Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

स्वर्णाकर्षण भैरव स्तोत्रम्

ओं अस्य श्री स्वर्णाकर्षण भैरव स्तोत्र महामन्त्रस्य ब्रह्म ऋषिः अनुष्टुप् छन्दः श्री स्वर्णाकर्षण भैरवो देवता ह्रीं बीजं क्लीं शक्तिः सः कीलकं मम दारिद्र्य नाशार्थे पाठे विनियोगः ॥ ऋष्यादि न्यासः – ब्रह्मर्षये नमः शिरसि । अनुष्टुप् छन्दसे नमः मुखे । स्वर्णाकर्षण भैरवाय नमः हृदि । ह्रीं बीजाय नमः गुह्ये । क्लीं शक्तये नमः पादयोः । सः कीलकाय नमः नाभौ । विनियोगाय नमः सर्वाङ्गे । ह्रां ह्रीं ह्रूं इति कर षडङ्गन्यासः ॥ ध्यानम् – पारिजातद्रुम कान्तारे स्थिते माणिक्यमण्डपे । सिंहासनगतं वन्दे भैरवं स्वर्णदायकम् ॥ गाङ्गेय पात्रं डमरूं त्रिशूलं वरं करः सन्दधतं त्रिनेत्रम् । देव्यायुतं तप्त सुवर्णवर्ण स्वर्णाकर्षणभैरवमाश्रयामि ॥ मन्त्रः – ओं ऐं ह्रीं श्रीं ऐं श्रीं आपदुद्धारणाय ह्रां ह्रीं ह्रूं अजामलवध्याय लोकेश्वराय स्वर्णाकर्षणभैरवाय मम दारिद्र्य विद्वेषणाय महाभैरवाय नमः श्रीं ह्रीं ऐम् । स्तोत्रम् – नमस्तेऽस्तु भैरवाय ब्रह्मविष्णुशिवात्मने । नमस्त्रैलोक्यवन्द्याय वरदाय परात्मने ॥ 1 ॥ रत्नसिंहासनस्थाय दिव्याभरणशोभिने । दिव्यमाल्यविभूषाय नमस्ते दिव्यमूर्तये ॥ 2 ॥ नमस्तेऽनेकहस्ताय ह्यनेकशिरसे नमः । नमस्तेऽनेकनेत्राय ह्यनेकविभवे नमः ॥ 3 ॥ नमस्तेऽनेककण्ठाय ह्यनेकांशाय ते नमः । नमोस्त्वनेकैश्वर्याय ह्यनेकदिव्यतेजसे ॥ 4 ॥ अनेकायुधयुक्ताय ह्यनेकसुरसेविने । अनेकगुणयुक्ताय महादेवाय ते नमः ॥ 5 ॥ नमो दारिद्र्यकालाय महासम्पत्प्रदायिने । श्रीभैरवीप्रयुक्ताय त्रिलोकेशाय ते नमः ॥ 6 ॥ दिगम्बर नमस्तुभ्यं दिगीशाय नमो नमः । नमोऽस्तु दैत्यकालाय पापकालाय ते नमः ॥ 7 ॥ सर्वज्ञाय नमस्तुभ्यं नमस्ते दिव्यचक्षुषे । अजिताय नमस्तुभ्यं जितामित्राय ते नमः ॥ 8 ॥ नमस्ते रुद्रपुत्राय गणनाथाय ते नमः । नमस्ते वीरवीराय महावीराय ते नमः ॥ 9 ॥ नमोऽस्त्वनन्तवीर्याय महाघोराय ते नमः । नमस्ते घोरघोराय विश्वघोराय ते नमः ॥ 10 ॥ नमः उग्राय शान्ताय भक्तेभ्यः शान्तिदायिने । गुरवे सर्वलोकानां नमः प्रणव रूपिणे ॥ 11 ॥ नमस्ते वाग्भवाख्याय दीर्घकामाय ते नमः । नमस्ते कामराजाय योषित्कामाय ते नमः ॥ 12 ॥ दीर्घमायास्वरूपाय महामायापते नमः । सृष्टिमायास्वरूपाय विसर्गाय सम्यायिने ॥ 13 ॥ रुद्रलोकेशपूज्याय ह्यापदुद्धारणाय च । नमोऽजामलबद्धाय सुवर्णाकर्षणाय ते ॥ 14 ॥ नमो नमो भैरवाय महादारिद्र्यनाशिने । उन्मूलनकर्मठाय ह्यलक्ष्म्या सर्वदा नमः ॥ 15 ॥ नमो लोकत्रयेशाय स्वानन्दनिहिताय ते । नमः श्रीबीजरूपाय सर्वकामप्रदायिने ॥ 16 ॥ नमो महाभैरवाय श्रीरूपाय नमो नमः । धनाध्यक्ष नमस्तुभ्यं शरण्याय नमो नमः ॥ 17 ॥ नमः प्रसन्नरूपाय ह्यादिदेवाय ते नमः । नमस्ते मन्त्ररूपाय नमस्ते रत्नरूपिणे ॥ 18 ॥ नमस्ते स्वर्णरूपाय सुवर्णाय नमो नमः । नमः सुवर्णवर्णाय महापुण्याय ते नमः ॥ 19 ॥ नमः शुद्धाय बुद्धाय नमः संसारतारिणे । नमो देवाय गुह्याय प्रबलाय नमो नमः ॥ 20 ॥ नमस्ते बलरूपाय परेषां बलनाशिने । नमस्ते स्वर्गसंस्थाय नमो भूर्लोकवासिने ॥ 21 ॥ नमः पातालवासाय निराधाराय ते नमः । नमो नमः स्वतन्त्राय ह्यनन्ताय नमो नमः ॥ 22 ॥ द्विभुजाय नमस्तुभ्यं भुजत्रयसुशोभिने । नमोऽणिमादिसिद्धाय स्वर्णहस्ताय ते नमः ॥ 23 ॥ पूर्णचन्द्रप्रतीकाशवदनाम्भोजशोभिने । नमस्ते स्वर्णरूपाय स्वर्णालङ्कारशोभिने ॥ 24 ॥ नमः स्वर्णाकर्षणाय स्वर्णाभाय च ते नमः । नमस्ते स्वर्णकण्ठाय स्वर्णालङ्कारधारिणे ॥ 25 ॥ स्वर्णसिंहासनस्थाय स्वर्णपादाय ते नमः । नमः स्वर्णाभपाराय स्वर्णकाञ्चीसुशोभिने ॥ 26 ॥ नमस्ते स्वर्णजङ्घाय भक्तकामदुघात्मने । नमस्ते स्वर्णभक्तानां कल्पवृक्षस्वरूपिणे ॥ 27 ॥ चिन्तामणिस्वरूपाय नमो ब्रह्मादिसेविने । कल्पद्रुमाधःसंस्थाय बहुस्वर्णप्रदायिने ॥ 28 ॥ नमो हेमादिकर्षाय भैरवाय नमो नमः । स्तवेनानेन सन्तुष्टो भव लोकेशभैरव ॥ 29 ॥ पश्य मां करुणाविष्ट शरणागतवत्सल । श्रीभैरव धनाध्यक्ष शरणं त्वां भजाम्यहम् । प्रसीद सकलान् कामान् प्रयच्छ मम सर्वदा ॥ 30 ॥ फलश्रुतिः – श्रीमहाभैरवस्येदं स्तोत्रसूक्तं सुदुर्लभम् । मन्त्रात्मकं महापुण्यं सर्वैश्वर्यप्रदायकम् ॥ 31 ॥ यः पठेन्नित्यमेकाग्रं पातकैः स विमुच्यते । लभते चामलालक्ष्मीमष्टैश्वर्यमवाप्नुयात् ॥ 32 ॥ चिन्तामणिमवाप्नोति धेनु कल्पतरुं धृवम् । स्वर्णराशिमवाप्नोति सिद्धिमेव स मानवः ॥ 33 ॥ सन्ध्यायां यः पठेत् स्तोत्रं दशावृत्या नरोत्तमैः । स्वप्ने श्रीभैरवस्तस्य साक्षाद्भूत्वा जगद्गुरुः ॥ 34 ॥ स्वर्णराशि ददात्येव तत्‍क्षणान्नास्ति संशयः । सर्वदा यः पठेत् स्तोत्रं भैरवस्य महात्मनः ॥ 35 ॥ लोकत्रयं वशीकुर्यादचलां श्रियमवाप्नुयात् । न भयं लभते क्वापि विघ्नभूतादिसम्भव ॥ 36 ॥ म्रियन्ते शत्रवोऽवश्यमलक्ष्मीनाशमाप्नुयात् । अक्षयं लभते सौख्यं सर्वदा मानवोत्तमः ॥ 37 ॥ अष्टपञ्चाशताणढ्यो मन्त्रराजः प्रकीर्तितः । दारिद्र्यदुःखशमनं स्वर्णाकर्षणकारकः ॥ 38 ॥ य येन सञ्जपेत् धीमान् स्तोत्रं वा प्रपठेत् सदा । महाभैरवसायुज्यं स्वान्तकाले भवेद्ध्रुवम् ॥ 39 ॥ इति श्री रुद्रयामल तन्त्रे स्वर्णाकर्षण भैरव स्तोत्रम् ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits