श्रीदेव्युवाच ।
भगवन् देवदेवेश मन्त्रार्णस्तवमुत्तमम् ।
दक्षिणामूर्तिदेवस्य कृपया वद मे प्रभो ॥ 1 ॥
श्रीमहादेव उवाच ।
साधु पृष्टं महादेवि सर्वलोकहिताय ते ।
वक्ष्यामि परमं गुह्यं मन्त्रार्णस्तवमुत्तमम् ॥ 2 ॥
ऋषिश्छन्दो देवताङ्गन्यासादिकमनुत्तमम् ।
मूलमन्त्रपदस्यापि द्रष्टव्यं सकलं हि तत् ॥ 3 ॥
ध्यानम् –
भस्मव्यापाण्डुराङ्गः शशिशकलधरो ज्ञानमुद्राक्षमाला-
-वीणापुस्तैर्विराजत्करकमलधरो योगपट्टाभिरामः ।
व्याख्यापीठे निषण्णे मुनिवरनिकरैः सेव्यमानः प्रसन्नः
सव्यालः कृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः ॥ 4 ॥
इति ध्यात्वा महादेवं मन्त्रार्णस्तवमुत्तमम् ।
जपेत् त्रिसन्ध्यं नियतो भस्मरुद्राक्षभूषितः ॥ 5 ॥
स्तोत्रम् –
ओम् । ओङ्काराचलसिंहेन्द्रः ओङ्कारोद्यानकोकिलः ।
ओङ्कारनीडशुकराडोङ्कारारण्यकुञ्जरः ॥ 6 ॥
नगराजसुताजानिर्नगराजनिजालयः ।
नवमाणिक्यमालाढ्यो नवचन्द्रशिखामणिः ॥ 7 ॥
नन्दिताशेषमौनीन्द्रो नन्दीशादिमदेशिकः ।
मोहानलसुधाधारो मोहाम्बुजसुधाकरः ॥ 8 ॥
मोहान्धकारतरणिर्मोहोत्पलनभोमणिः ।
भक्तज्ञानाब्धिशीतांशुः भक्ताज्ञानतृणानलः ॥ 9 ॥
भक्ताम्भोजसहस्रांशुः भक्तकेकिघनाघनः ।
भक्तकैरवराकेन्दुः भक्तकोकदिवाकरः ॥ 10 ॥
गजाननादिसम्पूज्यो गजचर्मोज्ज्वलाकृतिः ।
गङ्गाधवलदिव्याङ्गो गङ्गाभङ्गलसज्जटः ॥ 11 ॥
गगनाम्बरसंवीतो गगनामुक्तमूर्धजः ।
वदनाब्जजितश्रीश्च वदनेन्दुस्फुरद्दिशः ॥ 12 ॥
वरदानैकनिपुणो वरवीणोज्ज्वलत्करः ।
वनवाससमुल्लासी वनलीलैकलोलुपः ॥ 13 ॥
तेजःपुञ्जघनाकारो तेजसामविभासकः ।
तेजःप्रदो विधेयानां तेजोमयनिजाश्रमः ॥ 14 ॥
दमितानङ्गसङ्ग्रामो दरहासोज्ज्वलन्मुखः ।
दयारससुधासिन्धुः दरिद्रधनशेवधिः ॥ 15 ॥
क्षीरेन्दुस्फटिकाकारः क्षितीन्द्रमकुटोज्ज्वलः ।
क्षीरोपहाररसिकः क्षिप्रैश्वर्यफलप्रदः ॥ 16 ॥
नानाभरणमुक्ताङ्गो नारीसम्मोहनाकृतिः ।
नादब्रह्मरसास्वादी नागभूषणभूषितः ॥ 17 ॥
मूर्तिनिन्दितकन्दर्पो मूर्तामूर्तजगद्वपुः ।
मूकाज्ञानतमोभानुः मूर्तिमत्कल्पपादपः ॥ 18 ॥
तरुणादित्यसङ्काशः तन्त्रीवादनतत्परः ।
तरुमूलैकनिलयः तप्तजाम्बूनदप्रभः ॥ 19 ॥
तत्त्वपुस्तोल्लसत्पाणिः तपनोडुपलोचनः ।
यमसन्नुतसत्कीर्तिः यमसम्यमसम्युतः ॥ 20 ॥
यतिरूपधरो मौनमुनीन्द्रोपास्यविग्रहः ।
मन्दारहाररुचिरो मदनायुतसुन्दरः ॥ 21 ॥
मन्दस्मितलसद्वक्त्रो मधुराधरपल्लवः ।
मञ्जीरमञ्जुपादाब्जो मणिपट्टोलसत्कटिः ॥ 22 ॥
हस्ताङ्कुरितचिन्मुद्रो हंसयोगपटूत्तमः ।
हंसजप्याक्षमालाढ्यो हंसेन्द्राराध्यपादुकः ॥ 23 ॥
मेरुशृङ्गसमुल्लासी मेघश्याममनोहरः ।
मेघाङ्कुरालवालाग्र्यो मेधापक्वफलद्रुमः ॥ 24 ॥
धार्मिकान्तकृतावासो धर्ममार्गप्रवर्तकः ।
धामत्रयनिजारामो धरोत्तममहारथः ॥ 25 ॥
प्रबोधोदारदीपश्रीः प्रकाशितजगत्त्रयः ।
प्रज्ञाचन्द्रशिलाचन्द्रः प्रज्ञामणिलसत्करः ॥ 26 ॥
ज्ञानिहृद्भासमानात्मा ज्ञातॄणामविदूरगः ।
ज्ञानायादृतदिव्याङ्गो ज्ञातिजातिकुलातिगः ॥ 27 ॥
प्रपन्नपारिजाताग्र्यः प्रणतार्त्यब्धिबाडबः ।
प्रमाणभूतो भूतानां प्रपञ्चहितकारकः ॥ 28 ॥
यमिसत्तमसंसेव्यो यक्षगेयात्मवैभवः ।
यज्ञाधिदेवतामूर्तिः यजमानवपुर्धरः ॥ 29 ॥
छत्राधिपदिगीशश्च छत्रचामरसेवितः ।
छन्दः शास्त्रादिनिपुणश्छलजात्यादिदूरगः ॥ 30 ॥
स्वाभाविकसुखैकात्मा स्वानुभूतिरसोदधिः ।
स्वाराज्यसम्पदध्यक्षः स्वात्माराममहामतिः ॥ 31 ॥
हाटकाभजटाजूटो हासोदस्तारिमण्डलः ।
हालाहलोज्ज्वलगलो हारायितभुजङ्गमः ॥ 32 ॥
इति श्री दक्षिणामूर्ति मन्त्रार्णाष्टोत्तरशतनाम स्तोत्रम् ।