Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

दक्षिणामूर्त्यष्टोत्तर शत नामावलिः

ओं विद्यारूपिणे नमः ।
ओं महायोगिने नमः ।
ओं शुद्धज्ञानिने नमः ।
ओं पिनाकधृते नमः ।
ओं रत्नालङ्कृतसर्वाङ्गाय नमः ।
ओं रत्नमालिने नमः ।
ओं जटाधराय नमः ।
ओं गङ्गाधारिणे नमः ।
ओं अचलावासिने नमः ।
ओं सर्वज्ञानिने नमः । 10
ओं समाधिधृते नमः ।
ओं अप्रमेयाय नमः ।
ओं योगनिधये नमः ।
ओं तारकाय नमः ।
ओं भक्तवत्सलाय नमः ।
ओं ब्रह्मरूपिणे नमः ।
ओं जगद्व्यापिने नमः ।
ओं विष्णुमूर्तये नमः ।
ओं पुरान्तकाय नमः ।
ओं उक्षवाहाय नमः । 20
ओं चर्मवाससे नमः ।
ओं पीताम्बरविभूषणाय नमः ।
ओं मोक्षसिद्धये नमः ।
ओं मोक्षदायिने नमः ।
ओं दानवारये नमः ।
ओं जगत्पतये नमः ।
ओं विद्याधारिणे नमः ।
ओं शुक्लतनवे नमः ।
ओं विद्यादायिने नमः ।
ओं गणाधिपाय नमः । 30
ओं पापापस्मृतिसंहर्त्रे नमः ।
ओं शशिमौलये नमः ।
ओं महास्वनाय नमः ।
ओं सामप्रियाय नमः ।
ओं स्वयं साधवे नमः ।
ओं सर्वदेवैर्नमस्कृताय नमः ।
ओं हस्तवह्निधराय नमः ।
ओं श्रीमते नमः ।
ओं मृगधारिणे नमः ।
ओं शङ्कराय नमः । 40
ओं यज्ञनाथाय नमः ।
ओं क्रतुध्वंसिने नमः ।
ओं यज्ञभोक्त्रे नमः ।
ओं यमान्तकाय नमः ।
ओं भक्तानुग्रहमूर्तये नमः ।
ओं भक्तसेव्याय नमः ।
ओं वृषध्वजाय नमः ।
ओं भस्मोद्धूलितसर्वाङ्गाय नमः ।
ओं अक्षमालाधराय नमः ।
ओं महते नमः । 50
ओं त्रयीमूर्तये नमः ।
ओं परस्मै ब्रह्मणे नमः ।
ओं नागराजैरलङ्कृताय नमः ।
ओं शान्तरूपाय नमः ।
ओं महाज्ञानिने नमः ।
ओं सर्वलोकविभूषणाय नमः ।
ओं अर्धनारीश्वराय नमः ।
ओं देवाय नमः ।
ओं मुनिसेव्याय नमः ।
ओं सुरोत्तमाय नमः । 60
ओं व्याख्यानदेवाय नमः ।
ओं भगवते नमः ।
ओं अग्निचन्द्रार्कलोचनाय नमः ।
ओं जगत्स्रष्ट्रे नमः ।
ओं जगद्गोप्त्रे नमः ।
ओं जगद्ध्वंसिने नमः ।
ओं त्रिलोचनाय नमः ।
ओं जगद्गुरवे नमः ।
ओं महादेवाय नमः ।
ओं महानन्दपरायणाय नमः । 70
ओं जटाधारिणे नमः ।
ओं महावीराय नमः ।
ओं ज्ञानदेवैरलङ्कृताय नमः ।
ओं व्योमगङ्गाजलस्नाताय नमः ।
ओं सिद्धसङ्घसमर्चिताय नमः ।
ओं तत्त्वमूर्तये नमः ।
ओं महायोगिने नमः ।
ओं महासारस्वतप्रदाय नमः ।
ओं व्योममूर्तये नमः ।
ओं भक्तानामिष्टकामफलप्रदाय नमः । 80
ओं वीरमूर्तये नमः ।
ओं विरूपिणे नमः ।
ओं तेजोमूर्तये नमः ।
ओं अनामयाय नमः ।
ओं वेदवेदाङ्गतत्त्वज्ञाय नमः ।
ओं चतुष्षष्टिकलानिधये नमः ।
ओं भवरोगभयध्वंसिने नमः ।
ओं भक्तानामभयप्रदाय नमः ।
ओं नीलग्रीवाय नमः ।
ओं ललाटाक्षाय नमः । 90
ओं गजचर्मणे नमः ।
ओं ज्ञानदाय नमः ।
ओं अरोगिणे नमः ।
ओं कामदहनाय नमः ।
ओं तपस्विने नमः ।
ओं विष्णुवल्लभाय नमः ।
ओं ब्रह्मचारिणे नमः ।
ओं संन्यासिने नमः ।
ओं गृहस्थाश्रमकारणाय नमः ।
ओं दान्तशमवतां श्रेष्ठाय नमः । 100
ओं सत्त्वरूपदयानिधये नमः ।
ओं योगपट्टाभिरामाय नमः ।
ओं वीणाधारिणे नमः ।
ओं विचेतनाय नमः ।
ओं मन्त्रप्रज्ञानुगाचाराय नमः ।
ओं मुद्रापुस्तकधारकाय नमः ।
ओं रागहिक्कादिरोगाणां विनिहन्त्रे नमः ।
ओं सुरेश्वराय नमः । 108
इति श्री दक्षिणामूर्त्यष्टोत्तरशतनामावली ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits