Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

दत्त मानसपूजा

परानन्दमयो विष्णुर्हृत्स्थो वेद्योप्यतीन्द्रियः । सदा सम्पूज्यते भक्तैर्भगवान् भक्तिभावनः ॥ 1 ॥ अचिन्त्यस्य कुतो ध्यानम् कूटस्थावाहनं कुतः । क्वासनं विश्वसंस्थस्य पाद्यं पूतात्मनः कुतः ॥ 2 ॥ क्वानर्घोरुक्रमस्यार्घ्यं विष्णोराचमनं कुतः । निर्मलस्य कुतः स्नानं क्व निरावरणेम्बरम् ॥ 3 ॥ स्वसूत्रस्य कुतः सूत्रं निर्मलस्य च लेपनम् । निस्तृषः सुमनोभिः किं किमक्लेद्यस्य धूपतः ॥ 4 ॥ स्वप्रकाशस्य दीपैः किं किं भक्ष्याद्यैर्जगद्भृतः । किं देयं परितृप्तस्य विराजः क्व प्रदक्षिणाः ॥ 5 ॥ किमनन्तस्य नतिभिः स्तौति को वागगोचरम् । अन्तर्बहिः प्रपूर्णस्य कथमुद्वासनं भवेत् ॥ 6 ॥ सर्वतोऽपीत्यसम्भाव्यो भाव्यते भक्तिभावनः । सेव्यसेवकभावेन भक्तैर्लीलानृविग्रहः ॥ 7 ॥ तवेशातीन्द्रियस्यापि पारम्पर्याश्रुतां तनुम् । प्रकल्प्याश्मादावर्चन्ति प्रार्चयेऽर्चां मनोमयीम् ॥ 8 ॥ कलसुश्लोकगीतेन भगवन् दत्त जागृहि । भक्तवत्सल सामीप्यं कुरु मे मानसार्चने ॥ 9 ॥ श्रीदत्तं खेचरीमुद्रामुद्रितं योगिसद्गुरुम् । सिद्धासनस्थं ध्यायेऽभीवरप्रदकरं हरिम् ॥ 10 ॥ दत्तात्रेयाह्वयाम्यत्र परिवारैः सहार्चने । श्रद्धाभक्त्येश्वरागच्छ ध्यातधाम्नाञ्जसा विभो ॥ 11 ॥ सौवर्णं रत्नजडितं कल्पितं देवतामयम् । रम्यं सिंहासनं दत्त तत्रोपविश यन्त्रिते ॥ 12 ॥ पाद्यं चन्दनकर्पूरसुरभि स्वादु वारि ते । गृहाण कल्पितं तेन दत्ताङ्घ्री क्षालयामि ते ॥ 13 ॥ गन्धाब्जतुलसीबिल्वशमीपत्राक्षतान्वितम् । साम्ब्वर्घ्यं स्वर्णपात्रेण कल्पितं दत्त गृह्यताम् ॥ 14 ॥ सुस्वाद्वाचमनीयाम्बु हैमपात्रेण कल्पितम् । तुभ्यमाचम्यतां दत्त मधुपर्कं गृहाण च ॥ 15 ॥ पुष्पवासितसत्तैलमङ्गेष्वालिप्य दत्त भोः । पञ्चामृतैश्च गाङ्गाद्भिः स्नानं ते कल्पयाम्यहम् ॥ 16 ॥ भक्त्या दिगम्बराचान्त जलेदं दत्त कल्पितम् । काषायपरिधानं तद्गृहाणैणेयचर्म च ॥ 17 ॥ नानासूत्रधरैते ते ब्रह्मसूत्रे प्रकल्पिते । गृहाण दैवतमये श्रीदत्त नवतन्तुके ॥ 18 ॥ भूतिमृत्स्नासुकस्तूरीकेशरान्वितचन्दनम् । रत्नाक्षताः कल्पितास्त्वामलङ्कुर्वेऽथ दत्त तैः ॥ 19 ॥ सच्छमीबिल्वतुलसीपत्रैः सौगन्धिकैः सुमैः । मनसा कल्पितैर्नानाविधैर्दत्तार्चयाम्यहम् ॥ 20 ॥ लाक्षासिताभ्रश्रीवासश्रीखण्डागरुगुग्गुलैः । युक्तोऽग्नियोजितो धूपो हृदा स्वीकुरु दत्त तम् ॥ 21 ॥ स्वर्णपात्रे गोघृताक्तवर्तिप्रज्वालितं हृदा । दीपं दत्त सकर्पूरं गृहाण स्वप्रकाशक ॥ 22 ॥ सषड्रसं षड्विधान्नं नैवेद्यं गव्यसम्युतम् । कल्पितं हैमपात्रे ते भुङ्क्ष्व दत्ताम्ब्वदः पिब ॥ 23 ॥ प्रक्षाल्यास्यं करौ चाद्भिर्दत्ताचम्य प्रगृह्यताम् । ताम्बूलं दक्षिणां हैमीं कल्पितानि फलानि च ॥ 24 ॥ नीराज्य रत्नदीपैस्त्वां प्रणम्य मनसा च ते । परितस्त्वत्कथोद्घातैः कुर्वे दत्त प्रदक्षिणाः ॥ 25 ॥ मन्त्रवन्निहितो मूर्ध्नि दत्त ते कुसुमाञ्जलिः । कल्प्यन्ते मनसा गीतवाद्यनृत्योपचारकाः ॥ 26 ॥ प्रेर्यमाणप्रेरकेण त्वया दत्तेरितेन ते । कृतेयं मनसा पूजा श्रीमंस्तुष्टो भवानया ॥ 27 ॥ दत्त मानसतल्पे मे सुखनिद्रां रहः कुरु । रम्ये व्यायतभक्त्यामतूलिकाढ्ये सुवीजिते ॥ 28 ॥ इति श्रीवासुदेवानन्दसरस्वती विरचितं श्री दत्त मानसपूजा ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits