मत्तरोगशिरोपरिस्थितनृत्यमानपदाम्बुजं
भक्तचिन्तितसिद्धिकालविचक्षणं कमलेक्षणम् ।
भुक्तिमुक्तिफलप्रदं भुवि पद्मजाच्युतपूजितं
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ 1 ॥
वित्तदप्रियमर्चितं कृतकृशा तीव्रतपोव्रतैः
मुक्तिकामिभिराश्रितैः मुहुर्मुनिभिर्दृढमानसैः ।
मुक्तिदं निजपादपङ्कजसक्तमानसयोगिनां
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ 2 ॥
कृत्तदक्षमखाधिपं वरवीरभद्रगणेन वै
यक्षराक्षसमर्त्यकिन्नरदेवपन्नगवन्दितम् ।
रत्नभुग्गणनाथभृद्भ्रमरार्चिताङ्घ्रिसरोरुहं
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ 3 ॥
नक्तनादकलाधरं नगजापयोधरमण्डलं
लिप्तचन्दनपङ्ककुङ्कुममुद्रितामलविग्रहम् ।
शक्तिमन्तमशेषसृष्टिविधानके सकलं प्रभुं
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ 4 ॥
रक्तनीरजतुल्यपादपयोज सन्मणि नूपुरं
बन्धनत्रयभेद पेशल पङ्कजाक्ष शिलीमुखम् ।
हेमशैलशरासनं पृथु शिञ्जिनीकृत दक्षकं
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ 5 ॥
यः पठेच्च दिने दिने स्तवपञ्चरत्नमुमापतेः
पुरातले मयाकृतं निखिलागममूलमहानलम् ।
तस्य पुत्रकलत्रमित्रधनानि सन्तु कृपाबलात्
ते महेश्वर शङ्कराखिलविश्वनायक शाश्वत ॥ 6 ॥
इति अगस्त्य कृत श्री दक्षिणामूर्ति पञ्चरत्न स्तवम् ।