हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
दक्षिणामूर्त्यष्टोत्तरशतनाम स्तोत्रम्
ध्यानम्
–
व्याख्यारुद्राक्षमाले
कलशसुरभिते
बाहुभिर्वामपादं
बिभ्राणो
जानुमूर्ध्ना
वटतरुनिवृतावस्यधो
विद्यमानः
।
सौवर्णे
योगपीठे
लिपिमयकमले
सूपविष्टस्त्रिणेत्रः
क्षीराभश्चन्द्रमौलिर्वितरतु
नितरां
शुद्धबुद्धिं
शिवो
नः
॥
स्तोत्रम्
–
विद्यारूपी
महायोगी
शुद्धज्ञानी
पिनाकधृत्
।
रत्नालङ्कृतसर्वाङ्गो
रत्नमाली
जटाधरः
॥
1
॥
गङ्गाधार्यचलावासी
सर्वज्ञानी
समाधिधृत्
।
अप्रमेयो
योगनिधिस्तारको
भक्तवत्सलः
॥
2
॥
ब्रह्मरूपी
जगद्व्यापी
विष्णुमूर्तिः
पुरान्तकः
।
उक्षवाहश्चर्मवासाः
पीताम्बरविभूषणः
॥
3
॥
मोक्षसिद्धिर्मोक्षदायी
दानवारिर्जगत्पतिः
।
विद्याधारी
शुक्लतनुः
विद्यादायी
गणाधिपः
॥
4
॥
पापापस्मृतिसंहर्ता
शशिमौलिर्महास्वनः
।
सामप्रियः
स्वयं
साधुः
सर्वदेवैर्नमस्कृतः
॥
5
॥
हस्तवह्निधरः
श्रीमान्
मृगधारी
च
शङ्करः
।
यज्ञनाथः
क्रतुध्वंसी
यज्ञभोक्ता
यमान्तकः
॥
6
॥
भक्तानुग्रहमूर्तिश्च
भक्तसेव्यो
वृषध्वजः
।
भस्मोद्धूलितसर्वाङ्गोऽप्यक्षमालाधरो
महान्
॥
7
॥
त्रयीमूर्तिः
परं
ब्रह्म
नागराजैरलङ्कृतः
।
शान्तरूपो
महाज्ञानी
सर्वलोकविभूषणः
॥
8
॥
अर्धनारीश्वरो
देवो
मुनिसेव्यः
सुरोत्तमः
।
व्याख्यानदेवो
भगवान्
अग्निचन्द्रार्कलोचनः
॥
9
॥
जगत्स्रष्टा
जगद्गोप्ता
जगद्ध्वंसी
त्रिलोचनः
।
जगद्गुरुर्महादेवो
महानन्दपरायणः
॥
10
॥
जटाधारी
महावीरो
ज्ञानदेवैरलङ्कृतः
।
व्योमगङ्गाजलस्नाता
सिद्धसङ्घसमर्चितः
॥
11
॥
तत्त्वमूर्तिर्महायोगी
महासारस्वतप्रदः
।
व्योममूर्तिश्च
भक्तानामिष्टकामफलप्रदः
॥
12
॥
वीरमूर्तिर्विरूपी
च
तेजोमूर्तिरनामयः
।
वेदवेदाङ्गतत्त्वज्ञश्चतुष्षष्टिकलानिधिः
॥
13
॥
भवरोगभयध्वंसी
भक्तानामभयप्रदः
।
नीलग्रीवो
ललाटाक्षो
गजचर्मा
च
ज्ञानदः
॥
14
॥
अरोगी
कामदहनस्तपस्वी
विष्णुवल्लभः
।
ब्रह्मचारी
च
संन्यासी
गृहस्थाश्रमकारणः
॥
15
॥
दान्तशमवतां
श्रेष्ठः
सत्त्वरूपदयानिधिः
।
योगपट्टाभिरामश्च
वीणाधारी
विचेतनः
॥
16
॥
मन्त्रप्रज्ञानुगाचारो
मुद्रापुस्तकधारकः
।
रागहिक्कादिरोगाणां
विनिहन्ता
सुरेश्वरः
॥
17
॥
इति
श्री
दक्षिणामूर्त्यष्टोत्तरशतनाम
स्तोत्रम्
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits