वन्दे वाङ्मनसातीतं निर्गुणं सगुणं गुरुम् ।
दत्तमात्रेयमानन्दकन्दं भक्तेष्टपूरकम् ॥ 1 ॥
नमामि सततं दत्तमौदुम्बरनिवासिनम् ।
यतीन्द्ररूपं च सदा निजानन्दप्रबोधनम् ॥ 2 ॥
कृष्णा यदग्रे भुवनेशानी विद्यानिधिस्तथा ।
औदुम्बराः कल्पवृक्षाः सर्वतः सुखदाः सदा ॥ 3 ॥
भक्तबृन्दान् दर्शनतः पुरुषार्थचतुष्टयम् ।
ददाति भगवान् भूमा सच्चिदानन्दविग्रहः ॥ 4 ॥
जागर्ति गुप्तरूपेण गोप्ता ध्यानसमाधितः ।
ब्रह्मबृन्दं ब्रह्मसुखं ददाति समदृष्टितः ॥ 5 ॥
कृष्णा तृष्णाहरा यत्र सुखदा भुवनेश्वरी ।
यत्र मोक्षदराड्दत्तपादुका तां नमाम्यहम् ॥ 6 ॥
पादुकारूपियतिराट् श्रीनृसिंहसरस्वती ।
राजते राजराजश्रीदत्तश्रीपादवल्लभः ॥ 7 ॥
नमामि गुरुमूर्ते तं तापत्रयहरं हरिम् ।
आनन्दमयमात्मानं नवभक्त्या सुखप्रदम् ॥ 8 ॥
करवीरस्थविदुषमूढपुत्रं विनिन्दितम् ।
छिन्नजिह्वं बुधं चक्रे तद्वन्मयि कृपां कुरु ॥ 9 ॥
इति श्री औदुम्बर पादुका स्तोत्रम् ।