मा-
-द्भवाद्भीत आगत्य न त्यक्तुमिच्छेत् ।
नृसिंहस्य वाट्यां प्रभो राजधान्यां
स यायात्सुधन्यां गतिं लोकमान्याम् ॥ 9 ॥
इति श्रीवासुदेवानन्दसरस्वती विरचितं दत्त पादुकाष्टकम् ।